सारण-शिक्षकनिर्वाचनक्षेत्रे मतदानम् आरब्धम्
सारणम्, २३ अक्टोबरमासः (हि.स.)। सारण-शिक्षकनिर्वाचनक्षेत्रस्य कृते प्रातः अष्टवादनात् कठोरसुरक्षाव्यवस्थायाः मध्ये मतदानम् आरब्धम् अस्ति। निर्वाचनं शान्तिपूर्णरीत्या सम्पन्नं कर्तुं विधि-व्यवस्थां च संरक्षितुं सर्वेषां मतदान-केन्द्राणि परितः द्विशत
सारण शिक्षक निर्वाचन क्षेत्र में मतदान शुरू


सारण शिक्षक निर्वाचन क्षेत्र में मतदान शुरू


सारण शिक्षक निर्वाचन क्षेत्र में मतदान शुरू


सारण शिक्षक निर्वाचन क्षेत्र में मतदान शुरू


सारण शिक्षक निर्वाचन क्षेत्र में मतदान शुरू


सारणम्, २३ अक्टोबरमासः (हि.स.)। सारण-शिक्षकनिर्वाचनक्षेत्रस्य कृते प्रातः अष्टवादनात् कठोरसुरक्षाव्यवस्थायाः मध्ये मतदानम् आरब्धम् अस्ति। निर्वाचनं शान्तिपूर्णरीत्या सम्पन्नं कर्तुं विधि-व्यवस्थां च संरक्षितुं सर्वेषां मतदान-केन्द्राणि परितः द्विशतमीटर-परिमितायां परिधौ कठोराः सुरक्षाप्रबन्धाः कृताः सन्ति।

अस्य निर्वाचनक्षेत्रस्य अन्तर्गतं पञ्चसु जनपदेषु १०,७३१ मतदातारः पञ्जीकृताः सन्ति। तेषु ८,८७७ पुरुषमतदातारः १,८५४ महिलामतदातारश्च स्वमताधिकारस्य प्रयोगं कुर्वन्ति। सुचारुरूपेण मतदान-प्रक्रियां सम्पादयितुं ९८ मतदानकेन्द्राणि स्थापितानि सन्ति। एतेषु सारणे २०, सिवाने १९, गोपालगञ्जे १४, पूर्वचम्पारणे २७, पश्चिमचम्पारणे च १८ मतदानकेन्द्राणि सन्ति।

अस्मिन् निर्वाचने प्रतिस्पर्धमानानाम् अष्टादश अभ्यर्थिनां राजनैतिकभाग्यस्य निर्णयः अद्य मतपेटिकासु सुरक्षिततया निहितः भविष्यति। कस्यापि असुविधायाः साहाय्यस्य वा कृते जनपदप्रशासनेन नियन्त्रणकक्षस्य दूरभाषसङ्ख्या ०६१५२-२४२४४४ प्रसारिता अस्ति। मतदानसमाप्तेः अनन्तरं सर्वाः निर्वाचनसामग्र्यः सारणस्य छपरानगरे स्थिते राजकीयकन्याउच्च-माध्यमिक-विद्यालयस्य वज्रगृहे सुरक्षिततया स्थापितानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan