Enter your Email Address to subscribe to our newsletters

वाराणसी, २३ अक्टोबरमासः (हि.स.)। वाराणस्यां श्यामभक्तानां प्रियः उत्सवः ४३ तमः श्रीश्याममहोत्सवः आगामी २०२६ तमस्य वर्षस्य अक्टोबरमासस्य २५ दिनाङ्के रविवासरे दुर्गाकुण्डस्थिते धर्मसङ्घशिक्षामण्डलस्य प्राङ्गणे महता हर्षोल्लासेन आयोजयिष्यते। श्रीश्याम-बालमण्डलेन आयोजिते अस्मिन् महोत्सवे देशस्य विभिन्नेभ्यः भागेभ्यः प्रसिद्धाः भजनगायकाः स्वमधुरस्वरैः श्यामप्रभोः आराधनां करिष्यन्ति। शुक्रवासरे दुर्गाकुण्डे आयोजितायां पत्रकारवार्तायां संस्थायाः पदाधिकारिभिः एतद्विषये सूचना प्रदत्ता।
धर्मसङ्घशिक्षामण्डले संस्थायाः अध्यक्षः सञ्जीव अग्रवाल डब्बू, मन्त्री अमित शर्मा, कार्यक्रमसंयोजकः कृष्णकुमार शर्मा, श्याम: बूबना, निखिल अग्रवाल:, निशु:, शिवम शर्मा तथा समाजसेवकौ विजय मोदी-महेश चौधरी च संयुक्तरूपेण अवदन् यत् ४३ तमः श्रीश्याममहोत्सवः अक्टोबरमासस्य २५ दिनाङ्के रविवासरे प्रातः ९ वादनात् रात्रौ प्रभोः इच्छानुसारं यावत् आयोजयिष्यते। कार्यक्रमस्य मुख्यातिथिः त्रिदेवमन्दिरसेवकपरिवारस्य अध्यक्षः भरतसराफ: भविष्यति। प्रदीप: तुलस्यान, ओंकारनाथ: माहेश्वरी, कमल अग्रवाल: तथा पुरुषोत्तम: जालान स्वागताध्यक्षाः भविष्यन्ति।
सर्वप्रथमं प्रातः ७ वादने संस्थायाः संरक्षकस्य सूर्योदयशास्त्रिणः नेतृत्वे रुद्राभिषेकः करिष्यते। सुन्दरकाण्डपाठस्य कार्यक्रमसंयोजकयोः कृष्णकुमार-काबरस्य नीरजमहर्षेः च नेतृत्वे आचार्यः सञ्जय: हजारी ५०१ भक्तैः सह प्रातः ९ वादने सुन्दरकाण्डस्य पाठं करिष्यति। मध्याह्ने १२ वादनात् ३० निमेषेभ्यः परं समाजस्य महिलाभिः भव्यः महारासकार्यक्रमः आयोजयिष्यते। तदनन्तरं स्थानीयैः तथा बहिरागतैः कलाकारैः भजनानां मधुरधारा प्रवाहिता भविष्यति।
ते अवदन् यत् कलाकारसमूहे मुख्यतया जयपुरस्य प्रसिद्धाः भजनगायकाः दादा कुमार नरेन्द्रः, अभिषेक: नामा, नवीन शर्मा, ऋषिकेशः, कोलकातातः सञ्जू शर्मा, मुम्बईतः रोहित शर्मा च सम्मिलिताः भविष्यन्ति। वाराणस्याः स्थानीयमण्डलानि श्रीत्रिदेवमन्दिरसेवकपरिवारः, श्रीश्याम-मण्डलम् इत्यादीनि अपि कार्यक्रमे भागं ग्रहीष्यन्ति।
संस्थायाः कोषाध्यक्षः पवन शर्मा तथा माध्यमप्रभारी सुरेश तुलस्यान च संयुक्तरूपेण अवदताम् यत् महोत्सवस्य कृते कोलकातातः आगतैः शिल्पिभिः भव्यसज्जा कारयिष्यते। देशीयैः विदेशीयैः च पुष्पैः श्यामप्रभोः अलौकिकी झाँकी रथे विराजमाना भविष्यति। श्यामप्रभोः कृते सवामणिभोगः समर्पयिष्यते, यः भक्तेभ्यः वितरिष्यते। रात्रौ श्रीश्यामप्रभोः महारार्तिकी करिष्यते। अस्मिन्नवसरे संस्थायाः सर्वे सदस्याः उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan