Enter your Email Address to subscribe to our newsletters

प्रयागराजः, २३ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशमाध्यमिकशिक्षामण्डलेन २०२६-२७ तमस्य शैक्षणिकसत्रस्य कृते नवम-कक्षायाः एकादश-कक्षायाश्च अग्रिमपञ्जीकरणाय तथा दशम-द्वादशकक्षयोः परीक्षाप्रवेदनसम्बद्धायाः नामावल्याः समर्पणाय विद्यालयेभ्यः अन्तिमः अवसरः प्रदत्तः। अधुना सम्बन्धितविद्यालयाः अक्टोबरमासस्य २६ दिनाङ्कपर्यन्तं मण्डलस्य जालपुटात् नामावलीं सज्जीकृत्य तस्याः एकां प्रतिलिपिं च सह नीत्वा जनपदविद्यालय-निरीक्षकस्य कार्यालये समर्पयितुं शक्नुवन्ति। निर्धारितसमय-सीमायां प्रक्रियां पूर्णां न कुर्वतां विद्यालयानां प्रधानाचार्याणां दायित्वं निर्धारितं करिष्यते। इयं सूचना शुक्रवासरे माध्यमिक-शिक्षामण्डलस्य सचिवेन भगवतीसिंहेन प्रदत्ता।
सः अवदत् यत् सम्बन्धितविद्यालयैः नामावलीं सज्जीकृत्य अवतार्य च तस्याः एकया प्रतिलिप्या सह जनपदविद्यालय-निरीक्षकस्य कार्यालये समर्पयितव्या। एतदर्थं पूर्वं २०२६ तमस्य वर्षस्य अक्टोबरमासस्य १५ दिनाङ्कपर्यन्तं समयसीमा निर्धारिता आसीत्। अनन्तरं सा वर्धयित्वा अक्टोबरमासस्य २२ दिनाङ्कपर्यन्तं कृता, तथापि प्रदेशस्य ९४० विद्यालयाः निर्धारितावधौ नामावलीं सज्जीकर्तुं न शक्तवन्तः।
एतत् दृष्ट्वा मण्डलेन विद्यालयेभ्यः अक्टोबरमासस्य २६ दिनाङ्कपर्यन्तम् अन्तिमः अवसरः प्रदत्तः। सचिवेन सम्बन्धितविद्यालयेभ्यः निर्देशः प्रदत्तः यत् ते निर्धारितदिनाङ्कपर्यन्तं नामावलीं सज्जीकृत्य अवतारयन्तु तथा तस्याः प्रतिलिपिं जनपदविद्यालयनिरीक्षकस्य कार्यालये समर्पयन्तु।
समयसीमायाः पालनम् अनिवार्यम्
मण्डलेन स्पष्टं कृतं यत् निर्धारितदिनाङ्कपर्यन्तं प्रक्रियां पूर्णां न कुर्वतां विद्यालयानां प्रधानाचार्याणां दायित्वं निर्धारितं करिष्यते। एतदर्थं शिक्षाविभागस्य अधिकारिभ्यः जनपद-विद्यालयनिरीक्षकेभ्यश्च आवश्यक-कार्यवाहीं कर्तुं निर्देशाः प्रदत्ताः सन्ति।
उत्तरप्रदेशमाध्यमिकशिक्षामण्डलस्य सचिवः भगवतीसिंहः अवदत् यत् २०२६-२७ तमस्य शैक्षणिकसत्रस्य कृते सम्बन्धित-विद्यालयेभ्यः नामावलीं सज्जीकर्तुं समर्पयितुं च अन्तिमः अवसरः प्रदत्तः अस्ति। विद्यालयैः अक्टोबरमासस्य २६ दिनाङ्क-पर्यन्तम् एषा प्रक्रिया अनिवार्यतया पूर्णा करणीया। निर्धारितसमयसीमायाः पालनं न कुर्वतां विद्यालयानां प्रधानाचार्याणां दायित्वं निर्धारितं करिष्यते।
Hindusthan Samachar / Divya Ranjan