खाद्यसुरक्षाविभागस्य छापामारी, अष्ट खाद्यपदार्थानां नमूनाः गृहीताः
देवरिया, २४ अक्टोबरमासः (हि.स.)। उत्सवम् अवलोक्य शनिवासरे खाद्यसुरक्षाविभागस्य दलं विभिन्नेषु आपणेषु छापामारीम् अकरोत्। अस्मिन् क्रमे अन्तर्जालमाध्यमेन खाद्यपदार्थानां विक्रयं कुर्वतां प्रतिष्ठानै: सह अन्येषाम् आपणानामपि निरीक्षणं कृत्वा कुलम् अष्ट
नमूना लेते


देवरिया, २४ अक्टोबरमासः (हि.स.)। उत्सवम् अवलोक्य शनिवासरे खाद्यसुरक्षाविभागस्य दलं विभिन्नेषु आपणेषु छापामारीम् अकरोत्। अस्मिन् क्रमे अन्तर्जालमाध्यमेन खाद्यपदार्थानां विक्रयं कुर्वतां प्रतिष्ठानै: सह अन्येषाम् आपणानामपि निरीक्षणं कृत्वा कुलम् अष्ट खाद्यपदार्थानां नमूनाः सङ्गृहीताः। एते नमूनाः परीक्षणार्थं प्रयोगशालां प्रेषिताः सन्ति।

विभागीयसूचनानुसारं रामनाथ-देवरियास्थितस्य ई-ब्लिंक-आपणस्य निरीक्षणकाले वस्तूनां सम्यक् संरक्षणे स्वच्छतायां च न्यूनताः दृष्टाः। अतः उक्तप्रतिष्ठानाय सुधारसूचनापत्रं प्रदीयते। निरीक्षणदलेन तत्र सन्देहस्य आधारेण पञ्च खाद्यपदार्थानां नमूनाः गृहीताः। अपरतः साकेतनगरस्थिते आपणेऽपि आवश्यकाः सुधाराः न दृष्टाः। अतः तत्रापि सुधारसूचनापत्रं प्रदातुं कार्यवाही क्रियते।

अपि च, भलुअनी-विपण्यां स्थितात् राजेन्द्र-किराणाआपणात् एकस्य खाद्यपदार्थस्य नमूना गृहीतः। मुख्यालयस्य निर्देशानुसारं करौदीस्थायाः गौरी-शङ्करस्य आपणात् तथा बघौचघाट-स्थितायाः सलाउद्दीनस्य आपणात् च बेसनस्य सर्षपतैलस्य च नमूनाः गृहीत्वा परीक्षणार्थं प्रेषिताः।

खाद्यसुरक्षाविभागस्य अनुसारं प्रयोग-शालायाः परीक्षणप्रतिवेदनं प्राप्ते सति तदाधारेण अग्रे कार्यवाही करिष्यते। खाद्यपदार्थानां गुणवत्तायाः स्वच्छतायाश्च सुनिश्चित्य निरीक्षणाभियानम् अनुवर्तयिष्यते इति अधिकारिभिः उक्तम्।

Hindusthan Samachar / Divya Ranjan