Enter your Email Address to subscribe to our newsletters

कोलकाता, २४ अक्टोबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य स्वास्थ्यमन्त्री शारद्वतमुखोपाध्यायः महत्त्वपूर्णं ऐतिहासिकं च निर्णयं कुर्वन् राज्यस्य सर्वकारीयचिकित्सालयेषु प्रचलितां दशकैः पुरातनां दीर्घावकाशपरम्परां समाप्तुं घोषणां कृतवान्। सः स्पष्टं कृतवान् यत् अग्रिमवर्षस्य दुर्गापूजायाः आरभ्य सर्वकारीयचिकित्सालयानां कस्यापि कर्मचारिणः षष्ठीतः कोजागरीलक्ष्मी-पूजापर्यन्तं (प्रायः १० दिनानि) दीर्घावकाशं न प्राप्स्यन्ति।
शुक्रवासरे रात्रौ स्वास्थ्यमन्त्री दृढतया उक्तवान् यत् स्वास्थ्यविभागः राज्यस्य अन्येषां सामान्यसर्वकारीयविभागानामिव नास्ति, अपितु अत्यावश्यकी आपत्कालीनसेवा अस्ति, या प्रत्यक्षतया जनानां जीवनरक्षणेन सम्बद्धा अस्ति। सः अवदत् यत् १९४७ तमे वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरमेव राज्ये एषा अघोषिता परम्परा प्रचलिता आसीत् यत् षष्ठीतिथिम् आरभ्य कार्यालयेषु चिकित्सालयेषु च अवकाशस्य वातावरणं भवति स्म, एषः क्रमः लक्ष्मीपूजापर्यन्तं प्रचलति स्म।
शारद्वतमुखोपाध्यायः कठोरशब्दैः उक्तवान्, “षष्ठीतः लक्ष्मीपूजापर्यन्तम् अवकाशं स्वीकर्तुं प्रचलिता एषा पुरातनी प्रथा इदानीं सर्वथा समाप्तव्या। दीर्घकालात् प्रचलिता या कापि परम्परा आसीत्, सा इदानीं न अनुवर्तिष्यते।” सः अग्रे अवदत् यत् अग्रिमवर्षात् सप्तमी, अष्टमी, नवमी, दशमी इति पूजायाः चतुर्षु प्रमुखदिवसेषु एव विशेषं कार्यपालनक्रमं निर्मास्यते।
अस्मिन् वर्षे अपि एताम् नूतनव्यवस्थां प्रवर्तयन् मन्त्रिणा आदेशः प्रदत्तः यत् ये कर्मचारी अवकाशे आसन्, तेषाम् अवकाशाः तत्कालप्रभावेण निरस्ताः सन्ति तथा च ते कार्ये पुनरागन्तुं निर्देशिताः सन्ति। सः सन्तोषं प्रकटयन् अवदत् यत् आयुर्विज्ञानमहाविद्यालयानां शिक्षकाः, प्राचार्याः, एमएसवीपी-पदाधिकारिणः, अचिकित्सकीयाधीक्षकाः, स्वच्छता-कर्मचारिणः च सर्वे अन्येषां सर्वकारीय-विभागानां कर्मचारिणामिव कार्ये प्रत्यागतवन्तः।
अपि च, स्वास्थ्य मन्त्री सर्वकारीय-चिकित्सालयेषु कर्मचारिणाम् उपस्थितेः कृते प्रवर्तितायाः ‘विशेषकार्य-पालनक्रम-व्यवस्थायाः’ विवरणम् अपि दत्तवान्। सः अवदत् यत् अस्मादेव वर्षात् पूजायाः चतुर्षु दिवसेषु एषः कार्य-पालनक्रमः प्रवर्तितः अस्ति। आगामिवर्षादपि सप्तमी, अष्टमी, नवमी, दशमी इत्येतेषु दिवसेषु अचिकित्सकीय-कर्मचारिणां संख्या ५० प्रतिशतं स्थापयिष्यते।
तथापि, सः स्पष्टं कृतवान् यत् चिकित्सकानां परिचारिकाणां च कृते एतादृशः कार्यपालनक्रमः न भविष्यति। चिकित्सालयस्य आवश्यकतानुसारं तथा आपत्कालीनपरिस्थितीनाम् अनुसारेण ते स्वकर्तव्यपालनाय उपस्थिताः भवितुम् अर्हन्ति। तेषाम् अवकाशाः पूर्वनिर्धारिताः न भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan