Enter your Email Address to subscribe to our newsletters



- मुख्यमन्त्रिणा डॉ. यादवेन द्विदिवसीयस्य चतुर्थस्य राष्ट्रियस्य एचआर-सीएसआर-सम्मेलनस्य ‘अभ्युदयः २०२६’ इत्यस्य शुभारम्भः कृतः
भोपालम्, २४ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् तस्य सर्वकारः प्रदेशे यत्र यत्र भगवत: श्रीरामस्य श्रीकृष्णस्य च चरणाः पतिताः, तानि स्थानानि श्रीरामतीर्थरूपेण श्रीकृष्णतीर्थरूपेण च विकसितानि करोति।
मुख्यमन्त्री डॉ. यादवः शनिवासरे कुशाभाऊठाकरेसभागारे आयोजिते ‘चतुर्थे राष्ट्रिय-एचआर-सीएसआर-सम्मेलने अभ्युदये’ सम्बोधनं कुर्वन् आसीत्। तेन दीपप्रज्वलनं कृत्वा द्विदिवसीयस्य राष्ट्रियसम्मेलनस्य शुभारम्भः कृतः। सम्मेलनम् अक्टोबरमासस्य २५ दिनाङ्के अपि प्रचलिष्यति। कार्यक्रमे इण्डोनेशिया-देशात् आगतेन पद्मश्रीसम्मानेन सम्मानितेन डॉ. अगुष इन्द्र उद्यानेन मुख्यमन्त्रिणे पारम्परिकहोरा उपहाररूपेण प्रदत्ता।
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् भगवत: श्रीकृष्णस्य जीवनस्य गहनं शोधं सम्पूर्णजीवनवृत्तस्य च मीमांसां कुर्वद्भ्यः शोधार्थिभ्यः तादृशीभ्यः संस्थाभ्यश्च सर्वकारः पूर्णं समर्थनं सहयोगं च प्रदास्यति। सः अवदत् यत् यत्र गीतायाः समाप्तिः भवति, तत्रैव जीवनस्य अभ्युदयः आरभते। भगवान् श्रीकृष्णस्य सम्पूर्णं जीवनम् अस्माकं समाजाय आदर्शस्वरूपम् अस्ति। वयं सर्वे तस्य जीवनात् प्रतिदिनं किमपि नूतनं शिक्षामहे। सः स्वसम्पूर्णं जीवनं विविधासु समस्यासु व्यतीतवान्।
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् भगवान् श्रीकृष्णः तत्कालीन-लोकतान्त्रिकपरम्पराणां सत्य: महान् नायकश्च आसीत्। सः जीवनस्य प्रत्येकस्मिन् परिस्थितौ स्वमानवधर्मं राजधर्मं च सम्यक् निर्वाहितवान्। सः सर्वशक्तिमन्तं सत्ताधीशं कंसं हतवान्, किन्तु स्वयम् तस्य सिंहासने न आरूढवान्। सः कदापि स्वं राजा इति कथयितुं न इष्टवान्। सुदाम्ना सह मैत्र्याः सम्मानं सः सर्वदा संरक्षितवान्।
मुख्यमन्त्री उक्तवान् यत् भगवता श्रीकृष्णेन सह सर्वेषां देवीदेवतानां व्यक्तित्वस्य तस्मिन् पक्षे चिन्तनस्य आवश्यकता अस्ति, यस्मिन् तेषां जीवने विविधाः समस्याः समुत्पन्नाः, ते च कथं मानवसमाजस्य कल्याणाय मार्गं निर्मितवन्तः। भगवत: श्रीकृष्णस्य जन्म कारागारे अभवत्। तस्य मातापितरौ, सः स्वयं च प्रारम्भिकजीवने अनेकानि कष्टानि सोढवन्तः।
मुख्यमन्त्री उक्तवान् यत् भगवान् श्रीकृष्णः स्वसङ्कल्पेषु दृढः आसीत्। सः यशोदामात्रे वचनं दत्तवान् आसीत् यत् कंसं हत्वा मथुरातः प्रत्यागत्य भवत्याः हस्तेन नवनीतं खादिष्यामि। किन्तु यदा सः कारागारे देवकीमात्रा सह अमिलत्, तदा सा यदा कृष्णाय नवनीतं भोजयितुम् ऐच्छत्, तदा कृष्णः स्पष्टतया अस्वीकृतवान्, यतः सः यशोदामात्रे तस्याः हस्तेन नवनीत-भोजनस्य वचनं दत्तवान् आसीत्। एतादृशाः अनेकाः प्रसङ्गाः अस्मान् प्रेरयन्ति यत् समाजं सह नीत्वा कथम् अग्रे गन्तव्यम्। भगवान् श्रीकृष्णः शिरसि मयूरपिच्छं धृत्वा प्रकृतिपूजायाः संस्कृतिं प्रोत्साहितवान्।
सः अवदत् यत् भगवान् श्रीकृष्णः सुदामा च उज्जयिन्यां सान्दीपन्याश्रमे एकत्र विद्याध्ययनं कृतवन्तौ। अस्माकं विद्यालयीयशिक्षाव्यवस्था अपि एतस्य समरसतायाः विचारस्य आधारेण अग्रे गच्छति। भगवत: श्रीकृष्णस्य विराट-व्यक्तित्वात् वयं लोकतान्त्रिक-व्यवस्थायाः, उद्यमशीलतायाः, मैत्र्याः, मातापित्रोः सम्मानस्य, सैनिका-नुशासनस्य च शिक्षां प्राप्नुमः। पदस्य स्थाने दायित्वानां सेवाभावेन निर्वहणम्, कर्तव्यनिष्ठया अग्रे गमनम्, ज्ञानस्य शोधकार्येषु उपयोगः च शासनव्यवस्थायै महत्त्वपूर्णाः शिक्षाः सन्ति इति मुख्यमन्त्री उक्तवान्।
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् भगवान् श्रीकृष्णः नरकासुरं हत्वा सामाजिकन्यायस्य उदाहरणं प्रस्तुतवान्। श्रीकृष्णपाथेयन्यासस्य माध्यमेन भगवान् श्रीकृष्णस्य व्यक्तित्वविषये चर्चां कर्तुं देशस्य विभिन्नेषु भागेषु एतादृशानाम् आयोजनानाम् आवश्यकता अस्ति। अस्य महत्त्वपूर्णस्य राष्ट्रियकार्यक्रमस्य आयोजनाय सः यूनाइटेड काउन्सिल् फॉर् एन्शियण्ट् विज्डम्-यूनाइटेड् कॉन्शसनेस, श्रीकृष्णपाथेयन्यासः, संस्कृतिविभागः तथा सहयोगिसंस्था यूनाइटेड् ग्लोबल पीस फाउण्डेशन इत्येतेभ्यः अभिनन्दनं दत्तवान्।
संस्कृतिविभागस्य अपरमुख्यसचिवः तथा श्रीकृष्णपाथेयन्यासस्य न्यासीसचिवः शिवशेखरशुक्लः उक्तवान् यत् प्रदेशस्य सर्वकारः सांस्कृतिकपरम्परियाः संरक्षणाय प्रतिबद्धः अस्ति। मुख्यमन्त्री स्वयम् अग्रे आगत्य अस्याः अभियानस्य नेतृत्वं कुर्वन् अस्ति। श्रीकृष्णपाथेयस्य माध्यमेन भगवान् श्रीकृष्णेन सम्बद्धानि सर्वाणि स्थानानि तीर्थस्थलरूपेण विकसितानि क्रियन्ते। भगवान् श्रीरामः अपि मध्यप्रदेशस्य चित्रकूटे स्वजीवनस्य महत्त्वपूर्णं कालखण्डं व्यतीतवान् आसीत्। ओङ्कारेश्वरे नर्मदानद्याः तीरे आचार्यशङ्करः ज्ञानं प्राप्तवान् तथा देशस्य विभिन्नेषु भागेषु यात्रां कृत्वा सनातनधर्मस्य प्रचारं प्रसारं च कृतवान्। एतेषां सर्वेषां सम्बद्धस्थलानां संरक्षणं कुर्वन् सर्वकारः अग्रे गच्छति। ओङ्कारेश्वरे एकात्मधामस्य स्थापना कृता अस्ति। अनेन भविष्ये धार्मिकपर्यटनस्य ऐतिहासिकपर्यटनस्य च अवसराः अपि विकसिताः भविष्यन्ति।
राष्ट्रियसम्मेलनस्य संयोजकः डॉ. विक्रान्तसिंहतोमरः उक्तवान् यत् मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशाय अभ्युदयस्य मन्त्रं प्रदत्तवान्। एषः शब्दः पवित्रायाः गीतायाः उत्पन्नः अस्ति। यदा जीवने शान्तिः आगच्छति, तदा सा शान्तिः आध्यात्मिकसमृद्धिमपि जनयति। मुख्यमन्त्रिणः डॉ. यादवस्य नेतृत्वे प्रदेशः स्वधार्मिकसांस्कृतिकपरम्पराणां, भारतीयज्ञानपरम्परायाश्च संरक्षणं कुर्वन् अग्रे गच्छति। मुख्यमन्त्री प्रदेशस्य औद्योगिकविकासाय सङ्कल्पितः अस्ति। सः मध्यप्रदेशं विकसितं स्वावलम्बिनं च कर्तुम् इच्छति। तेन अस्य द्विदिवसीयसम्मेलनस्य रूपरेखायाः विषये विस्तरेण प्रकाशः प्रदत्तः।
सम्मेलने मुख्यमन्त्रिणः डॉ. यादवस्य संस्कृतिविषयकः परामर्शदाता श्रीराम-तिवारी, पद्मश्रीसम्मानेन सम्मानितः डॉ. एच. आर. नगेन्द्रः, अद्वैतगणनायकः च उपस्थिताः आसन्। तेषां अतिरिक्तं देशस्य प्रमुखाः उद्योगप्रतिनिधयः, प्रतिष्ठिताः शिक्षाविदः, सामाजिकक्षेत्रे कार्यरताः समर्पिताः कार्यकर्तारः, भारतीयज्ञान-परम्परायाः विद्वांसः तथा देशस्य प्रमुखनिर्माणीभ्यः आगताः निगम-प्रतिनिधयः अपि उपस्थिताः आसन्।
सम्मेलनस्य परिचयः उद्देश्यानि च
‘अभ्युदयः’ इति चतुर्थं राष्ट्रियं एचआर-सीएसआर-सम्मेलनम् अस्ति। पर्यावरणम्, सामाजिककल्याणं, सुशासनं च भारतीय-सभ्यतायाः ज्ञानपरम्परया नैतिकदृष्ट्या च सह संयोज्य समग्रविकासस्य सम्भावनानां विषये विचारविमर्शः कर्तुम् अस्य सम्मेलनस्य आयोजनं क्रियते। अस्मिन् यूनाइटेड् काउन्सिल फॉर एन्शियण्ट् विज्डम, श्रीकृष्णपाथेयन्यासः तथा मध्यप्रदेश-शासनस्य संस्कृतिविभागः अथवा संस्कृतिपर्यटनविभागः सक्रियतया सहभागं कुर्वन्ति। यूनाइटेड् ग्लोबल पीस फाउण्डेशन इत्यस्य अपि सहयोगि-संस्थारूपेण उल्लेखः कृतः अस्ति।
अस्य सम्मेलनस्य उद्देश्यानि सन्ति—भारतीयसभ्यतागतज्ञानस्य आधुनिकस्य ईएसजी-दृष्टिकोणस्य च सम्बन्धस्य, प्रासङ्गिकतायाः, व्यावहारिकोपयोगस्य च विषये चर्चां कर्तुम्; कर्मयोगः, लोकसङ्ग्रहः, धर्मः इत्यादीन् विचारान् मानवसंसाधनव्यवस्थापनेन, निगम-सामाजिकदायित्वेन, नेतृत्वेन, संस्थागत-निर्णयैश्च सह संयोजयितुम्; पर्यावरणीय-दायित्वस्य, समावेशिसामाजिकविकासस्य, नैतिकसुशासनस्य च कृते व्यावहारिक-दिशानिर्देशान् नीतिगतसुझावांश्च विकसितुम्; तथा सर्वकारस्य, उद्योगजगतः, शैक्षणिकसंस्थानां, सामाजिकसङ्घटनानां च मध्ये सहयोगं प्रोत्साहितुम्।
Hindusthan Samachar / Divya Ranjan