Enter your Email Address to subscribe to our newsletters

मण्डी, २४ अक्टोबरमासः (हि.स.)। मण्डीनगरे तक्षशिलाविद्यालये रोटरी क्लब छोटी काशी मण्डी इत्यस्य इन्टरैक्ट-मण्डलस्य द्वितीयः पदग्रहणसमारोहः आयोजितः। विद्यालये इन्टरैक्ट-मण्डलस्य गठनं गतवर्षे कृतम् आसीत्। समारोहस्य अवसरे नवनियुक्तपदाधिकारिभ्यः दायित्वानि समर्पितानि। नेतृत्वक्षमतायाः, सामूहिकभावनायाः, समाजसेवायाश्च माध्यमेन समाजे सकारात्मकपरिवर्तनम् आनेतुं ते प्रेरिताः।
इन्टरैक्ट-मण्डलं रोटरी-इन्टरनेशनल-सङ्घस्य युवकार्यक्रमः अस्ति। अस्य उद्देश्यं विद्यार्थिषु नेतृत्वगुणानां, परस्पर-सहयोगस्य, सामाजिकदायित्वस्य, सेवा-भावनायाश्च विकासः अस्ति। अस्य माध्यमेन विद्यार्थिनः स्वप्रतिभाम् अभिज्ञातुं, सङ्गठनात्मककौशलं विकसितुं, सामुदायिकगतिविधिषु सक्रियभागग्रहणं कर्तुं च अवसरं प्राप्नुवन्ति।
समारोहे गोपिका अध्यक्षपदे, स्नेहा सचिवपदे, देवर्षः उपाध्यक्षपदे, सुमितः कोषाध्यक्षपदे च नियुक्ताः। रोटरी क्लब छोटी काशी मण्डी इत्यस्य भाव्यध्यक्षा रोटेरियन सुदर्शनकौरः पदग्रहणाधिका-रिरूपेण नवनियुक्तायै अध्यक्षायै अन्येभ्यश्च पदाधिकारिभ्यः पदस्य दायित्वानां च निर्वहणाय शपथं कारितवती।
सा विद्यार्थिभ्यः तेषां दायित्वानि बोधयन्ती अवदत् यत् पदं केवलं सम्मानस्य प्रतीकं नास्ति, अपितु दायित्वनिर्वहणस्य अन्येषां कृते आदर्शं प्रस्तुतस्य च अवसरः अस्ति। अस्मिन् अवसरे रोटेरियन अनुराधासूदः तथा रोटेरियन अमरकौरः अपि उपस्थिते आस्ताम्। ताभ्यां नवनियुक्तपदाधिकारिणः बैजधारणं कारयित्वा तेषां नूतनदायित्व-निर्वहणाय शुभकामनाः प्रदत्ताः। सुदर्शनकौरः स्वसम्बोधने रोटरी-सङ्घस्य उद्देश्यानां, कार्यप्रणाल्याः, मानवीयसेवायां तस्य प्रतिबद्धतायाश्च विषये प्रकाशं पातितवती।
सा अवदत् यत् रोटरी-सङ्घः विभिन्नक्षेत्रैः सम्बद्धान् जनान् एकस्मिन् मञ्चे समानीय समाजस्य आवश्यकताः अवगन्तुं तासां समाधानाय च मिलित्वा कार्यं कर्तुं प्रेरयति। इन्टरैक्ट-मण्डलं विद्यार्थिषु एतां सेवाभावनाम् प्रसारयितुं महत्त्वपूर्णं माध्यमम् अस्ति। सा विद्यार्थिभ्यः आग्रहं कृतवती यत् ते अध्ययनस्य सहैव सामाजिकगतिविधिषु अपि भागं गृह्णीयुः तथा उत्तरदायिनः नागरिकाः भवितुं प्रयत्नं कुर्युः।
रोटरी-सङ्घस्य प्रशिक्षकः मुनिशसूदः स्वसम्बोधने अवदत् यत् विद्यार्थिनां व्यक्तित्वनिर्माणे शिक्षया सह चरित्रस्य, अनुशासनस्य, संवेदनशीलतायाः, सामाजिकदायित्वस्य च महत्त्वपूर्णं योगदानम् अस्ति। शिक्षायाः उद्देश्यं केवलम् उत्तमान् अङ्कान् प्राप्तुं न, अपितु युवानः आत्मविश्वासयुक्तान्, संवेदनशीलान्, उत्तरदायिनश्च नागरिकान् निर्मातुम् अपि अस्ति। नवनियुक्ताध्यक्षा गोपिका तथा सचिवा स्नेहा अपि समारोहे स्वविचारान् प्रस्तुतवत्यौ।
Hindusthan Samachar / Divya Ranjan