Enter your Email Address to subscribe to our newsletters



रांची, 24 अक्टूबरमासः (हि.स.)।झारखण्डभाजपायाः द्विदिवसीयायां प्रदेशकार्यसमितेः उपवेशनाय भागं ग्रहीतुं शनिवासरे दलस्य राष्ट्रियाध्यक्षः नितिननवीनः राँचीं प्राप्तवान्। रिङ्गरोडस्थिते हवेली बैङ्क्वेट हॉल इति सभागारे तस्य आगमने सति दलस्य वरिष्ठैः नेतृभिः कार्यकर्तृभिश्च पारम्परिकरीत्या तस्य स्वागतं कृतम्। अस्मिन्नवसरे राष्ट्रियाध्यक्षः स्वयम् मादरवाद्यं वादयित्वा आदिवासीकलाकाराणाम् उत्साहं वर्धितवान्।
उपवेशनस्थलस्य मुख्यद्वारे पारम्परिकवेषभूषया सुसज्जिताः आदिवासीकलाकाराः ढोलवाद्यस्य, नगाडावाद्यस्य मादरवाद्यस्य च तालानुसारेण नृत्यन्तः आसन्। कलाकाराणां प्रस्तुतिं दृष्ट्वा नितिननवीनः अपि कण्ठे मादरवाद्यं धारयित्वा तत् अवादयत्। अस्मिन् समये पूर्वमुख्यमन्त्री बाबूलालमराण्डी, प्रदेशाध्यक्षः आदित्यसाहू, राँचीविधायकः सीपीसिंहः, हटियाविधायकः नवीनजायसवालः च सहिताः अनेकाः वरिष्ठनेतारः उपस्थिताः आसन्।
उपवेशने भागं ग्रहीतुं प्राप्तानां प्रदेशाध्यक्षस्य आदित्यसाहोः, पूर्वमुख्यमन्त्रिणः बाबूलालमराण्डेः, प्रदेशमहामन्त्री अमरबाउरेः अन्येषां च पदाधिकारिणां पारम्परिकरीत्या स्वागतं कृतम्। महिला मोर्चायाः कार्यकर्त्र्यः मुख्यद्वारे नेतॄणां ललाटेषु चन्दनतिलकं कृतवत्यः, पुष्पवृष्टिं कृतवत्यः, आरात्रिकां च अकार्षुः। ततः सर्वेभ्यः नेतृभ्यः ‘जोहार’ इति लिखितानि पारम्परिकानि गम्छावस्त्राणि धारितानि।
निर्धारितकार्यक्रमानुसारं राष्ट्रियाध्यक्षः नितिननवीनः सर्वप्रथमं सर्वैः जिलाध्यक्षैः जिलाप्रभारिभिश्च सह उपवेशनं कुर्वन् अस्ति। ततः प्रदेशकार्यसमितेः मुख्योपवेशनम् आरप्स्यते। उपवेशने दलस्य सङ्गठनात्मकगतिविधीनां भाविरणनीतेश्च विषये चर्चा भविष्यति इति सम्भावना अस्ति।
कार्यक्रमस्थलं प्रधानमन्त्री नरेन्द्रमोदिनः, राष्ट्रियाध्यक्षस्य नितिननवीनस्य, प्रदेशाध्यक्षस्य आदित्यसाहोः च विशालैः चित्रफलकैः अलङ्कृतम् अस्ति। उपवेशने भागं ग्रहीतॄणां नेतॄणां पदाधिकारिणां च पञ्जीकरणं क्रियते। प्रवेशद्वारे तेषां पारम्परिकगम्छावस्त्रं धारयित्वा स्वागतं क्रियते।
अस्मिन्नवसरे प्रदेशमहामन्त्री अमरबाउरी राज्यसर्वकारस्य आलोचनां कुर्वन् अवदत् यत् वर्तमानसर्वकारेण जनता पीडिता अस्ति। प्रदेशकार्यसमितेः उपवेशने राज्याय उत्तमं नेतृत्वं प्रदातुं लोकतन्त्रस्य रक्षणाय च अनेकाः महत्त्वपूर्णाः निर्णयाः स्वीकरिष्यन्ते इति सः अवदत्।
------------
Hindusthan Samachar / अंशु गुप्ता