कठुआनगरे बास्केटबॉल-कन्दुकक्रीडायाः वॉलीबॉल-क्रीडायाश्च लीग्-२०२६ कृते पञ्जीकरणम् आरब्धम्
कठुआ, २४ अक्टोबरमासः (हि.स.)। कठुआजनपदप्रशासनेन कठुआनगरस्य क्रीडाङ्गणे बास्केटबॉल-कन्दुकक्रीडायाः वॉलीबॉल-क्रीडायाश्च लीग-२०२६ आयोजयिष्यते। एतदर्थं क्रीडकदलानां पञ्जीकरणम् आरब्धम् अस्ति। प्रतियोगितायां १८ तः ३५ वर्षपर्यन्तवयस्काः बालकाः बालिकाश्च भ
Registration begins for the 2026 Basketball and Volleyball League in Kathua


कठुआ, २४ अक्टोबरमासः (हि.स.)। कठुआजनपदप्रशासनेन कठुआनगरस्य क्रीडाङ्गणे बास्केटबॉल-कन्दुकक्रीडायाः वॉलीबॉल-क्रीडायाश्च लीग-२०२६ आयोजयिष्यते। एतदर्थं क्रीडकदलानां पञ्जीकरणम् आरब्धम् अस्ति। प्रतियोगितायां १८ तः ३५ वर्षपर्यन्तवयस्काः बालकाः बालिकाश्च भागं ग्रहीतुं शक्नुवन्ति।

प्रत्येकस्मिन् क्रीडाप्रकारे अधिकतमं ३२ दलानि सम्मिलितानि भविष्यन्ति। प्रतियोगितायाः प्रथमचरणे अर्हताप्राप्त्यर्थं स्पर्धाः भविष्यन्ति। ततः शीर्षस्थानं प्राप्तानि १६ दलानि निष्कासनचरणे भागं ग्रहीष्यन्ति। इच्छुकानि दलानि पञ्जीकरणस्य सुरक्षाधनराशेः च विषये सूचनां प्राप्तुं कठुआजनपदस्य सूचनाकेन्द्रे सम्पर्कं कर्तुं शक्नुवन्ति।

युवानः क्रीडासु प्रोत्साहिताः भवेयुः, तेषां प्रतिभायाश्च प्रदर्शनाय उत्तमं मञ्चं प्राप्नुयुः इति जनपदप्रशासनस्य उद्देश्यम् अस्ति।

Hindusthan Samachar / Divya Ranjan