Enter your Email Address to subscribe to our newsletters

सतना, २४ अक्टोबरमासः (हि.स.)। विन्ध्य-बुन्देलखण्डक्षेत्रयोः रेलसम्पर्कस्य विस्तारदिशि शनिवासरे महत्त्वपूर्णः उपक्रमः कृतः। सतना-देवेन्द्रनगर-रेलखण्डस्य तथा रीवा-चुरहट-रेलखण्डस्य उद्घाटनस्य सहैव देवेन्द्रनगर-चुरहट-मेमूरेलयानसेवायाः शुभारम्भः कृतः। नागौद-चुरहट-रेलस्थानकयोः आयोजितेषु कार्यक्रमेषु नूतनं रेलयानं हरितध्वजं प्रदर्श्य प्रेषितम्।
कार्यक्रमं मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः तथा केन्द्रीयरेलमन्त्री, सूचनाप्रसारणमन्त्री, इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकीमन्त्री च अश्विनीवैष्णवः आभासीयमाध्यमेन सम्बोधितवन्तौ। अस्मिन् अवसरे क्षेत्रे रेलसम्पर्कस्य वर्धनं यात्रिसुविधानां विस्तारश्च विकासस्य दिशि महत्त्वपूर्णं सोपानम् इति प्रतिपादितम्।
नागौद-चुरहट-नगरेषु आयोजितेषु कार्यक्रमेषु उपमुख्यमन्त्री राजेन्द्रशुक्लः, नगरीयविकास-आवासराज्यमन्त्री प्रतिमाबागरी, सतनासांसदः गणेशसिंहः, रीवासांसदः जनार्दनमिश्रः, खजुराहोसांसदः विष्णुदत्तशर्मा, सीधीसांसदः डॉ. राजेशमिश्रः, नागौदविधायकः नागेन्द्रसिंहः च अन्यैः जनप्रतिनिधिभिः सम्बन्धिताधिकारिभिश्च सह उपस्थिताः आसन्।
छात्रेभ्यः, सेवायोजितेभ्यः, व्यापारिभ्यश्च सुविधा भविष्यति
देवेन्द्रनगर-चुरहट-मेमूरेलयानसेवायाः प्रारम्भेन पन्ना, सतना, रीवा, सीधी इत्येतेषां जनपदानां यात्रिभ्यः आवा-गमनस्य सुलभः अल्पव्ययश्च विकल्पः प्राप्स्यते इति अपेक्षा अस्ति। विद्यार्थिनः, सेवायोजिताः जनाः, व्यापारिणः, रोगिणश्च अस्याः सेवायाः विशेषं लाभं प्राप्तुं शक्नुवन्ति।
नूतनया रेलसेवया क्षेत्रस्य सिमेण्ट-उत्पादनसंयन्त्राणां चूना-पाषाणोद्योगस्य च मालपरिवहनम् अपि वेगं प्राप्स्यति इति सम्भावना अस्ति। तदतिरिक्तं मुकुन्दपु-रस्थां श्वेतव्याघ्रविहारसफारीणा सह क्षेत्रस्य अन्येषां पर्यटनस्थलानां धार्मिकस्थलानां च यात्रा सुकरा भविष्यति इति अपेक्षा व्यक्ता।
रेलसेवायाः प्रारम्भे स्थानीयजनेषु उत्साहः दृष्टः। जनाः अग्निचूर्णानि विस्फोट्य मिष्टान्नानि वितीर्य च अस्य अवसरस्य स्वागतं कृतवन्तः।
बसयानस्य तुलनायां यात्राव्ययः न्यूनः भविष्यति इति अपेक्षा
देवेन्द्रनगर-चुरहट-मेमूरेलयानसेवया यात्रिणां परिवहनव्यये न्यूनता भविष्यति इति सम्भावना अस्ति। उपलब्ध-सूचनानुसारम् अनारक्षितश्रेण्यां न्यूनतमं भाटकं १० तः १५ रूप्यकाणां मध्ये भविष्यति इति अनुमानम् अस्ति। देवेन्द्रनगरात् चुरहटपर्यन्तं प्रायः १६६ किलोमीटर-मितायाः यात्रायाः भाटकं ३५ तः ४५ रूप्यकाणां समीपे भविष्यति इति कथितम्।
अस्याः तुलनायां बसयानेन एतावद्दूरं गन्तुं यात्रिभिः प्रायः १५० तः २५० रूप्यकाणि व्ययितव्यानि भवन्ति। अतः रेलसेवा विद्यार्थिभ्यः, सेवायोजितेभ्यः, लघु-व्यापारिभ्यश्च मितव्ययी विकल्पः भवितुम् अर्हति। तथापि वास्तविकभाटकस्य पुष्टिः रेलविभागस्य आधिकारिकभाटकसूच्याः आधारेण एव करणीया।
उद्घाटनकार्यक्रमविषये कांग्रेसदलेन विरोधः प्रकटितः
मेमूरेलयानसेवायाः शुभारम्भस्य मध्ये निमन्त्रणपत्रे स्थानीयविधायकानां नामानि न समाविष्टानि इति विषये राजनैतिकविवादः अपि उत्पन्नः। वरिष्ठः कांग्रेसनेता अधिवक्ता मुख्तार अहमद सिद्दीकी नागौदविधायकस्य नागेन्द्र-सिंहस्य, सतनाविधायकस्य सिद्धार्थकुश-वाहस्य ‘डब्बू’ इत्यस्य, चुरहटविधायकस्य अजयसिंहस्य ‘राहुल’ इत्यस्य च नामानि आधिकारिकसूच्यां न समाविष्टानि इति विषये आपत्तिं प्रकटितवान्।
सिद्दीकी अवदत् यत् भाजपानेतारः यद्यपि अस्य रेलसेवायाः श्रेयः स्वीकुर्वन्ति, तथापि विन्ध्यक्षेत्रस्य जनाः जानन्ति यत् ललितपुर-सिंगरौली-रेलमार्गस्य आधारशिला कांग्रेससर्वकारस्य कार्यकाले स्थापिता आसीत्। अस्यां रेलपरियोजनायां स्वीकृतिं प्राप्तुं पूर्वमुख्यमन्त्रिणः कुँवर-अर्जुनसिंहस्य योगदानम् अपि तेन उल्लिखितम्।
कांग्रेसनेता स्थानीयविधायकान् उद्घाटन-कार्यक्रमात् बहिः स्थापयितुं क्षुद्रराजनीतेः प्रशासनिकहठधर्मितायाश्च प्रतीकम् इति उक्तवान्। एवं नूतनरेलयानसेवायाः शुभारम्भेन क्षेत्रे रेलसुविधानां विस्तारस्य अपेक्षाणां मध्ये राजनैतिकविवादः अपि चर्चायां आगतः।
Hindusthan Samachar / Divya Ranjan