Enter your Email Address to subscribe to our newsletters

भोपालम्, २४ अक्टोबरमासः (हि.स.)। देशस्य राजधान्यां नवदिल्लीस्थे प्रतिष्ठिते भारतमण्डपे आयोजिते त्रिदिवसीये ‘भारत-अन्तरराष्ट्रीय-तण्डुलसम्मेलने-२०२६’ (बीआईआरसी-२०२६) मध्यप्रदेशस्य बालाघाटजनपदस्य गौरवभूतः, भौगोलिकोपदर्शनसूचकाङ्केन चिह्निता: ‘बालाघाट-चिन्नौर’ तण्डुला: स्वकीयं विशिष्टं परिचयं स्थापितवन्त:।
जनसम्पर्काधिकारी अवनीशसोमकुवरः शनिवासरे अवदत् यत् ‘एकः जनपदः–एकम् उत्पादः’ इति योजनायाः अन्तर्गतं चयनितस्य अस्य सुगन्धिततण्डुलस्य सम्मेलने भव्यं प्रदर्शनं क्रियते। अक्टोबर-मासस्य २३ दिनाङ्कतः २५ दिनाङ्क-पर्यन्तं प्रचलति अस्मिन् अन्ताराष्ट्रिय-सम्मेलने मध्यप्रदेशराज्यस्य कृषि-विपणनमण्डलेन (मण्डीबोर्ड, भोपालम्) तथा कृषिप्रसंस्कृतखाद्यपदार्थ-निर्यातविकासप्राधिकरणेन संयुक्त-तत्त्वावधानेन चिन्नौर-तण्डुलस्य प्रचारप्रसाराय विशेषः प्रदर्शनीकक्षः स्थापितः अस्ति।
तेन उक्तं यत् अस्मिन् वैश्विकायोजने बालाघाटजनपदस्य प्रतिनिधित्वं ‘लालबर्रा चिन्नौर फार्मर प्रोड्यूसर कम्पनी लिमिटेड’ इति संस्था करोति। कृषक-उत्पादक-सङ्घटनस्य अध्यक्षः ईशुपालचौहानः तथा सञ्चालकसदस्यः राधेलालपटले च प्रदर्शनीकक्षम् आगतवतः राष्ट्रिय-अन्ताराष्ट्रियस्तरयोः तण्डुलनिर्यातकान्, व्यापारिणः, प्रतिनिधींश्च चिन्नौरतण्डुलस्य गुणवत्तया, प्राकृतिकसुगन्धेन, औषधीयेन पारम्परिकमहत्त्वेन च परिचितवन्तौ।
जनसम्पर्काधिकारी अवदत् यत् अस्मात् वैश्विकमञ्चात् स्थानीयकृषक-उत्पादक-सङ्घटनाय बृहद्भारतीयनिर्यातकैः सह विदेशीयक्रेतृभिश्च प्रत्यक्षं व्यवसायसम्बन्धी संवादं कर्तुं महत्त्वपूर्णः अवसरः प्राप्तः। अनेन बालाघाटस्य जैविकपद्धत्या पारम्परिकरीत्या च उत्पादितस्य चिन्नौरतण्डुलस्य अन्ताराष्ट्रियविपण्यां प्रवेशस्य सम्भावनाः सुदृढाः अभवन्। एतस्य प्रत्यक्षः आर्थिकलाभः स्थानीय-धानोत्पादककृषकेभ्यः प्राप्स्यते।
उल्लेखनीयम् अस्ति यत् स्वकीयया अनुपमया सुगन्धेन, पाकानन्तरं मृदुतया मधुरतया च प्रसिद्धाय चिन्नौरतण्डुलाय २०२१ तमे वर्षे भौगोलिकोपदर्शन-सूचकाङ्कस्य मान्यता प्राप्ता आसीत्। भारतमण्डपस्य अस्मिन् विशालमञ्चे चिन्नौरतण्डुलस्य प्रदर्शनीकक्षम् आगच्छन्तः दर्शकाः निर्यातकाश्च अस्य विशिष्टोत्पादस्य भूरिशः प्रशंसां कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan