प्रधानमन्त्री रविवासरे वाराणस्याम् अरविन्दमिलस्य उद्घाटनं करिष्यति, विमानप्रदर्शनं च द्रक्ष्यति
वाराणसी, २४ अक्टोबरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य काशीक्षेत्रस्य क्षेत्रीयाध्यक्षः अशोकचौरसिया शनिवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी रविवासरे, अक्टोबरमासस्य २५ दिनाङ्के प्रातः १० वादने वाराणस्यां बाबतपुरस्थितम् अन्ताराष्ट्रियविमानपत
प्रधानमंत्री नरेंद्र मोदी (फाइल फोटो)


वाराणसी, २४ अक्टोबरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य काशीक्षेत्रस्य क्षेत्रीयाध्यक्षः अशोकचौरसिया शनिवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी रविवासरे, अक्टोबरमासस्य २५ दिनाङ्के प्रातः १० वादने वाराणस्यां बाबतपुरस्थितम् अन्ताराष्ट्रियविमानपत्तनं प्राप्स्यति। ततः सः हेलिकॉप्टरयानेन वाराणस्याः मिर्जामुरादक्षेत्रे स्थितस्य अरविन्दमिलस्य उद्घाटनाय गमिष्यति।

क्षेत्रीयाध्यक्षः सूचितवान् यत् प्रधानमन्त्री तेनैव हेलिकॉप्टरयानेन पुलिसलाइन-स्थलं प्राप्स्यति। ततः प्रधानमन्त्री मोदी मार्गेण चौकाघाटं कज्जाकपुरं च अतिक्रम्य नमोघाटं प्राप्स्यति। प्रधानमन्त्री वाराणस्यां प्रमुखयोः कार्यक्रमयोः कृते प्रायः चतस्र: होरा: यावत् स्थास्यति।

भाजपायाः क्षेत्रीयाध्यक्षः अशोकचौरसिया अवदत् यत् नमोघाटं प्रति गमनमार्गे विभिन्नस्थानेषु भाजपाकार्यकर्तारः प्रधानमन्त्री मोदी इत्यस्य स्वागतं करिष्यन्ति। एतदर्थं भाजपायाः क्षेत्रीय-स्तरीयाभ्यां महानगरस्तरीयाभ्यां च विभागै: स्वागतस्थलानि अपि निर्मितानि सन्ति। ततः प्रधानमन्त्री मोदी नमोघाटे भारतीयवायुसेनया आयोज्यमाने विमान-प्रदर्शनकार्यक्रमे उपस्थितः भविष्यति।

Hindusthan Samachar / Divya Ranjan