Enter your Email Address to subscribe to our newsletters

अवदत्—प्रधानमन्त्रिणः आगमनस्य विमानप्रदर्शनस्य च दृष्ट्या गङ्गाघाटेषु अन्येषु च सर्वेषु आवश्यकस्थानेषु चाकचौबन्दसुरक्षाव्यवस्था सुनिश्चिता क्रियताम्।
वाराणसी, २४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे सायंकाले स्थानीयस्य सर्किटहाउसस्य सभागारे अधिकारिभिः सह उपवेशनं कृतवान्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः वाराणसीनगरागमनात् एकदिनपूर्वं नगरम् आगतवान् मुख्यमन्त्री रविवासरे विमानप्रदर्शनस्य समये सामान्यजनानां गङ्गाघाटेषु सुगमप्रवेशं सुनिश्चितं कर्तुं विशेषम् आग्रहं कृतवान्। तेन अनावश्यकं बैरिकेडिङ्ग् न करणीयम् इति उक्तम्। महतीं जनसमर्दं दृष्ट्वा समुचिताः व्यवस्थाः सुनिश्चेतुं निर्देशः दत्तः।
सर्वेषु मार्गेषु सम्पूर्णनगरे च समुचितस्वच्छताव्यवस्थां सुनिश्चितं कर्तुमपि विशेषः आग्रहः कृतः। सर्वेषु गङ्गाघाटेषु अतिरिक्तस्वच्छता, पर्याप्तशौचालयाः, पेयजलं च इत्यादीनां समुचितव्यवस्थाः करणीयाः। प्रधानमन्त्रिणः आगमनस्य विमानप्रदर्शनस्य च दृष्ट्या गङ्गाघाटेषु अन्येषु च सर्वेषु आवश्यकस्थानेषु सुदृढा सुरक्षा व्यवस्था सुनिश्चिता क्रियताम्। वाहनानां कृते पर्याप्तानि वाहनस्थानानि, मार्गपरिवर्तनव्यवस्था तथा सुगमयातायातव्यवस्था च सुनिश्चितं कर्तुं निर्देशः दत्तः।
उपवेशनस्य प्रारम्भे जिलाधिकारी सत्येन्द्रकुमारः तथा पुलिसआयुक्तः मोहितअग्रवालः प्रस्तुतिमाध्यमेन मुख्यमन्त्रिणः समक्षं जिलाप्रशासनस्य पुलिसप्रशासनस्य च सज्जताविषये अवगतवन्तौ। तद्विषये मुख्यमन्त्रिणा समुचिताः निर्देशाः अपि प्रदत्ताः।
नगरायुक्तः हिमांशुनागपालः घाटेषु गादमलस्य निष्कासनम्, द्विशतं चलशौचालयानां व्यवस्था, अष्टाशीत्यधिकद्विशतं जलवाहकयानानि, घाटेषु अन्येषु च मार्गेषु द्विसहस्राणि अवकरपात्राणि स्थापयितुं व्यवस्था, द्विशतं स्वच्छतास्वयंसेवकानां नियुक्तिः तथा व्यवस्थायां संलग्नानां स्वच्छताकर्मचारिणां विषये मुख्यमन्त्रिणम् अवगतवान्। मुख्यमन्त्रिणा सम्पूर्णनगरे स्वच्छतां सुनिश्चितं कर्तुं तथा सम्पूर्णानन्दसंस्कृतविश्वविद्यालये सञ्चितम् अवकरं निष्कासयितुं निर्देशः दत्तः।
उपवेशने श्रमसेवायोजनामन्त्री अनिलराजभरः, पञ्जीकरणमन्त्री (स्वतन्त्रप्रभारः) रविन्द्रजायसवालः, आयुषमन्त्री (स्वतन्त्रप्रभारः) डॉ. दयाशङ्करमिश्रः ‘दयालुः’, सूक्ष्मलघुमध्यमोद्यमराज्यमन्त्री हंसराजविश्वकर्मा, जिलापञ्चायताध्यक्षा पूनममौर्या, महापौरः अशोकतिवारी, विधानपरिषद्सदस्यः रायधर्मेन्द्रसिंहः, पूर्वमन्त्री विधायकश्च डॉ. नीलकण्ठतिवारी, विधायकः डॉ. अवधेशसिंहः, विधायकः त्रिभुवनरामः, विधायकः सौरभश्रीवास्तवः, विधायकः डॉ. सुनीलपटेलः, जिलाध्यक्षः रामसकलपटेलः, महानगराध्यक्षः प्रदीपअग्रहरिः, पुलिसआयुक्तः मोहितअग्रवालः, क्षेत्रीयः अपरपुलिसमहानिदेशकः नवीनअरोडाः, जिलाधिकारी सत्येन्द्रकुमारः, अपरपुलिसआयुक्तः शिवहरीमीणः, पुलिसमहानिरीक्षकः वैभवकृष्णः, विकासप्राधिकरणस्य उपाध्यक्षः पूर्णबोराः, नगरायुक्तः हिमांशुनागपालः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani