मुख्यमन्त्रिणा खटीमायां जनसमस्याः श्रुताः, शीघ्रनिस्तारणाय निर्देशाः प्रदत्ताः
खटीमा, 24 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा पुष्करसिंहधामिना खटीमायां जनसमस्याः श्रुताः, शीघ्रनिस्तारणाय निर्देशाः प्रदत्ताः। मुख्यमन्त्री पुष्करसिंहधामी शनिवासरे खटीमायां लोहियाहेड् हेलीपैडस्थले तथा शिविरकार्यालये सामान्यजनैः जनप्रतिनिधिभिश्च सह
मुख्यमंत्री पुष्कर सिंह धामी समस्याएं सुनते हुए।


खटीमा, 24 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा पुष्करसिंहधामिना खटीमायां जनसमस्याः श्रुताः, शीघ्रनिस्तारणाय निर्देशाः प्रदत्ताः।

मुख्यमन्त्री पुष्करसिंहधामी शनिवासरे खटीमायां लोहियाहेड् हेलीपैडस्थले तथा शिविरकार्यालये सामान्यजनैः जनप्रतिनिधिभिश्च सह मिलित्वा तेषां समस्याः श्रुतवान्। सः अधिकारिभ्यः निर्देशान् दत्तवान् यत् प्राप्तानां शिकायतानां प्राथमिकताधारेण पारदर्शितया च शीघ्रं निस्तारणं सुनिश्चितं क्रियताम्।

मुख्यमन्त्री अवदत् यत् सामान्यजनानां समस्याणां समयबद्धं समाधानं सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति। जनाः स्वसमस्यानां समाधानाय अनावश्यकतया सर्वकारीयकार्यालयानां पुनः पुनः भ्रमणं कर्तुं बाध्याः न भवेयुः। सः अवदत् यत् सर्वकारः सरलीकरणस्य, समाधानस्य, सन्तुष्टेश्च मूलमन्त्रेण कार्यं करोति। प्रशासनस्य उत्तरदायित्वं शिकायतानां सन्तोषजनकं निस्तारणं च अस्याः व्यवस्थायाः प्रमुखोद्देश्ये स्तः।

अस्मिन्नवसरे मुख्यमन्त्री जनप्रतिनिधिभिः सह क्षेत्रस्य विकाससम्बद्धानाम् आवश्यकतानां विषये अपि चर्चां कृतवान्। सः जनापेक्षानुरूपं नागरिकसुविधानां सुदृढीकरणाय स्वकीयां प्रतिबद्धतां पुनरुक्तवान्।

अस्मिन्नवसरे जिलापञ्चायताध्यक्षः अजयमौर्यः, दर्जाप्राप्तमन्त्रिणौ सन्तोषगौरवः फरजानाबेगमः च, नगरपञ्चायतनानकमत्तायाः अध्यक्षः प्रेमसिंहतूर्णा, जिलाधिकारी नितिनसिंहभदौरिया, अपरपुलिसाधीक्षकः अजयगणपतिः, अपरजिलाधिकारी पङ्कजउपाध्यायः इत्यादयः अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः आसन्।

----------------

Hindusthan Samachar / Dheeraj Maithani