मध्यप्रदेशे १.५ लक्षकोटिरूप्यकाणां रेलपरियोजनासु कार्यं प्रचलति - अश्विनीवैष्णवः
विन्ध्य-बुन्देलखण्डाभ्यां द्वयोः मेमूरेलयानयोः उपहारः, केन्द्रीयरेलमन्त्री वैष्णवः मुख्यमन्त्री डॉ. यादवश्च हरितध्वजं प्रदर्शितवन्तौ सतना/सीधी, २४ अक्टोबरमासः (हि.स.)। केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः अवदत् यत् मध्यप्रदेशे प्रायः १.५ लक्षकोटि-
ट्रेन सेवा का शुभारंभ करते केन्द्रीय रेल मंत्री अश्विनी वैष्णव


ट्रेन सेवा का हरी झंडी दिखाकर शुभारंभ करते मुख्यमंत्री डॉ. मोहन यादव


- विन्ध्य-बुन्देलखण्डाभ्यां द्वयोः मेमूरेलयानयोः उपहारः, केन्द्रीयरेलमन्त्री वैष्णवः मुख्यमन्त्री डॉ. यादवश्च हरितध्वजं प्रदर्शितवन्तौ

सतना/सीधी, २४ अक्टोबरमासः (हि.स.)। केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः अवदत् यत् मध्यप्रदेशे प्रायः १.५ लक्षकोटि-रूप्यकाणां रेलपरियोजनासु कार्यं प्रचलति। एतासां परियोजनानां पूर्णतया कार्यान्वयनेन प्रदेशे सम्पर्कव्यवस्था सुदृढा भविष्यति, नवीनाः औद्योगिक-परिसराः च विकसिताः भविष्यन्ति।

शनिवासरे मुख्यमन्त्रिणा डॉ. मोहनयादवेन सह सतना–देवेन्द्रनगरयोः तथा रीवा–चुरहटयोः रेलमार्गखण्डानाम् आभासीय-माध्यमेन उद्घाटनं कृत्वा केन्द्रीयरेलमन्त्री वैष्णवः एतद् उक्तवान्। विन्ध्यप्रदेशे रेलसम्पर्कस्य विस्तारस्य दिशि एषा महत्त्वपूर्णा उपलब्धिः अस्ति। सतना–देवेन्द्रनगररेलमार्गखण्डस्य लम्बता ५३ किलोमीटर् अस्ति, जबकि रीवा–चुरहटरेलमार्गखण्डस्य लम्बता ६५ किलोमीटर अस्ति। अस्मिन्नवसरे देवेन्द्रनगर–चुरहटरेलयानसेवायाः हरितध्वजं प्रदर्श्य तस्याः शुभारम्भः कृतः।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशाय प्राप्तेन अस्मिन् ऐतिहासिक उपहारेण विन्ध्यप्रदेशे रेलसम्पर्कः सुदृढः भविष्यति तथा यात्रिभ्यः आवागमनस्य उत्तमसुविधा प्राप्स्यते। प्रदेशे रेलमार्गजालस्य निरन्तरं विस्तारः भवति, येन उत्तमसम्पर्कव्यवस्थया सह व्यापारः, पर्यटनम्, आर्थिकक्रियाकलापाश्च नूतनां गतिं प्राप्नुवन्ति। सः अवदत्, “केन्द्रीयमन्त्रिणे वैष्णवमहोदयाय हार्दिकं धन्यवादं दातुम् इच्छामि। तस्य नेतृत्वे भारतीयरेलव्यवस्थायाः परिवर्तनम् अभवत्। अधुना रेलविभागः देशस्य नागरिकान् प्रति आदरभावेन कर्तव्य-निष्ठया च सेवाः प्रददाति।”

विन्ध्य-बुन्देलखण्डप्रदेशाभ्यां नूतनयोः मेमूरेलयानयोः उपहारः प्राप्तः। रेलयानस्य उद्घाटनदिने यात्रिभ्यः निःशुल्कयात्रायाः अवसरः प्राप्तः। नागौदरेलस्थानके सांसदः विष्णुदत्तशर्मा डफलीवादनं कुर्वन् दृश्यते स्म। रेलयाने आरूढाः बालिकाः गीतानि गायन्त्यः नृत्यं च कुर्वत्यः आसन्। यात्रिणः गीतसङ्गीतैः सह रेलयानस्य शुभारम्भस्य हर्षम् आचरितवन्तः। फुलवारीरेलस्थानके मेमूरेलयानस्य आगमने स्थानीयजनैः भव्यं स्वागतं कृतम्। रेलयानं द्रष्टुं स्वागतं कर्तुं च बहुसङ्ख्यकाः जनाः रेलस्थानकं प्राप्तवन्तः। नूतनरेलयानसेवायाः प्रारम्भेण क्षेत्रस्य जनानां मध्ये हर्षोल्लासस्य वातावरणम् अस्ति।

यात्रिणः अवदन् यत् चुरहट-सीधीक्षेत्रस्य जनानां दीर्घकालीनः रेलयानप्रतीक्षायाः कालः अधुना समाप्तिं प्रति अग्रे सरति। छुहीघाटतः रामपुरनैकिनमार्गेण पन्ना-सीधीदिशं प्रति मेमूरेलयानसेवायाः प्रारम्भेण स्थानीयजनेषु हर्षः अस्ति। रेलयानसेवायाः प्रारम्भेण क्षेत्रस्य जनानाम् आवागमनं सुकरं भविष्यति। एतानि मेमूरेलयानानि रविवासरं विहाय सप्ताहे षड्दिनानि प्रचलिष्यन्ति। नियमित-सञ्चालनस्य प्रारम्भः अक्टोबरमासस्य २६ दिनाङ्कात् भविष्यति।

रेलयाने यात्रां कुर्वन् उपमुख्यमन्त्री राजेन्द्रशुक्लः अवदत् यत् दिसम्बर-मासपर्यन्तं रेलसेवा सीधीपर्यन्तं प्राप्स्यति। सीधी-सिंगरौलीयोः मध्ये षोडश सुरङ्गाणां निर्माणकार्यं प्रचलति। लक्ष्यं वर्तते यत् दिसम्बरमासस्य २०२८ तमवर्षपर्यन्तं रेलसम्पर्कः सिंगरौलीपर्यन्तं प्रापयितव्यः। सः अवदत् यत् एषा रेलमार्गरेखा केवलं रेलपथः न, अपितु सम्पूर्णक्षेत्रस्य विकासाय आर्थिकपरिसर-ररूपेण जीवनरेखारूपेण च सिद्धा भविष्यति। रेलसुविधायाः अभावात् क्षेत्रस्य अपेक्षितः विकासः न अभवत्। सीधीसांसदः डॉ. राजेशमिश्रः, रीवासांसदः जनार्दनमिश्रः तथा सतनासांसदः गणेशसिंहः निरन्तरं रेलमन्त्रिणा सह मिलित्वा परियोजनायाः कार्यं त्वरितं कर्तुं प्रयत्नं कृतवन्तः इति सः अवदत्।

रीवासांसदः जनार्दनमिश्रः ललितपुर–सिंगरौलीरेलमार्गस्य उल्लेखं कुर्वन् कांग्रेसदलेन विन्ध्यप्रदेशस्य विकासस्य उपेक्षा कृता इति आरोपम् अकरोत्। सः अवदत् यत् १९५६ तमे वर्षे कांग्रेससर्वकारेण दशवर्षेषु रेलमार्गस्य निर्माणं पूर्णं करिष्यते इति प्रतिज्ञा कृता आसीत्, किन्तु १९६६ तमवर्षपर्यन्तम् अपि कार्यं पूर्णं नाभवत्। १९७७ तमे वर्षे तत्कालीनरेलमन्त्री प्रो. मधुदण्डवते प्रथमवारं रेलमार्गस्य सर्वेक्षणाय आदेशं दत्तवान्। २०१४ तमे वर्षे नरेन्द्रमोदी-सर्वकारस्य गठनानन्तरं परियोजनायाः प्राथमिकता वर्धिता। रेलमार्गस्य प्रगतेः श्रेयः सः भाजपासर्वकाराय क्षेत्रस्य सांसदानां प्रयत्नेभ्यश्च दत्तवान्। कार्यक्रमे सीधीसांसदः डॉ. राजेशमिश्रः, राज्यमन्त्री प्रतिमाबागरी, सतनासांसदः गणेशसिंहः तथा नागौदविधायकः नागेन्द्रसिंहः उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् विशेषतः सीधीजनपदस्य रेलमार्गजालेन सह संयोजनम् ऐतिहासिकी महत्त्वपूर्णा च उपलब्धिः मन्यते। स्वातन्त्र्यप्राप्तेः अनन्तरं प्रथमवारं सीधीजनपदः प्रत्यक्षरेलसम्पर्केण सम्बद्धः भविष्यति। अनेन जनपदस्य नागरिकेभ्यः, विद्यार्थिभ्यः, कर्मचारिभ्यः, व्यापारिभ्यः, रोगिभ्यश्च आवागमनस्य सुविधा प्राप्स्यते। अपि च, क्षेत्रस्य जनानां कृते बृहन्नगराणि प्रमुखविपणयश्च प्राप्तुं अधिकसुगमाः परिवहनविकल्पाः उपलब्धाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan