आगरानगरे अक्टूबरमासस्य २७, २८ दिनाङ्कयोः राष्ट्रियशिक्षानीतेः विषये विचारमन्थनम्, त्रिशतं शिक्षकाः शिक्षाविदश्च भागं ग्रहीष्यन्ति।
राष्ट्रीयाध्यापकशिक्षापरिषदः तत्वावधाने द्विदिवसीयस्य राष्ट्रियसम्मेलनस्य आयोजनम् शिक्षकाणां व्यावसायिकविकासस्य राष्ट्रियमार्गदर्शनमिशनस्य च विषये चर्चा भविष्यति। उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेलः सम्मेलनम् उपस्थास्यति। आगरानगरम्, 25अक्टूबर
एनसीटी का दो दिवसीय राष्ट्रीय सम्मेलन आगरा में


राष्ट्रीयाध्यापकशिक्षापरिषदः तत्वावधाने द्विदिवसीयस्य राष्ट्रियसम्मेलनस्य आयोजनम्

शिक्षकाणां व्यावसायिकविकासस्य राष्ट्रियमार्गदर्शनमिशनस्य च विषये चर्चा भविष्यति। उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेलः सम्मेलनम् उपस्थास्यति।

आगरानगरम्, 25अक्टूबरमासः । राष्ट्रियशिक्षानीतेः अनुरूपं शिक्षकाणां व्यावसायिकमानकानां, शिक्षणक्षमतायाः, विद्यालयीयशिक्षाव्यवस्थायाश्च उन्नयनस्य उद्देशेन आगरानगरे अक्टूबरमासस्य २७, २८ दिनाङ्कयोः द्विदिवसीयं राष्ट्रियसम्मेलनम् आयोजयिष्यते। राष्ट्रियाध्यापकशिक्षापरिषदः (एनसीटीई) तत्वावधाने आयोज्यमाने अस्मिन् सम्मेलने विभिन्नराज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रायः त्रिशतं शिक्षकाः, प्राचार्याः, शिक्षाक्षेत्रसम्बद्धाः प्रतिनिधयश्च भागं ग्रहीष्यन्ति।

सम्मेलनस्य संयोजकः प्रोफेसरः मनुप्रतापसिंहः रविवासरे अवदत् यत् कार्यक्रमस्य आयोजनम् आगराविश्वविद्यालयस्य खन्दारीपरिसरे स्थिते शिवाजीमण्डपे भविष्यति। अस्मिन् सम्मेलने उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेलः प्रमुखतया भागं ग्रहीष्यति।

सः अवदत् यत् राष्ट्रियशिक्षानीतेः प्रावधानानाम् अनुरूपं शिक्षकशिक्षायाः गुणवत्तायां सुधारः, शिक्षकाणां व्यावसायिकविकासः, विद्यालयेषु प्रभाविणः शिक्षणव्यवस्थायाः प्रोत्साहनं च सम्मेलनस्य प्रमुखम् उद्देश्यम् अस्ति। एतेषां विषयाणां विभिन्नपक्षेषु विचारविमर्शः भविष्यति।

प्रोफेसरः सिंहः अवदत् यत् सम्मेलनस्य प्रथमदिने अक्टूबरमासस्य २७ दिनाङ्के एनसीटीई-संस्थायाः अध्यक्षः प्रोफेसरः पङ्कज-अरोडा प्रतिभागिभिः सह संवादं करिष्यति। अस्मिन् अवसरे चत्वारः प्राविधिकसत्राः आयोजयिष्यन्ते, येषु शिक्षकशिक्षासम्बद्धेषु विविधविषयेषु विशेषज्ञाः स्वविचारान् प्रस्तोष्यन्ति।

एतेषु सत्रेषु शिक्षासम्बद्धानां सङ्गणकीयदूरस्थमञ्चानां पुस्तिकायाश्च प्रदर्शनम् अपि भविष्यति। प्रतिभागिभ्यः शिक्षणव्यवस्थायाः सुधारणस्य आधुनिकप्रौद्योगिक्याः उपयोगस्य च विषये सूचनाः प्रदास्यन्ते।

सम्मेलनस्य द्वितीयदिने अक्टूबरमासस्य २८ दिनाङ्के राष्ट्रियमार्गदर्शनमिशनस्य (एनएमएम) विषये विशेषसत्रम् आयोजयिष्यते। अस्मिन् सत्रे शिक्षकाणां मार्गदर्शनस्य, व्यावसायिकविकासस्य, शिक्षणक्षमतावर्धने च मिशनस्य भूमिकायाः विषये विस्तरेण चर्चा भविष्यति।

अस्मिन् अवसरे एनएमएम-मञ्चस्य प्रदर्शनम् अपि भविष्यति। प्रतिभागिभ्यः मञ्चस्य कार्यप्रणाल्याः तथा तस्य माध्यमेन शिक्षकाणां कृते उपलब्धानां मार्गदर्शनसम्बद्धसुविधानां विषये सूचनाः प्रदास्यन्ते।

सम्मेलने चण्डीगढात्, देहलीतः, हरियाणात्, हिमाचलप्रदेशात्, पञ्जाबात्, उत्तरप्रदेशात्, उत्तराखण्डात्, जम्मू-कश्मीरात्, लद्दाखात् च प्रायः त्रिशतं प्रतिनिधयः भागं ग्रहीष्यन्ति इति सम्भावना अस्ति। एतेषु शिक्षकाः, प्राचार्याः, शिक्षाक्षेत्रसम्बद्धाः अन्ये प्रतिनिधयश्च अन्तर्भवन्ति।

विभिन्नराज्येभ्यः आगच्छन्तः प्रतिभागिनः राष्ट्रियशिक्षानीतेः कार्यान्वयनस्य, शिक्षकप्रशिक्षणस्य, विद्यालयीयशिक्षायाः गुणवत्तायाः, व्यावसायिकदक्षतावर्धनस्य च विषये स्वानुभवान् सुझावांश्च परस्परं संविभजिष्यन्ति। एतदर्थं समूहचर्चायाः आयोजनम् अपि भविष्यति।

प्रोफेसरः मनुप्रतापसिंहः अवदत् यत् सम्मेलनस्य प्रमुखं वैशिष्ट्यं शिक्षकाणां व्यावसायिकविकासेन शिक्षणक्षमतया च सम्बद्धानां मानकानां विषये विचारविमर्शः अस्ति। तदतिरिक्तं राष्ट्रियमार्गदर्शनमिशनस्य माध्यमेन शिक्षकाणां कृते प्रभाविणः मार्गदर्शनस्य व्यवस्था कथं सुदृढा कर्तुं शक्यते इत्यस्मिन् विषये अपि चर्चा भविष्यति।

Hindusthan Samachar / Dheeraj Maithani