Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ अक्टोबरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला रविवासरे रूसस्य स्टेट्-ड्यूमा-सदनस्य अध्यक्षेन व्याचेस्लाव-वोलोदिनेन सह महत्त्वपूर्णां द्विपक्षीयां सभाम् अकरोत्। अस्यां सभियाम् उभौ नेतारौ भारत-रूसयोः दीर्घकालीन-मैत्रीं संस्थागतं संसदीयसहयोगं च अधिकं सुदृढं कर्तुं विस्तरेण चर्चाम् अकुरुताम्।
सभायाः समये लोकसभाध्यक्षः ओमबिरला भारत-रूसयोः ‘विशेष-विशेषाधिकारप्राप्त-सामरिकसहभाग’-सम्बन्धानाम् उल्लेखम् अकरोत्। सः अवदत् यत् उभयोः देशयोः मध्ये राजनयिकसम्बन्धानां स्थापनायाः ८० वर्षाणि पूर्णानि भवन्ति इति अत्यन्तं महत्त्वपूर्णः ऐतिहासिकश्च अवसरः अस्ति।
द्विपक्षीयसम्बन्धान् नूतनां गतिं प्रदातुं लोकसभाध्यक्षः भारत-रूसयोः संसदयोः अन्तः संसदीयसंघस्य अग्रिमां बैठकां शीघ्रम् आयोजयितुं प्रस्तावम् अकरोत्। उभयपक्षौ संसदीयस्तरे निरन्तरस्य संस्थागतस्य च संवादस्य आवश्यकतायां सहमतिम् अव्यक्तयताम्।
संवादव्यवस्थां सुदृढां कर्तुं नेतृद्वयं संसदीयप्रतिनिधिमण्डलानां नियमित-विनिमयस्य आवश्यकतायाम् बलम् अददात्। युवसांसदानां महिला-सांसदानां च मध्ये परस्परसंवादं विचारविनिमयं च प्रोत्साहयितुं चर्चा अभवत्। संसदीय-मैत्रीसमूहानां माध्यमेन उभयोः देशयोः सम्पर्कं अधिकं सुदृढं कर्तुमपि विचारविमर्शः अभवत्।
ओमबिरला रूसीप्रतिनिधिमण्डलं भारतीयसंसदः आधुनिकैः उपक्रमैः परिचितम् अकरोत्। सः अवदत् यत् संसदीयभाषाप्रौद्योगिक्याः माध्यमेन संसदीयकार्यवाहीं भारतस्य विभिन्नासु भाषासु सुलभां कर्तुं प्रयासाः क्रियन्ते। लोकसभाध्यक्षः रेखाङ्कितवान् यत् प्रौद्योगिक्याः समुचितोपयोगः संसदीयकार्यं अधिकं सरलम्, पारदर्शकं जनकेन्द्रितं च कर्तुं महत्त्वपूर्णः सहायकः सिद्धः भवति।
ओमबिरला अवदत् यत् ब्रिक्स-देशानां संसदां मध्ये निकटः निरन्तरश्च सहयोगः वैश्विकसमस्यानां समाधानाय विकास-शीलदेशानां समानप्राथमिकतानां च संवर्धनाय महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। उभयोः देशयोः शीर्षनेतारौ आतङ्कवादस्य संकटस्य निवारणाय अन्ताराष्ट्रिय-सहयोगस्य संयुक्तप्रयासानां च आवश्यकतां पुनरपि प्रतिपादितवन्तौ। लोकसभाध्यक्षः अस्मिन् विषये भारताय रूसद्वारा प्रदीयमानस्य निरन्तरसहयोगस्य प्रशंसाम् अकरोत्।
उभयपक्षौ द्विपक्षीयव्यापारस्य, विज्ञानस्य, प्रौद्योगिक्याः, कृषेः, उद्योगस्य तथा उभयोः देशयोः जनानां परस्परसम्पर्कस्य संवर्धनस्य च व्यापकसम्भावनानां विषये सकारात्मकं विचारविमर्शम् अकुरुताम्।
Hindusthan Samachar / Divya Ranjan