प्रधानमन्त्रिणः नरेन्द्रमोदिनः नीतिभिः स्थानीयोत्पादानां वैश्विकपरिचयः वर्धते : नित्यानन्दरायः
बिहारस्य मखाना, शाहीलीची च अन्ताराष्ट्रियविपण्यां स्वकीयं विशिष्टं परिचयं स्थापयतः। पाटलिपुत्रम्, २५ अक्टोबरमासः (हि.स.)। केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः स्थानीयोत्पादानां वैश्विकपरिचयस्य वर्धनार्थं प्रधानमन्त्रीं नरेन्द्रमोदीं प्रति कृत
नित्यानंद राय की फाइल फोटो


- बिहारस्य मखाना, शाहीलीची च अन्ताराष्ट्रियविपण्यां स्वकीयं विशिष्टं परिचयं स्थापयतः।

पाटलिपुत्रम्, २५ अक्टोबरमासः (हि.स.)। केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः स्थानीयोत्पादानां वैश्विकपरिचयस्य वर्धनार्थं प्रधानमन्त्रीं नरेन्द्रमोदीं प्रति कृतज्ञतां प्रकटितवान्। सः रविवासरे पटनाविमानस्थानके वार्तामाध्यमैः सह सम्भाषणकाले अवदत् यत् प्रधानमन्त्रिणः दूरदर्शिनः नेतृत्वस्य प्रभावशालिनीनां च नीतिनां कारणेन भारतं वैश्विकनिर्यातक्षेत्रे स्वकीयं सुदृढं परिचयं स्थापयति। देशस्य स्थानीयोत्पादानां अन्ताराष्ट्रियविपण्यं प्रति परिचय: वर्धते। बिहारस्य मखाना, शाहीलीची तथा अन्ये स्थानीयोत्पादाः अस्य प्रमुखाणि उदाहरणानि सन्ति।

नित्यानन्दरायः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी स्थानीयोत्पादान् प्रोत्साहयित्वा तान् वैश्विकविपण्येन सह संयोजयितुं सङ्कल्पं कृतवान्। अस्यैव परिणाम-स्वरूपम् अद्य अनेके स्थानीयोत्पादाः देशस्य परिचयस्य प्रतीकानि भवन्ति। अनेन कृषकाणां, उत्पादकानां, शिल्पिनां लघूद्यमिनां च आर्थिकसशक्तीकरणाय नवीनाः अवसराः प्राप्यन्ते। सः अवदत् यत् भारतं स्थानीयोत्पादान् वैश्विकस्तरे प्रापयितुं स्वसङ्कल्पस्य दिशि शीघ्रतया अग्रे गच्छति तथा च विश्वस्य प्रमुखेषु निर्यातकदेशेषु स्वस्थानं प्राप्तवान् अस्ति।

केन्द्रीयगृहराज्यमन्त्री विपक्षं लक्ष्यीकृत्य अवदत् यत् सत्तालालसायां केचन जनाः भ्रमान् अपवादांश्च प्रसार्य देशस्य छविं सामर्थ्यं च दुर्बलं कर्तुं प्रयतन्ते। एतादृशाः जनाः भारतविरोधिभिः सह स्वरं मेलयितुमपि न सङ्कोचन्ते। सः अवदत् यत् देशस्य जनाः एतेषां जनानां अभिप्रायं सम्यक् जानन्ति तथा च तेभ्यः कदापि क्षमां न करिष्यन्ति।

रायः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे भारतं आर्थिकक्षेत्रे, सामरिकक्षेत्रे वैश्विकस्तरे च निरन्तरं सुदृढं भवति। देशः अधुना स्वस्य सुरक्षायाः सार्वभौमत्वस्य च विषये कस्यापि प्रकारस्य सन्धिं न करिष्यति। सः अवदत् यत् भारतम् अधुना एतावत् शक्तिशाली जातम् अस्ति यत् तस्य एकतायाः, अखण्डतायाः सीमायाः च प्रति दुष्टदृष्टिं पातयितुं कोऽपि साहसं कर्तुं न शक्नोति।

सः अवदत् यत् प्रधानमन्त्रिणः मोदिनः आश्वासनं केवलं राजनैतिकसङ्कल्पः न, अपितु देशस्य कोटिशः जनानां विश्वासस्य प्रतीकम् अस्ति। एतत् सुरक्षितभारतस्य, सुरक्षितसीमानां विकसितभारतस्य च आश्वासनम् अस्ति।

Hindusthan Samachar / Divya Ranjan