प्रधानमन्त्रिणः दिवङ्गतपितुः विषये टिप्पणी, काङ्ग्रेसदलस्य संस्कारहीनराजनीतेः प्रमाणम् : मुख्यमन्त्री सायः।
प्रधानमन्त्रिणो दिवङ्गत पितुः विषये टिप्पणीं कृतवतः खड्गे इत्यस्य वक्तव्यस्य मुख्यमन्त्री सायेन तीव्रं निन्दनम् रायपुरम्, २५ अक्टोबरमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः पटनानगरे काङ्ग्रेसदलस्य अध्यक्षेण मल्लिकार्जुनखड्गे इत्यनेन प्
मुख्यमंत्री विष्णु देव साय


प्रधानमन्त्रिणो दिवङ्गत पितुः विषये टिप्पणीं कृतवतः खड्गे इत्यस्य वक्तव्यस्य मुख्यमन्त्री सायेन तीव्रं निन्दनम्

रायपुरम्, २५ अक्टोबरमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः पटनानगरे काङ्ग्रेसदलस्य अध्यक्षेण मल्लिकार्जुनखड्गे इत्यनेन प्रधानमन्त्री नरेन्द्रमोदिनः दिवङ्गतपितुः विषये कृता टिप्पणीं तीव्रतया निन्दितवान्। मुख्यमन्त्री रविवासरे अवदत् यत् राजनैतिकनैराश्यवशात् काङ्ग्रेसदलम् अधुना भाषामर्यादाम् भारतीयसंस्काराणां सीमाश्च उल्लङ्घितुम् आरब्धवती अस्ति।

मुख्यमन्त्री सायः रविवासरे सामाजिकमाध्यमस्य एक्स इत्याख्ये मञ्चे लिखितवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः विरोधं कुर्वता तस्य दिवङ्गतपितुः लक्ष्यीकरणेन काङ्ग्रेसदलस्य अवनतं राजनैतिकचिन्तनं वैचारिकदरिद्रता च प्रकाशते। प्रधानमन्त्रीं प्रति राजनैतिकद्वेषभावनया काङ्ग्रेसदलम् यावत् अधः पतति, तत् सर्वः देशः पश्यति इति सः अवदत्।

मुख्यमन्त्री अवदत् यत् जनाः काङ्ग्रेसदलस्य असंस्कृतां क्षुद्रां च राजनीतिं सम्यक् जानन्ति। यदा यदा काङ्ग्रेसदलेन एतादृशी घृणिता भाषा प्रयुक्ता, तदा तदा जनैः तस्मै समुचितं प्रत्युत्तरं प्रदत्तम्। अस्मिन् अवसरे अपि जनाः एतादृशीं राजनीतिं न विस्मरिष्यन्ति, न च स्वीकरिष्यन्ति। उचिते समये ते स्वकीयेन लोकतान्त्रिकाधिकारद्वारा अस्याः राजनीतेः प्रत्युत्तरं दास्यन्ति इति सः अवदत्।

मुख्यमन्त्री सायः अवदत् यत् राजनैतिकविरोधस्य बहाने एतादृशी अभद्रा टिप्पणी काङ्ग्रेसदलस्य पतितचिन्तनस्य असंस्कृतराजनीतेश्च स्पष्टं प्रमाणम् अस्ति। काङ्ग्रेसदलस्य अध्यक्षः मल्लिकार्जुनखड्गः स्वकीयायाः टिप्पण्याः कृते देशस्य सम्मुखे सार्वजनिकरूपेण क्षमायाचनां कुर्यात् इति सः उक्तवान्।

Hindusthan Samachar / Dheeraj Maithani