Enter your Email Address to subscribe to our newsletters

रांची, 25 अक्टूबरमासः (हि.स.)। झारखण्डपुलिसपक्षतः राञ्चीनगरस्य खेलग्रामे आयोजिता पञ्चदशा अखिलभारतीयपुलिसधनुर्विद्याक्रीडाप्रतियोगिता २०२६–२७ इत्यस्याः व्यक्तिगतविलोपनचक्रे रविवासरे षट्सु वर्गेषु पदकविजेतॄणां घोषणा कृता। रिकर्व, कम्पाउण्ड तथा इण्डियन राउण्ड इत्येतेषु धनुर्विद्याप्रकारेषु पुरुषमहिलावर्गयोः विभिन्नानां पुलिसबलानां धनुर्धरैः उत्कृष्टं प्रदर्शनं कुर्वद्भिः स्वर्णरजतकांस्यपदानि प्राप्तानि।
रिकर्वमहिलावर्गे राजस्थानपुलिसबलस्य अमनदीपकौर् स्वर्णपदकं प्राप्तवती। उत्तरप्रदेशपुलिसबलस्य सुमनचौधरी रजतपदकं, आईटीबीपीबलस्य सोनालीबसुमतारी च कांस्यपदकं प्राप्तवती। रिकर्वपुरुषवर्गे असमराइफल्सबलस्य अकोइजाम् अमरजीत् स्वर्णपदकं विजितवान्। सीआईएसएफबलस्य दिव्यांशचौधरी रजतपदकं तथा आईटीबीपीबलस्य नीरजः कांस्यपदकं प्राप्तवान्।
कम्पाउण्डमहिलावर्गे असमराइफल्सबलस्य समैनाबसुमतारी स्वर्णपदकं प्राप्तवती। सीआईएसएफबलस्य आकाङ्क्षा रजतपदकं तथा बीएसएफबलस्य मैनावनार्जरी कांस्यपदकं विजितवत्यौ। अस्याः स्पर्धायाः पुरुषवर्गे राजस्थानपुलिसबलस्य रजतचौहानः स्वर्णपदकं प्राप्तवान्। उत्तरप्रदेशपुलिसबलस्य हर्षबालियानः रजतपदकं तथा सीआरपीएफबलस्य भगवानदासः कांस्यपदकं प्राप्तवान्।
इण्डियनराउण्डमहिलावर्गे उत्तरप्रदेशपुलिसबलस्य नमितावर्मा स्वर्णपदकं विजित्य प्रथमस्थानं प्राप्तवती। एसएसबीबलस्य पुष्पा रजतपदकं तथा उत्तरप्रदेशपुलिसबलस्य दीपिकापाण्डेयः कांस्यपदकं प्राप्तवत्यौ। इण्डियनराउण्डपुरुषवर्गे आईटीबीपीबलस्य गौरवसञ्जयरावचांदने स्वर्णपदकं प्राप्तवान्। बीएसएफबलस्य सुनीलकुमारः रजतपदकं तथा उत्तरप्रदेशपुलिसबलस्य सौरभमौर्यः कांस्यपदकं प्राप्तवान्।
----------
Hindusthan Samachar / Dheeraj Maithani