Enter your Email Address to subscribe to our newsletters

- उच्चशिक्षाविभागस्य हिन्दीग्रन्थाकादम्याश्च संयुक्ततत्त्वावधाने आयोजितायाः द्विदिवसीयकार्यशालायाः समापनम्।
भोपालम्, २५ अक्टोबरमासः (हि.स.)। मध्यप्रदेशे उच्चशिक्षाविभागस्य भोपालस्थितहिन्दीग्रन्थाकादम्याश्च संयुक्ततत्त्वावधाने सरोजिनी नायडू शासकीयकन्यास्नातकोत्तरस्वशासीमहाविद्यालये, भोपालनगरे पुस्तकलेखनम् भारतीयज्ञानपरम्परा च इति विषयमधिकृत्य आयोजितायाः द्विदिवसीयकार्यशालायाः समापनं रविवासरे अभवत्। कार्यशालायां गुणवत्तापूर्णानां त्रुटिरहितानां च पाठ्यपुस्तकानां लेखनम्, प्रामाणिकशोधसामग्रीणाम् उपयोगः, भारतीयज्ञानपरम्परायाः पाठ्यक्रमे समावेशः इत्येतेषु विषयेषु विचारविमर्शः कृतः।
उच्चशिक्षायुक्तः प्रबलसिपाहा अवदत् यत् शोधसम्बद्धा सामग्री प्रामाणिका भवति चेत् एव पाठ्यक्रमे समावेशनीया। उच्चशिक्षाविभागस्य विशेषकर्तव्यस्थः अधिकारी दिनेशदवे अवदत् यत् कार्यशालायां सङ्कायानुसारं विषयानुसारं च भारतीयज्ञानपरम्परायाः विषये चर्चा कृता। लेखकानां कृते प्रामाणिकसामग्रीणां, भाषाशैल्याः, प्रश्नानां, क्रियाकलापानां, अभ्यासानां च चयनविषये मार्गदर्शनं प्रदत्तम्। पुस्तकलेखनस्य उद्देश्यं विद्यार्थिभ्यः दीर्घकालपर्यन्तं गुणवत्तापूर्णं शैक्षणिकमार्गदर्शनम् उपलब्धं कारयितुम् अस्ति इति सः अवदत्।
मध्यप्रदेशहिन्दीग्रन्थाकादम्याः सञ्चालकः डॉ. अशोककडेलः अवदत् यत् विद्यार्थिभ्यः शैक्षणिकसत्रस्य प्रारम्भे एव पुस्तकानि उपलब्धानि भवेयुः इत्युद्देश्येन तृतीयवर्षस्य पाठ्यपुस्तकानां लेखनकार्यं क्रियते। पुस्तकेषु भारतीयज्ञानपरम्परायाः प्रामाणिकतथ्यानि समावेश्य विषयविशेषज्ञैः लेखकैश्च सह समन्वयं स्थापयित्वा विद्यार्थिहिताय लेखनं क्रियते।
शिक्षासंस्कृत्युत्थानन्यासस्य राष्ट्रियसचिवः डॉ. अतुलकोठारी अवदत् यत् देशस्य परिवर्तनाय शिक्षायां परिवर्तनम् आवश्यकम् अस्ति। भारतीयज्ञानपरम्परायाः मूलतत्त्वानि अवगत्य तेषां पाठ्यपुस्तकेषु समावेशने तथा प्रथमद्वितीयतृतीयवर्षाणां पुस्तकानां विषयवस्तुनः क्रमबद्धतायाः संरक्षणे च तेन बलं प्रदत्तम्।
तेन उक्तं यत् पुस्तकेषु भारतीयत्वाय, मानवीयदृष्टिकोणाय, आध्यात्मिकविकासाय, बहुविषयकदृष्टिकोणाय व्यावहारिकक्रियाकलापेभ्यश्च स्थानं दातव्यम्। प्रत्येकस्य पाठस्य अनन्तरं विद्यार्थिनां चिन्तनविश्लेषणयोः समग्रविकासस्य च प्रोत्साहनं कुर्वन्तः क्रियाकलापाः समावेशनीयाः इत्यपि तेन प्रतिपादितम्।
शिक्षाविद् डॉ. चाँदकिरणसलूजा कार्यपुस्तिकाधारितलेखनस्य, स्वयमेव प्रश्ननिर्माणस्य उत्तरलेखनस्य, परिस्थितिजन्यप्रश्नानां, क्रियाकलापाधारितशिक्षणस्य च महत्त्वे बलं दत्तवती। तया उक्तं यत् पुस्तकेषु एतादृशाः क्रियाकलापाः भवेयुः, ये विद्यार्थिषु सामूहिककार्यस्य चिन्तनस्य विश्लेषणस्य च क्षमता विकसितुं साहाय्यं कुर्वन्ति। पुस्तकलेखने पुरातात्त्विकप्रमाणानां प्रामाणिकस्रोतसां च उपयोगः करणीयः इत्यपि तया प्रतिपादितम्।
**विषयविशेषज्ञैः प्रदत्तं मार्गदर्शनम्**
डॉ. रमेशचन्द्रभारद्वाजः प्रस्तुतिमाध्यमेन भारतीयज्ञानपरम्परायाः आधारभूमेः, प्रामाणिकस्रोतसाम्, प्राचीनभारतीयसाहित्यस्य कालविभाजनस्य, ऐतिहासिकसाक्ष्याणां च विषये प्रकाशं पातितवान्।
डॉ. मीनाक्षी भारतीयगणितपरम्परायाः, अङ्कगणितस्य, बीजगणितस्य, रेखागणितस्य, खगोलविज्ञानस्य च विकाससम्बद्धान् साहित्यिकप्रमाणान् प्रस्तुतवती। विभिन्नासु सभ्यतासु भारतीयगणितस्य प्रभावविषये अपि तया प्रकाशः प्रदत्तः।
कार्यशालायां लेखकैः प्रतियोगितापरीक्षासम्बद्धपुस्तकानां, सन्दर्भग्रन्थानां, विषयानुसारशब्दावलीनां च चयनविषये प्रश्नाः पृष्टाः, येषां समाधानं विषयविशेषज्ञैः कृतम्।
द्वितीये दिने सङ्कायानुसारं समूहचर्चा अपि आयोजिता। अस्यां चर्चायां डॉ. अखिलेशकुमारपाण्डेयः, डॉ. हरीशव्यासः, डॉ. खेमसिंहडहरिया, डॉ. राकेशढण्डः, डॉ. अलकेशचतुर्वेदी च समन्वयकरूपेण नेतृत्वम् अकुर्वन्।
कार्यशालायां भोपालस्थिते उच्चशिक्षाउत्कृष्टतासंस्थाने दिसम्बरमासे २०२६ तमे वर्षे आयोज्यमानायाः इण्डियन कॉमर्स एसोसिएशन इत्यस्य राष्ट्रियकार्यशालायाः विवरणपत्रस्य विमोचनम् अपि कृतम्।
Hindusthan Samachar / Dheeraj Maithani