Enter your Email Address to subscribe to our newsletters

- १०२ प्रतिभाशालिभ्यः छात्रछात्राभ्यः एकैकं लक्षरूप्यकाणि प्रमाणपत्रं च प्रदास्यते।
भोपालम्, २५ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः नवम्बरमासस्य प्रथमदिनाङ्के राज्यस्य स्थापना-दिवसस्य अवसरे प्रदेशस्य १०२ छात्रछात्रेभ्यः भगवान् श्रीकृष्णमेधावीछात्रवृत्तिं प्रदास्यति। प्रत्येकं विजेतृछात्राय एकलक्षरूप्यकाणां छात्रवृत्तिः प्रमाणपत्रं च प्रदास्यते।
मुख्यमन्त्री डॉ. यादवः रविवासरे स्वकीयसन्देशे अवदत् यत् भगवान् श्रीकृष्णमेधावीछात्रवृत्तियोजना भगवान् श्रीकृष्णस्य जीवनदर्शनं व्यक्तित्वं भारतीयज्ञानपरम्परां संस्कृतिं शिक्षां जीवनमूल्यानि च भाविसन्ततिं प्रति संयोजयितुम् आरब्धा अस्ति।
मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः १०२ प्रतिभाशालिभ्यः छात्रछात्रेभ्यः हार्दिकं वर्धापनं शुभकामनाश्च प्रदत्तवान्। सः अवदत् यत् सर्वेषां विद्यार्थिनां प्रतिभा परिश्रमः ज्ञानं प्रति समर्पणं च विकसितभारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। भगवान् श्रीकृष्णस्य आदर्शेभ्यः प्रेरणां प्राप्य सर्वे जीवनस्य नवीनानि शिखराणि प्राप्नुयुः मध्यप्रदेशस्य गौरवं च वर्धयेयुः इति सः कामनाम् अकरोत्।
श्रीकृष्णपाथेय न्यासद्वारा भगवान् श्रीकृष्णमेधावीछात्रवृत्त्यर्थं विद्यालयमहाविद्यालयविश्वविद्यालयस्तरेषु च उभयोः वर्गयोः विद्यार्थिनां चयनं चिठ्ठिकापद्धत्या कृतम्। मण्डलानुसारं चयनप्रक्रियायां खण्डवामण्डलस्य सर्वाधिकाः षट् विद्यार्थी विजेतारः अभवन्। अशोकनगरात् बडवानीतः नर्मदापुरमात् सिवनीतः सिंगरौलीतः उमरियातश्च चत्वारः चत्वारः विद्यार्थी चयनिताः। बुरहानपुरात् छतरपुरात् गुनात् झाबुआतः कटनीतः मऊगञ्जतः सागरात् सतनातः श्योपुरतः उज्जयिनीतश्च त्रयः त्रयः विद्यार्थी चयनिताः।
मुख्यमन्त्रिणः संस्कृतिविषयकपरामर्शदाता श्रीकृष्णपाथेय न्यासस्य मुख्यकार्यपालनाधिकारी श्रीरामतिवारी अवदत् यत् योजनायाः अन्तर्गतं प्रतियोगितायाः आयोजनम् अगस्तमासस्य ११ दिनाङ्कात् सितम्बरमासस्य ३० दिनाङ्कपर्यन्तं २०२६ तमे वर्षे अन्तर्जालमाध्यमेन कृतम्। प्रतियोगितायां समग्रतया ६३ सहस्रं ७३६ विद्यार्थिभिः पञ्जीकरणं कारितम्, तेषु ५८ सहस्रं ९९ प्रतिभागिभिः प्रश्नपत्रं निराकृतम्। प्रतियोगिताकाले जालपुटे ७ लक्षं ९४ सहस्रात् अधिकाः दर्शनसङ्ख्याः अभवन्।
**चिठ्ठिकापद्धत्या १०२ छात्रछात्राणां चयनम्**
श्रीरामतिवारी अवदत् यत् २०२६ तमस्य वर्षस्य अक्टोबरमासस्य २३ दिनाङ्के सर्वाधिकाङ्कप्राप्तानां न्यूनतमसमये प्रश्नपत्रं निराकृतवतां च उभयोः वर्गयोः प्रतिभागिनां नियमानुसारं ५५१४ प्रतिभागिनां योग्यतासूची निर्मिता। अस्यां योग्यतासूच्यां चिठ्ठिकापद्धत्या १०२ छात्रछात्राणां चयनं कृतम्। विजेतॄणां नामानि https://shrikrishnapatheynyas.com/ इत्यस्मिन् जालपुटे अपि प्रकाशितानि सन्ति।
Hindusthan Samachar / Dheeraj Maithani