Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 अक्टूबरमासः (हि.स.)।
काठमाण्डू, २५ अक्टूबरमासः। नेपालदेशे अगस्तमासस्य २६ दिनाङ्के रसुवा-भोटेकोशी नद्योः उत्पन्नेन जलाप्लावनेन सामान्यजनानां निजसम्पत्तीनां प्रायः ७९ अरब १७ कोटि नेपालीरूप्यकाणां क्षतिः अभवत् इति प्रारम्भिकम् अनुमानम् अस्ति। राष्ट्रिययोजनायोगेन सार्वजनिकविपदनन्तरम् आवश्यकतामूल्याङ्कनस्य (पीडीएनए) अन्तर्गतं कृतस्य पारिवारिकसर्वेक्षणस्य प्रारम्भिकपरिणामानुसारं जनानां गृहाणां, भूमेः, व्यवसायानां तथा अन्यासां निजसम्पत्तीनां क्षतिः उक्तपरिमाणे अभवत्।
आयोगेन स्पष्टं कृतं यत् अस्मिन् मूल्याङ्कने मार्गाणां, जलविद्युत्परियोजनानां तथा अन्यानाम् आधारभूतसंरचनानां, उत्पादनस्य, सामाजिकक्षेत्रस्य, पर्यावरणस्य च क्षतिः न समाविष्टा अस्ति। आयोगस्य विवरणानुसारं कुलक्षतेः ६९ अरब ५७ कोटि नेपालीरूप्यकाणि परिवाराणां सम्पत्तीनां क्षतिः अस्ति, ९ अरब ६० कोटि नेपालीरूप्यकाणि व्यवसायानां प्रतिष्ठानानां च सम्पत्तीनां क्षतिः अस्ति। निजसम्पत्तीनां कुलक्षतौ परिवाराणां सम्पत्तीनां भागः प्रायः ८८ प्रतिशतं वर्तते।
जलाप्लावनेन उत्पन्नस्य विनाशस्य विस्तृतमूल्याङ्कनं कर्तुं, वित्तीयावश्यकतानाम् अनुमानं कर्तुं, पुनर्निर्माणयोजनां निर्मातुं च पीडीएनएप्रतिवेदनस्य सज्जीकरणार्थं मन्त्रिपरिषदः भाद्रमासस्य १२ दिनाङ्के निर्णयः अभवत्। तदनुसारम् आयोगेन प्रश्नावलिः निर्मिता तथा प्रभावितक्षेत्रेभ्यः तथ्याङ्काः सङ्कलिताः।
आयोगस्य कथनानुसारम् अस्मिन् कार्ये विभिन्नानां सर्वकारीयसंस्थानां कर्मचारिणः नियुक्ताः। अष्टपञ्चाशत् दलेषु १५६ प्राविधिकाः प्रशासनिककर्मचारिणश्च नियोजिताः। कार्यवशात् यात्रावशाच्च प्रभावितक्षेत्रेभ्यः बहिः स्थितानां जनानां परिवारसम्बद्धविवरणानि स्थानीयनिकायानां माध्यमेन पूरयितुं व्यवस्था अपि कृता।
आयोगेन सूचितं यत् पीडीएनए-अन्तर्गतं सङ्कलितानां तथ्याङ्कानां प्रक्रियाकरणं विश्लेषणं च प्रचलति। सर्वेक्षणस्य प्रारम्भिकपरिणामानुसारं रसुवा, नुवाकोट, धादिङ तथा गोरखा-जनपदानां पञ्चदश स्थानीयनिकायेषु ६,८१७ परिवाराः तथा १,६३८ व्यवसायाः प्रभाविताः अभवन्। जलाप्लावनेन ३२,८७२ जनाः प्रत्यक्षतया प्रभाविताः। तेषु १६,७१४ पुरुषाः, १६,०८० महिलाः तथा ७८ अन्यलिङ्गीयाः अथवा येषां लिङ्गपरिचयः स्पष्टतया निर्धारयितुं न शक्यते, ते सम्मिलिताः सन्ति।
नुवाकोट-जनपदे सर्वाधिकं क्षतिः
जनपदवारविवरणानुसारं नुवाकोट-जनपदे सर्वाधिकाः जनाः प्रभाविताः अभवन्। अत्र १७,९५४ जनाः प्रभाविताः तथा ४,१६४ परिवारानां प्रतिष्ठानानां च सम्पत्तिषु क्षतिः अभवत्। रसुवा-जनपदे ९,६७६ जनाः तथा १,९७७ परिवाराः, धादिङ-जनपदे ४,५८४ जनाः तथा १,०५२ परिवाराः, गोरखा-जनपदे ६५८ जनाः तथा १२३ परिवाराः प्रभाविताः अभवन्।
भूमेः मूल्ये सर्वाधिकं आर्थिकनुकसानम्
आर्थिकक्षतेः दृष्ट्या भूमेः सर्वाधिकं नुकसानम् अभवत्। सर्वेक्षणानुसारं ३,६१० परिवाराणां ५०८ हेक्टेयरपरिमिता भूमिः प्रभाविताभवत्। अस्याः अनुमानितं मूल्यं प्रायः ३५ अरब ४४ कोटि नेपालीरूप्यकाणि निर्धारितम्। जलाप्लावनेन क्षतिग्रस्तानां भवनानां संरचनाभिः कुलतः ५४.६५ हेक्टेयरपरिमिता भूमिः आच्छादिता आसीत्। स्वामित्वयुक्तगृहभूमेः क्षतिः १३ अरब २६ कोटि नेपालीरूप्यकाणि आसीत्। भवननिर्माणे कृतनिवेशं योजयित्वा ११ अरब ९५ कोटि नेपालीरूप्यकाणां अतिरिक्तक्षतिः अपि अभिलेखिता।
तदतिरिक्तं २,३३० परिवाराणां नकदराशेः, बहुमूल्यवस्तूनां, सांस्कृतिकपुरातात्त्विकसम्पदां च ५ अरब २ कोटि नेपालीरूप्यकाणां क्षतिः अभवत्। ३,१८७ परिवाराणां स्थायिगृहसामग्रीणां १ अरब ४५ कोटि नेपालीरूप्यकाणां क्षतिः अभवत्। आयोगस्य निष्कर्षानुसारं १,११५ परिवाराणां १,४२३ वाहनानां क्षतिः १ अरब २४ कोटि नेपालीरूप्यकाणि आसीत्। २,७६९ परिवाराणां अस्थायिगृहसामग्रीणां ६६ कोटि ३५ लक्ष नेपालीरूप्यकाणां क्षतिः अभवत्।
एवमेव कृषिफलानां २३ कोटि २१ लक्ष नेपालीरूप्यकाणां, सङ्गृहीतधान्यानां १० कोटि ४१ लक्ष नेपालीरूप्यकाणां तथा पशुपालनस्य, पक्षिपालनस्य, मत्स्यपालनस्य च २१ कोटि ४२ लक्ष नेपालीरूप्यकाणां क्षतिः अभवत्। जलाप्लावने ६६४ बृहदाकाराः पशवः, ४,६०१ लघुपशवः, ६३,६३३ पक्षिणः तथा २४,५०८ किलोग्रामपरिमिताः मत्स्याः नष्टाः अभवन्।
**४,१५१ भवनसंरचनाः क्षतिग्रस्ताः, ७२ प्रतिशतं पूर्णतया विनष्टम्**
आयोगस्य विवरणानुसारं जलाप्लावनेन ३,९६७ भवनस्वामिनां ४,१५१ भवनसंरचनाः क्षतिग्रस्ताः। तासु २,७०२ गृहाणि, २८८ गोशालाः, धान्यभण्डारगृहाणि अथवा अन्याः ग्रामीणसंरचनाः, ६५१ ट्रससंरचनाः तथा २६३ अस्थायीपर्णकुटीराणि सम्मिलितानि सन्ति। तदतिरिक्तं १४२ संरचनाः अन्यवर्गीयाः आसन्, १५ संरचनानां प्रकारः स्पष्टतया ज्ञातुं न शक्यते स्म।
सर्वेक्षणानुसारं एतासु २,९८९ संरचनाः अर्थात् प्रायः ७२ प्रतिशतं पूर्णतया क्षतिग्रस्ताः अभवन्। अन्याः ५०८ संरचनाः मृत्तिकायां पङ्के च निमग्नाः अभवन्।
आयोगस्य सर्वेक्षणे ३०२ भवनानां आंशिकक्षतिः, १९२ भवनानां लघुक्षतिः तथा १४१ भवनानां वक्रतां प्राप्तत्वं च ज्ञातम्। कुलक्षतिग्रस्तसंरचनासु ३,१०४ अर्थात् ७६.९५ प्रतिशतं संरचनाः पुनः उपयोगाय अयोग्याः सन्ति। मरम्मतानन्तरं पुनः उपयोक्तुं शक्यानां भवनानां सङ्ख्या ६५२ अस्ति। तेषु ३३२ भवनानां पूर्णमरम्मतिः, ३२० भवनानां सामान्यमरम्मतिः च आवश्यकी अस्ति। मरम्मतिं विना निवासयोग्यानां संरचनानां सङ्ख्या केवलं ९७ अस्ति।
**१,६३८ व्यवसायाः प्रभाविताः**
व्यवसायक्षेत्रे सर्वाधिकं नुकसानं थोकविक्रेतॄणां खुद्राविक्रेतॄणां च अभवत्। प्रभावितव्यवसायेषु ७७४ अर्थात् ४७.२५ प्रतिशतं थोकविक्रय-खुद्राविक्रयक्षेत्रसम्बद्धानि सन्ति। तदनन्तरं आवास-खाद्यसेवासम्बद्धानि ३३७ प्रतिष्ठानानि अर्थात् २०.५७ प्रतिशतं, कृषिवनमत्स्यपालनक्षेत्रस्य १६६ प्रतिष्ठानानि अर्थात् १०.१३ प्रतिशतं तथा अन्यसेवासम्बद्धानि १३६ प्रतिष्ठानानि अर्थात् ८.३ प्रतिशतं प्रभावितानि अभवन्।
व्यवसायिनां ४०३ वाहनानां क्षतिः प्रायः ९४ कोटि नेपालीरूप्यकाणि आसीत्। तदतिरिक्तं विभिन्नप्रतिष्ठानैः पालिताः १३० बृहदाकाराः पशवः, २,०५८ लघुपशवः, १,५३,०५२ पक्षिणः तथा २८,१५० किलोग्रामपरिमिताः मत्स्याः जलाप्लावने नष्टाः अभवन्।
आयोगेन स्पष्टं कृतं यत् अस्मिन् प्रारम्भिकमूल्याङ्कने जलाप्लावनप्रभावितनागरिकाणां व्यवसायिनां च गृहाणां, भूमेः, कृषिफलानां, पशुपक्षिणां, वाहनानां तथा गृहसामग्रीणां क्षतेः विवरणं समाविष्टम् अस्ति। आधारभूतसंरचनानां, उत्पादनस्य, सामाजिकक्षेत्रस्य तथा पर्यावरणस्य क्षतेः मूल्याङ्कनम् अस्मिन् न समाविष्टम्।
---------------
Hindusthan Samachar / Dheeraj Maithani