Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 अक्टूबरमासः (हि.स.)। नेपालसर्वकारेण सार्वजनिकक्रयेषु स्वदेशीयोत्पादानां प्रवर्धनाय तेषां प्रयोगसम्बद्धां निर्देशिकाम् अनुमोदितम्। अनेन निर्णयेन सर्वकारीयक्रयेषु आधारभूतसंरचनानिर्माणकार्येषु च आयातितसामग्रीषु निर्भरता न्यूनीकर्तुं स्वदेशीयोत्पादानां, स्थानीयसंसाधनानां, स्वदेशीयप्रौद्योगिक्याश्च प्रयोगाय प्राथमिकता प्रदत्ता अस्ति।
निर्देशिकायां मार्गाणां, सेतूनां, भवनानां च निर्माणे स्वदेशीयसामग्रीणां प्रयोगाय प्राथमिकता प्रदत्ता अस्ति। अधुना प्राविधिकदृष्ट्या उपयुक्ते स्वदेशीयविकल्पे उपलब्धे सति आयातितसामग्रीणां प्रयोगम् अनिवार्यं कुर्वन्तः अभिकल्पाः निर्मातुं न शक्यन्ते। विशेषतः आयातितबिटुमिनेन निर्मीयमाणानां डामरमार्गाणां विकल्परूपेण स्वदेशीयसीमेन्टेन निर्मितानां कङ्क्रीटमार्गाणां, स्थानीयपाषाणानां तथा अन्यानां स्वदेशीयनिर्माणप्रविधीनां प्रयोगस्य व्यवस्था कृता अस्ति।
तथापि निर्देशिकायां सर्वासु परिस्थितिषु बिटुमिनस्य अस्फाल्टस्य च प्रयोगे पूर्णप्रतिबन्धः न आरोपितः। तत्र प्राविधिकदृष्ट्या उपयुक्ते स्वदेशीयविकल्पे उपलब्धे सति तस्य प्रयोगाय प्राथमिकता दातव्येति प्रावधानम् अस्ति। सर्वकारीयभवनानां निर्माणे आयातितग्रेनाइटस्य टाइल्स इत्यादीनां स्थाने स्वदेशीयसङ्गमरमरस्य, पाषाणस्य, स्लेटस्य तथा टाइल्स इत्यादीनां प्रयोगाय प्राथमिकता दातव्या। भवनानां सज्जायां, विद्युत्संयोजनेषु, फर्निचरनिर्माणे, स्वच्छतासम्बद्धसामग्रीषु च स्वदेशीयविकल्पानां प्रयोगस्य व्यवस्था कृता अस्ति।
निर्देशिकानुसारं सर्वकारीयपरियोजनानां सम्भाव्यताध्ययनस्य, अभिकल्पनिर्माणस्य, विस्तृतपरियोजनाप्रतिवेदनस्य (डीपीआर), व्ययकलनस्य तथा निविदानिर्माणस्य प्रारम्भिकचरणादेव स्वदेशीयोत्पादानां प्रौद्योगिकीनां च अधिकतमप्रयोगः सुनिश्चितः करणीयः। तदतिरिक्तं निविदासु, प्राविधिकविवरणेषु, परिमाणसूचिषु तथा क्रयसम्झौतासु स्वदेशीयसामग्रीणां प्रयोगसम्बद्धा शर्तः समावेशनीया। सम्झौते स्वदेशीयसामग्री निर्धारितायां सत्यां विना अनुमतिं विदेशीया सामग्री प्रयोक्तुं न शक्यते।
सर्वकारीयक्रयेषु उपयुक्ते स्वदेशीयविकल्पे उपलब्धे सति कस्यापि विदेशीब्राण्डस्य, उत्पादनस्थलस्य अथवा मूलदेशस्य लक्ष्यीकरणं कुर्वन्तः प्राविधिकविवरणाः निर्मातुमपि प्रतिबन्धः आरोपितः। निर्देशिकायां व्यवस्था कृता यत् नेपालदेशस्य अन्तः उपलब्धैः प्राकृतिकसंसाधनैः कच्चापदार्थैश्च उत्पादितानां अथवा संस्कारितानां निर्माणसामग्रीणां प्रयोगः देशस्य सर्वासु सार्वजनिकपरियोजनासु सर्वकारीयक्रयेषु च कर्तुं शक्यते।
तथापि स्वदेशीयसामग्रीणां प्रयोगे गुणवत्तायाः, सुरक्षायाः, स्थायित्वस्य तथा प्राविधिकमानकानां विषये किमपि सम्झौतानं कर्तुं न शक्यते। घरेलूद्योगानां कृते विपण्यविस्तारः, औद्योगिकोत्पादनस्य वृद्धिः, रोजगारसृजनं तथा आयातस्य विकल्परूपेण स्वदेशीयोत्पादनस्य प्रोत्साहनं च सर्वकारस्य प्रमुखम् उद्देश्यम् अस्ति।
निर्देशिकायां स्वदेशीयसामग्रीणां प्रयोगं सुनिश्चितुं सम्बन्धितसार्वजनिकनिकायानां प्रमुखेभ्यः, अध्ययनाभिकल्पनिर्माणयोः संलग्नेभ्यः प्राविधिकविशेषज्ञेभ्यः, परामर्शदातृभ्यः तथा अनुमोदनाधिकारिभ्यः उत्तरदायित्वं प्रदत्तम्। सर्वकारीयवित्तपोषणेन सम्पाद्यमानेषु निर्माणकार्येषु क्रयकार्येषु च स्वदेशीयसामग्रीणां प्रयोगं वर्धयित्वा देशान्तर्गतस्य उत्पादनस्य, रोजगारस्य तथा आर्थिकक्रियाकलापानां विस्तारः करणीयः इति लक्ष्येण निर्देशिका अनुमोदिता।
विदेशीयसामग्रीं स्वदेशीयसामग्रीरूपेण प्रस्तुत्य आपूर्तिं कुर्वतां, कूटब्राण्डस्य अथवा मिथ्याचिह्नस्य प्रयोगं कुर्वतां तथा उत्पादनस्थलसम्बद्धां मिथ्यासंसूचनां ददतां निर्माणव्यवसायिनां आपूर्तिकर्तॄणां च सामग्री निराकर्तुं शक्यते। एतादृशानाम् आपूर्तिकर्तॄणां भुगतानं स्थगयितुं, तान् कृष्णसूच्यां समावेशयितुं तथा तेषां विरुद्धं विधिसम्मतकार्यवाहीं प्रारब्धुं च प्रावधानम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani