Enter your Email Address to subscribe to our newsletters

धमतरी, 25 अक्टूबरमासः (हि.स.)। कृषकाणां विविधसमस्यानां लम्बितमागानां च विषये अक्टोबरमासस्य २७ दिनाङ्के नवरायपुरस्थितस्य महानदीभवनस्य पुरतः प्रस्तावितायाः अन्नदातृगर्जनारैल्याः सज्जता तीव्रा जाता अस्ति। रैल्याः सफलतायै भारतीयकिसानसङ्घस्य उपवेशनम् रविवासरे कुरूदकृष्युपजमण्ड्यां आयोजितम्। अस्मिन् उपवेशने धमतरीमण्डलस्य धमतरी, कुरूद, नगरी, मगरलोड इत्येतेषां विकासखण्डानां पदाधिकारिणः सम्मिलिताः। अधिकाधिकानां कृषकाणां सहभागितां सुनिश्चितुं रणनीतिः निर्मिता।
उपवेशने कृषकहितसम्बद्धानां विषयाणां प्रमुखतया प्रस्तुत्यर्थं निर्णयः कृतः। एतेषु गोवन्दनयोजनायाः कार्यान्वयनम्, जीरामजीयोजनायाः गोसंरक्षणेन संवर्धनेन च सह संयोजनम्, २०२२-२३ वर्षस्य धानक्रयणस्य अवशिष्टस्य १७०० कोटिरूप्यकाणां तत्कालं भुगतानम्, समर्थनमूल्यवृद्धेः लाभं प्रदाय ३३५८ रूप्यकाणां प्रतिक्विण्टलमूल्येन धानक्रयणं च अन्तर्भवन्ति।
एतदतिरिक्तं नवम्बरमासस्य १५ दिनाङ्कात् फरवरीमासस्य १५ दिनाङ्कपर्यन्तं धानक्रयणकालावधिः निर्धारणीया, प्रतितौलम् अधिकतमं ४० किलो ७०० ग्रामपरिमितं धानं स्वीकरणीयम्, जलप्लावनेन नष्टानां सस्यानां सर्वेक्षणं कृत्वा समुचितं क्षतिपूर्तिधनं देयम्, टोकनव्यवस्थायां च सुधारः करणीयः इति मागाः प्रस्तुताः। कृषकान् दबावं कृत्वा तेषां बैंकखातानां समर्पणप्रक्रिया अपि स्थगनीया इति आग्रहः कृतः।
उपवेशने अपूर्णानां सिञ्चनपरियोजनानां शीघ्रं समापनम्, पैरीमहाबन्धसदृशानां नवीनपरियोजनानां स्वीकृतिः, उर्वरकाणां उच्चमूल्येन विक्रयस्य निरोधः, भूम्यधिग्रहणे उदयपुरघोषणानुरूपं कार्यानुष्ठानम्, मक्का-गोधूमयोः समर्थनमूल्येन क्रयणस्य सुनिश्चितीकरणम् इत्यादिविषयेषु अपि चर्चा अभवत्।
भारतीयकिसानसङ्घस्य धमतरीमण्डलाध्यक्षः लालारामचन्द्राकरः कृषकान् रैल्यां अधिकाधिकसङ्ख्यया सम्मिलितुं आह्वयन् अवदत् यत् कृषकाणां समस्यानां समाधानाय तेषाम् अधिकाराणां रक्षणाय च ऐक्यम् अत्यावश्यकम् अस्ति।
उपवेशनानन्तरं भाटाग्रामस्थिते कृष्युद्यानिकीकेन्द्रे किसानसङ्घस्य पदाधिकारिभिः वृक्षारोपणम् अपि कृतम्।
उपवेशने ललितसिंहः, दुलारसिंहः, विनयसाहुः, ठाकुररामसाहुः, हेमेंद्रसाहुः, टोमनसाहुः, प्रदीपचन्द्राकरः, शत्रुघ्नसाहुः, तुमेन्द्रसाहुः, राजकुमारचन्द्राकरः, रामेश्वरसिंहः, हीरालालसाहुः, प्रदीपयादवः, ओंकारचन्द्राकरः, लालारामचन्द्राकरः, गजाधरयादवः, सनीबैसः, सेवकरामसाहुः, खिलावनचन्द्राकरः, संतरामसाहुः, डोमनसाहुः इत्यादयः विभिन्नतहसीलानां पदाधिकारिणः कृषकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani