Enter your Email Address to subscribe to our newsletters

एशियाचैम्पियन्सट्रॉफी २०२६ प्रतियोगितायां भागं ग्रहीतुं षडपि दलानि पञ्जाबप्रदेशम् आगतानि
चण्डीगढम्, २५ अक्टोबरमासः (हि.स.)। दक्षिणकोरियादेशस्य पुरुषहॉकीदलस्य साहिबजादा अजीतसिंहनगरस्य (मोहाली) शहीदभगतसिंह-अन्ताराष्ट्रियविमानपत्तने आगमने सति पारम्परिकेन पञ्जाबीशैल्या भव्यं स्वागतं कृतम्। एतेन सह एशियाचैम्पियन्सट्रॉफी २०२६ हॉकीप्रतियोगितायां भागं ग्रहीतुं षडपि दलानि पञ्जाबप्रदेशम् आगतानि।
अस्मिन्नवसरे क्रीडकानां सहायककर्मचारिणां च स्वागतं ढोलवादनस्य निनादेन, भाङ्गडानृत्यस्य मनोहराभिः प्रस्तुतिभिः, विविधवर्णयुक्तैः फुलकारीवस्त्रैश्च कृतम्। एतेन ते पञ्जाबप्रदेशस्य समृद्धायाः सांस्कृतिकपरम्परायाः तथा अतिथीनां सस्नेहं स्वागतं कर्तुं प्रचलितायाः परम्परायाश्च दर्शनं प्राप्तवन्तः।
जालन्धरनगरे स्थिते ओलम्पियन-सुरजीत-हॉकी-क्रीडाङ्गणे तथा मोहालीनगरे स्थिते ओलम्पियन-बलबीरसिंह-वरिष्ठ-अन्ताराष्ट्रिय-हॉकी-क्रीडाङ्गणे च अक्टोबरमासस्य २७ दिनाङ्कतः नवम्बरमासस्य ५ दिनाङ्कपर्यन्तं आयोज्यमाना इयं प्रतियोगिता एशियायाः प्रमुखानां हॉकीदलानां रोमाञ्चकारीणां प्रतिस्पर्धानां साक्षिणी भविष्यति। पञ्जाबराज्यसर्वकारेण प्रतियोगितायां भागं गृह्णतां सर्वेषां देशानां दलानां कृते विश्वस्तरीयमूलभूतसुविधानां, सुचारुव्यवस्थापनस्य, आत्मीयातिथ्यस्य च सुनिश्चित्य सुदृढाः प्रबन्धाः कृताः।
दक्षिणकोरियादेशस्य दलं विंशतिसदस्यैः सह आगतम्। अस्मिन् दले किम् जैह्यङ् तथा सोन् तायमिन् च गोलरक्षकत्वेन क्रीडिष्यतः। अन्येषु क्रीडकेषु पार्क् गियोनवू, जियोंग् जन्सियोंग्, गो सोङ् हून्, किम् जैहो, सोन् डेन्, किम् योंग् बोक्, चुन् सेमिन्, सोङ् जियोंगसियोब्, यू ह्योगुक्, कोङ् यूनहो, ओम् जूनयोंग्, क्वोन येचन, सोङ् हायसोंग्, बे सोङ् मिन्, हान् साङ्जुन्, किम् डेह्यून्, चोइ गाजिन् तथा किम् डोङ्गगियॉन् च सन्ति।
राज्यसर्वकारेण दलानां निवासस्य, परिवहनस्य, सुरक्षायाः, अभ्याससुविधानां च कृते सुदृढाः प्रबन्धाः कृताः, येन सम्पूर्णायां प्रतियोगितायां क्रीडकानां कृते सुचारुः स्मरणीयश्च अनुभवः भवेत्। एताः सज्जताः अन्ताराष्ट्रियक्रीडायोजनानाम् प्रोत्साहनाय क्रीडकेभ्यः विश्वस्तरीयसुविधानां प्रदाने च पञ्जाबप्रदेशस्य प्रतिबद्धतायाः प्रत्यक्षं प्रमाणम् अस्ति।
प्रतियोगितायां भागं ग्रहीतुं षडपि दलानि अधुना पञ्जाबप्रदेशम् आगतानि, येन क्रीडाप्रेमिषु प्रतियोगितां प्रति उत्साहः अपेक्षाश्च वर्धिताः। आगामीषु दिनेषु दर्शकाः रोमाञ्चकारीणि कठिनानि च हॉकीप्रतिस्पर्धाः द्रष्टुं शक्ष्यन्ति। जालन्धरनगरे मोहालीनगरे च अस्याः प्रतिष्ठितायाः प्रतियोगितायाः आयोजनं न केवलं भारतीयहॉकीक्षेत्रे पञ्जाबप्रदेशस्य स्थायिनं योगदानं पुनः प्रकाशयिष्यति, अपितु प्रमुखक्रीडाकेन्द्ररूपेण राज्यस्य प्रतिष्ठां परिचयं च सुदृढं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani