शरच्चन्द्रपूर्णिमायां मन्दिरे दर्शनपूजनार्थं समागताः श्रद्धालवः
धमतरी, 25 अक्टूबरमासः (हि.स.)। शरच्चन्द्रपूर्णिमापर्व रविवासरे अक्टोबरमासस्य २५ दिनाङ्के श्रद्धया हर्षोल्लासेन च आचरितम्। पर्वणः अवसरे नगरस्य विभिन्नेषु मन्दिरेषु श्रद्धालवः दर्शनपूजनार्थम् आगच्छन्तः आसन्। धार्मिकमान्यतानुसारं शरच्चन्द्रपूर्णिमाया
रुद्रेश्वर मंदिर में दर्शन पूजन करते हुए श्रद्धालु।


धमतरी, 25 अक्टूबरमासः (हि.स.)। शरच्चन्द्रपूर्णिमापर्व रविवासरे अक्टोबरमासस्य २५ दिनाङ्के श्रद्धया हर्षोल्लासेन च आचरितम्। पर्वणः अवसरे नगरस्य विभिन्नेषु मन्दिरेषु श्रद्धालवः दर्शनपूजनार्थम् आगच्छन्तः आसन्। धार्मिकमान्यतानुसारं शरच्चन्द्रपूर्णिमायाः रात्रौ चन्द्रः स्वकीयाभिः षोडशकलाभिः परिपूर्णः भवति। तस्य शीतलचन्द्रिकायाः अमृततुल्यगुणकारित्वं मन्यते।

एतस्याः श्रद्धायाः प्रभावेण जनैः रात्रौ मुक्ताकाशस्य अधः क्षीरपाकः स्थापितः। अद्य ते तं प्रसादरूपेण ग्रहीष्यन्ति। पञ्चाङ्गानुसारं पूर्णिमातिथिः अक्टोबरमासस्य २५ दिनाङ्के प्रातः ११ वादनात् ५५ निमेषेभ्यः प्रारब्धा।

शरच्चन्द्रपूर्णिमायां चन्द्रिकायां क्षीरपाकस्थापनस्य परम्परायाः विशेषं महत्त्वम् अस्ति। मान्यतानुसारं चन्द्रस्य शीतलरश्मीनां सम्पर्के स्थापितं क्षीरपाकं प्रसादरूपेण भुक्त्वा सुखसमृद्धी प्राप्येते। अस्मिन् अवसरे परिवारस्य सदस्येभ्यः श्रद्धालुभ्यश्च क्षीरपाकप्रसादः वितीर्यते।

विप्रविद्वत्परिषदः धमतरीमण्डलस्य माध्यमपरामर्शदाता पण्डितः राजकुमारतिवारी अवदत् यत् सनातनधर्मे शरच्चन्द्रपूर्णिमायाः विशेषं धार्मिकमहत्त्वम् अस्ति। एतत् पर्व आरोग्यसमृद्ध्योः च सम्बद्धं पर्व अपि मन्यते। धार्मिकमान्यतानुसारम् अस्मिन् दिने चन्द्रः स्वकीयाभिः षोडशकलाभिः परिपूर्णः भवति तथा च तस्य रश्मिभ्यः अमृतवर्षणं भवतीति मान्यता अस्ति।

शरच्चन्द्रपूर्णिमायाः रात्रौ चन्द्रप्रकाशे क्षीरपाकस्थापनस्य परम्परा प्रचलिता अस्ति। मान्यतानुसारं चन्द्ररश्मिभिः युक्तं क्षीरपाकं प्रसादरूपेण भुक्त्वा आरोग्यं प्राप्यते। एतस्य विश्वासस्य कारणेन जनाः स्वगृहाणां छदिषु प्राङ्गणेषु च क्षीरपाकं स्थापयन्ति। अनन्तरं ते परिवारस्य सदस्येभ्यः परिचितजनेभ्यश्च प्रसादं वितरन्ति।

Hindusthan Samachar / Dheeraj Maithani