युद्धविमानानां गर्जनया आकाशे प्रतिध्वनिता काशी
वाराणसी, २५ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे भारतीयवायुसेनायाः ९४तमस्य स्थापना-दिवसस्य उपलक्ष्ये ‘विंग्स ओवर गङ्गा’ इत्यस्य आयोजने आयोजितं वायुप्रदर्शनम् अपश्यत्। वायुप्रदर्शनस्य समये स्वसांसदं प्रधानमन्त्रिणं च स्वमध्ये उपस
नमोघाट पर एयरशो देखते हुए प्रधानमंत्री


रास्ते में पुष्पवर्षा के बीच प्रधानमंत्री का स्वागत,काफिले में प्रधानमंत्री


वाराणसी, २५ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे भारतीयवायुसेनायाः ९४तमस्य स्थापना-दिवसस्य उपलक्ष्ये ‘विंग्स ओवर गङ्गा’ इत्यस्य आयोजने आयोजितं वायुप्रदर्शनम् अपश्यत्। वायुप्रदर्शनस्य समये स्वसांसदं प्रधानमन्त्रिणं च स्वमध्ये उपस्थितं दृष्ट्वा नमोघाटे, गङ्गायाः अन्येषु ८४ घाटेषु तथा गङ्गायाः परतीरे सिकतायां च उपस्थितस्य विशालजनसमूहस्य उत्साहः स्पष्टतया दृश्यते स्म।

प्रधानमन्त्रिणा मिर्जामुरादस्य खोचवां-स्थले वस्त्रनिर्मातृसंस्थायाः अरविन्द् लिमिटेड् इत्यस्य प्रायः १५० कोटि-रूप्यकाणां व्ययेन निर्मितस्य प्रथमस्य उत्पादनकेन्द्रस्य उद्घाटनं कृतम्। तदनन्तरं सः नमोघाटे भारतीय-वायुसेनायाः ९४तमस्य स्थापना-दिवसस्य उपलक्ष्ये ‘विंग्स ओवर गङ्गा’ इत्यस्य आयोजने आयोजितं वायुप्रदर्शनम् अपश्यत्।

प्रधानमन्त्री बाबतपुरविमानस्थानकात् हेलिकॉप्टरयानेन मिर्जामुरादस्य खोचवां-स्थलं प्राप्तवान्। तत्र अरविन्द् मिल्स्-संस्थायाः उद्घाटनं कृत्वा महिला-कर्मचारिणीभिः सह संवादम् अकरोत्। ततः प्रधानमन्त्री नरेन्द्रमोदी हेलिकॉप्टरयानेन पुलिसलाइन-प्रांगणस्य हेलिपैड्-स्थलं प्राप्तवान्। तत्रतः सः मार्गेण ‘एयर फोर्स डे एरियल डिस्प्ले-२०२६’ इत्यस्मिन् भागं ग्रहीतुं नमोघाटं प्राप्तवान्। अस्मिन् सम्पूर्णे मार्गे १३ प्रमुखस्थानेषु काशीवासिभिः स्वसांसदस्य प्रधानमन्त्रिणश्च भव्यं स्वागतं कृतम्। वायुप्रदर्शनस्य प्रारम्भात् पूर्वं ध्वजान् शिरस्त्राणानि च धृत्वा प्रधानमन्त्रिणः सम्मानः कृतः।

अस्मिन् अवसरे रक्षामन्त्री राजनाथसिंहः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रीय रक्षाराज्यमन्त्री सञ्जयसेठः, केन्द्रीयवित्तराज्यमन्त्री तथा प्रदेशाध्यक्षः पङ्कजचौधरी, उपमुख्य-मन्त्रिणौ केशवप्रसादमौर्यः बृजेशपाठकश्च अन्ये विशिष्टजनाश्च उपस्थिताः आसन्।

सूर्यकिरण-विमानानां प्रदर्शनानन्तरं वाराणस्यां वायुप्रदर्शनस्य समापनम् अभवत्। तदनन्तरं विमानस्य चालक-कक्षात् भारतीयवायुसेनायाः पक्षतः काशीवासिभ्यः हार्दिकशुभकामनासन्देशः अपि प्रसारितः।

Hindusthan Samachar / Divya Ranjan