Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णन् २६-२७ अक्टोबरदिनाङ्कयोः आन्ध्रप्रदेशस्य यात्रां करिष्यति।
उपराष्ट्रपतिसचिवालयस्य अनुसारम्, उपराष्ट्रपतिः विजयवाडायां डॉ. एनटीआर-स्वास्थ्यविज्ञानविश्वविद्यालयस्य चत्वारिंशत्तमे वार्षिकोत्सवसमारोहे मुख्या-तिथिरूपेण भागं ग्रहीष्यति। यात्रायाः समये सः तिरुपतौ श्रीवेङ्कटेश्वरस्वामिमन्दिरे तथा तिरुचानूर-स्थले पद्मावती-अम्मावारि-मन्दिरे च पूजाम् अर्चनां च करिष्यति।
Hindusthan Samachar / Divya Ranjan