Enter your Email Address to subscribe to our newsletters

जयपुरम्, २६ अक्टूबरमासः (हि.स.)। पूर्णिमा-तिथेः पावने अवसरे सोमवासरे जयपुर-गायत्री-परिवारस्य पक्षतः एका अनुपमा प्रेरणादायिनी च आध्यात्मिकी प्रयासः दृष्टा। संस्थया आयोजितेन ‘अन्तर्जाल-यज्ञेन’ देशस्य विदेशस्य च प्रायः १०० स्थानेभ्यः षट्शतं गायत्री-परिजनाः युगपदेव स्व-स्व-गृहेभ्यः वैदिक-मन्त्रोच्चारणेन सह आहुतीः समर्पितवन्तः।
सप्त-समुद्रान् पारं यावत् गुञ्जिताः वैदिक-ऋचाः
तन्त्रज्ञानस्य अध्यात्मस्य च अस्मिन् अनूपमे सङ्गमे न केवलं भारते, अपि तु विदेशेषु निवसन्तः प्रवासी-भारतीयाः साधकाः अपि सोत्साहं भागं गृहीतवन्तः। यज्ञे चीने, आस्ट्रेलियायां, अमेरिकायां च निवसन्तः परिजनाः डिजिटल-माध्यमेन सम्बद्धाः भूत्वा स्व-स्व-स्थानेषु हवनकुण्डे आहुतीः समर्पितवन्तः। तत्रैव देशस्य विविधेभ्यः राज्येभ्यः— राजस्थानात्, देहल्याः, महाराश्ट्रात्, उत्तरप्रदेशात्, हरियाणातः, झारखण्डात्, बिहाराच्च महत्यां सङ्ख्यायां भक्ताः संयुक्ताः अभवन्।
राजस्थानस्य प्रान्तीय-क्षेत्रेषु उपमण्डल-मुख्यालयेषु अपि इदम् अभियानम् अधिकृत्य महान् उत्साहः दृष्टः। शाहपुरा, दूदू, चाकसू, नीमकाथाना इत्यादीन् विविधान् पत्तनान् ग्रामीण-क्षेत्रांश्च अन्तर्भाव्य गायत्री-परिजनाः अन्तर्जाल-प्रविधौ यज्ञ-प्रक्रियां सम्पूर्य विश्वशान्तये जनकल्याणाय च प्रार्थनाम् अकुर्वन्।
यज्ञानन्तरम् आयोजितायाम् अन्तर्जाल-विचारगोष्ठ्यां प्रान्तीय-क्षेत्रीय-समन्वयकः ओमप्रकाश अग्रवालः प्रान्तीय-सहसमन्वयिका गायत्री कचोलिया च परिजनान् सम्बोधितवन्तौ। वक्तारौ आह्वानम् अकुरुतां यत् अङ्कीय-तन्त्रज्ञानस्य अस्मिन् युगे अस्माभिः विदेशेषु स्थिताः भारतीयाः दूरस्थेषु ग्रामेषु निवसन्तः सामान्याः जनाश्च अस्मिन् रचनात्मक-अभियाने संयोजनीयाः। तौ गायत्री-परिवारस्य ‘विचारक्रान्तिं’ गृहे-गृहे प्रापयितुं सामाजिक-दायित्वानां च संवर्धनाय सङ्कल्पं पुनरुच्चारितवन्तौ।
---------------
Hindusthan Samachar / Dheeraj Maithani