Enter your Email Address to subscribe to our newsletters

अयोध्या, २६ अक्टूबरमासः हि.स.)। श्रीरामजन्मभूमि-मन्दिरे शरदपूर्णिमायाः पावने अवसरे श्रीरामलल्लायाः उत्सवविग्रहाय पायसस्य नैवेद्यं समर्प्य पूजार्चनं विहितम्। गतरात्रौ पूर्णिमातिथौ पायसनैवेद्याय न्यास-प्रशासनस्य अनुमत्या उत्सवविग्रहः पूर्णविधानेन दृढसुरक्षया च सह बहिः आनीतः, भव्यरूपेण च इदम् आयोजनं सम्पन्नं कृतम्।
Hindusthan Samachar / Dheeraj Maithani