Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २५ अक्टूबरमासः (हि.स.)। अरुणाचलप्रदेशस्थे श्रीपरशुरामकुण्डे प्रतिष्ठापितायाः भगवतः परशुरामस्य एकपञ्चाशत् पादोच्छ्रितायाः प्रतिमायाः अनावरण-समारोहस्य सज्जीकरणानां गतिवर्धनाय विप्र-फाउण्डेशन्-संस्था देशव्यापिनीं निमन्त्रण-रथयात्रां निष्कासयिष्यति। इयं यात्रा ०४ दिसम्बर २०२६ दिनाङ्के अयोध्यायाः प्रारभ्य २४ दिसम्बर-दिनाङ्के श्रीपरशुरामकुण्डं प्राप्स्यति। अस्याः माध्यमेन देशस्य विविधेभ्यः भागेभ्यः भक्तेभ्यः प्रतिमायाः अनावरण-समारोहे सम्मिलनाय निमन्त्रणं प्रदास्यते। प्रतिमायाः अनावरणं जनवरी-फरवरी २०२७ तमे वर्षे प्रस्तावितम् अस्ति। समारोहस्य अन्तिमा तिथिः सम्बद्धैः अधिकारिभिः सह विमर्शानन्तरं घोषयिष्यते।
रथयात्रायाः अनावरणस्य च सिद्धताम् अधिकृत्य विप्र-फाउण्डेशन्-संस्थायाः राष्ट्रिय-कार्यकारिणी-समित्याः विशेष-उपवेशनं रविवासरे कोलकातानगरस्य ई.एम.-बाईपासस्थे ‘स्प्रिङ्ग-क्लब्’ इत्यत्र अभवत्। राष्ट्रियाध्यक्षस्य सत्यनारायण-श्रीमाली-महोदयस्य अध्यक्षतायाम् आयोजिते अस्मिन् उपवेशने समग्रात् देशात् १५०-तः अधिकाः पदाधिकारिणः, कार्यकारिणी-सदस्याः, विशिष्टाः आमन्त्रिताश्च भागम् अगृह्णन्। उपस्थिति-पञ्जिकायां १४७ प्रतिनिधीनां हस्ताक्षराणि अङ्कितानि। उपवेशनस्य अन्तर्जाल-माध्यमेन साक्षात्-प्रसारणम् अपि कृतम्।
सङ्गठन-महामन्त्री डॉ. सुनील-शर्मा उपवेशनस्य सञ्चालनम् अकरोत्। अस्मिन् संस्थापकः सुशील-ओझा, भूतपूर्व-राष्ट्रियाध्यक्षः बनवारीलाल-सोती, धर्मनारायण-जोशी, राधेश्याम-शर्मा ‘गुरुजी’ च सहिताः सङ्गठनस्य विविधाः पदाधिकारिणः उपस्थिताः आसन्। ‘विप्र चैम्बर् ऑफ् कॉमर्स एण्ड् इण्डस्ट्री’ इत्यस्य राष्ट्रियाध्यक्षः डॉ. विजय-बसोतिया तथा ‘इण्टरनेशनल् सोसाइटी फॉर् परशुराम कॉन्शस्नेस्’ इत्यस्याः अध्यक्षा डॉ. हर्षा-त्रिवेदी अपि भागं गृहीतवन्तौ। उपवेशनस्य आयोजनं विप्र-फाउण्डेशन्-संस्थायाः सप्तम-क्षेत्रेण (ज़ोन-७, कोलकाता) क्षेत्रीय-अध्यक्षस्य किशन-गोस्वामिनः नेतृत्वे कृतम्।
द्वयोः समित्योः गठनस्य पुनर्गठनस्य च निर्णयः
उपवेशने परशुराम-मूर्ति-स्थापना-समित्याः पुनर्गठनं कुर्वद्भिः धर्मनारायण-जोशी सभापतिः, परमेश्वर-शर्मा अध्यक्षः, रमेश-शर्मा च संयोजकः मनोनीताः। समितौ अन्ये अष्टौ पदाधिकारिणः अपि सम्मिलिताः कृताः।
तत्रैव, सङ्गठनस्य कार्याणां प्रवृत्तीनां च पर्यवेक्षणाय अनुशासन-उच्चाधिकार-समितिः गठीता। राधेश्याम-शर्मा अस्याः अध्यक्षः, श्रीकान्त-पाराशरश्च संयोजकः कृतः। डॉ. विजय-बसोतिया, अशोक-पारीकः, महावीरप्रसाद-शर्मा, कुलदीप-व्यासः, जितेन्द्रकुमार-भारद्वाजः, लोकेश-शर्मा, बनवारीलाल-सेवदा, रामनारायण-भैरवलाल-शर्मा, हरिनारायण-व्यासश्च समित्याः सदस्याः भविष्यन्ति।
दिसम्बरतः मार्चपर्यन्तं भविष्यन्ति विविधानि आयोजनानि
उपवेशने आगमिनां कार्यक्रमाणां रूपरेखापि निर्धारिता। अस्यान्तर्गतं १७ तः २३ दिसम्बर २०२६ पर्यन्तं प्राग्ज्योतिषपुरे (गुवाहाटी-नगरे) ब्रह्मपुत्र-भागवत-महोत्सवः आयोजिष्यते। परशुरामकुण्डे १३ तः १५ जनवरी २०२७ पर्यन्तं मकरसङ्क्रान्ति-मेलायाः अवसरे साहाय्य-शिबिरं स्थापयिष्यते। एतदतिरिच्य १४ मार्च २०२७ दिनाङ्के गणेश-जीमण-आयोजनं प्रस्तावितम् अस्ति।
राष्ट्रियाध्यक्षः सत्यनारायण-श्रीमाली अवदत् यत् परशुरामकुण्डे प्रतिमायाः प्रतिष्ठापनं समग्रदेशस्य समाज-बान्धवानां विश्वासस्य सहकार्यस्य च परिणामः वर्तते। सः अकथयत् यत् आमन्त्रण-रथयात्रायाः माध्यमेन देशस्य प्रत्येकं कोणं प्रति अनावरण-समारोहस्य निमन्त्रणं प्रापयिष्यते। अधुना सङ्गठनस्य समग्रं ध्यानं समारोहस्य सिद्धतासु केन्द्रीकृतं स्थास्यति।
उपवेशने सङ्गठनस्य ऐक्यभावे सामूहिक-सहभागितायां च बलं ददद् सन्देशः प्रदत्तः— “प्रतिमा दण्डायमाना वर्तते, वयमपि सहिताः दण्डायमानाः स्मः।”
Hindusthan Samachar / अंशु गुप्ता