सर्वकारः राजकोषीयघाटं न्यूनीकर्तुं प्रतिबद्धः - निर्मला सीतारमणः
तिरुचिरापल्लिः, २६ अक्टोबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः सोमवासरे अत्र अवदत् यत् सर्वकारः राजकोषीयघाटं न्यूनीकर्तुं प्रतिबद्धः अस्ति, यथा वार्षिकबजटे अपि दृश्यते। सा अवदत् यत् २०३० तमवर्षपर्यन्तं राष्ट्रिय-ऋणं सकलगृहोत्पादस्य
सीतालक्ष्मी रामास्वामी कॉलेज के प्लैटिनम जुबली समारोह को संबोधित करते वित्त मंत्री सीतारमण


तिरुचिरापल्लिः, २६ अक्टोबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः सोमवासरे अत्र अवदत् यत् सर्वकारः राजकोषीयघाटं न्यूनीकर्तुं प्रतिबद्धः अस्ति, यथा वार्षिकबजटे अपि दृश्यते। सा अवदत् यत् २०३० तमवर्षपर्यन्तं राष्ट्रिय-ऋणं सकलगृहोत्पादस्य ५० प्रतिशतं यावत् सीमितं स्थापयिष्यते।

सीतारमणः तमिलनाडुराज्यस्य तिरुचिरा-पल्लीनगरे सीतालक्ष्मी रामास्वामी महाविद्यालयस्य प्लैटिनम-जयन्ती-समारोहे सम्बोधनं कुर्वती एतदुक्तवती। वित्तमन्त्रिणी स्पष्टं कृतवती यत् सर्वकारः राजकोषीयघाटं न्यूनीकर्तुं वित्तीयानु-शासनं च रक्षितुं पूर्णतया प्रतिबद्धः अस्ति।

राष्ट्रियऋणसम्बद्धानां चिन्तानां विषये सा अवदत् यत् कोरोना-महामार्याः अनन्तरं प्रत्येकं देशः ऋणसम्बद्धानां चुनौतीनां सम्मुखीकरणं करोति।

सीतारमणः अवदत्, “वार्षिकवित्तविवरणे अभिव्यक्तायाः प्रतिबद्धतायाः अनुरूपं वयं राजकोषीयघाटं न्यूनीकर्तुं प्रतिबद्धाः स्मः। वयं स्वलक्ष्यं स्पष्टतया घोषितवन्तः यत् २०३० तमवर्षपर्यन्तं राष्ट्रियऋणं जीडीपी इत्यस्य ५० प्रतिशतं यावत् सीमितं स्थापयिष्यामः। सर्वकारस्य ऋणं न्यूनीकर्तुं वयं निरन्तरं उपायान् कुर्मः। अन्ताराष्ट्रियसंस्थाभिः ऋणप्रबन्धनविषये भारतस्य अनुशासितः दृष्टिकोणः अपि स्वीकृतः अस्ति।”

सा अवदत् यत् २०५१ तमे वर्षे सीतालक्ष्मी रामास्वामी महाविद्यालय: स्वस्य स्थापनायाः शतवर्षाणि पूरयिष्यति। अयं कालः भारतस्य स्वातन्त्र्यस्य शतवर्षपूर्तेः चतुर्वर्षेभ्यः परं भविष्यति। अद्य अत्र उपस्थिताः छात्राः तस्मिन् काले ‘विकसितभारतस्य’ नेतृत्वं कुर्वतीनां महिलानां मध्ये अन्तर्भूताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan