Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ अक्टोबरमासः (हि.स.)। विद्यालयशिक्षां कौशलविकासेन, उच्चशिक्षया, रोजगारावसरैः च सह संयोजयितुं ‘विद्यालयात् कार्यक्षेत्रं प्रति गमनस्य सुगमीकरणम्’ इति विषये आयोजितस्य द्विदिवसीयराष्ट्रियशिखर-सम्मेलनस्य शुभारम्भः सोमवासरे अत्र आंबेडकर-अन्ताराष्ट्रियकेन्द्रे अभवत्।
केन्द्रीयमाध्यमिकशिक्षामण्डलस्य तत्त्वावधाने आयोजिते अस्मिन् सम्मेल-नस्य प्रथमदिने विद्यार्थिनः भविष्यस्य रोजगारसम्बद्धानाम् आवश्यकतानाम् अनुरूपं सज्जीकर्तुम्, कौशलशिक्षां मुख्य-धारायाः विद्यालयशिक्षया सह संयोजयितुम्, उत्तमान् वृत्त्यवसरान् च प्रदातुं सम्बन्धितेषु अनेकप्रमुखविषयेषु चर्चा अभवत्।
सीबीएसई-मण्डलेन दिल्ली-राष्ट्रीय-राजधानीक्षेत्रस्य सहोदय-विद्यालय-समूहस्य सहयोगेन सम्मेलनस्य आयोजनं कृतम्। अस्मिन् अवसरे विद्यालयशिक्षा-साक्षरताविभागस्य सचिवः टी.के. अनिलकुमारः, सीबीएसई-मण्डलस्य अध्यक्षः डॉ. मन्दीपभण्डारी च मन्त्रालयस्य तथा सीबीएसई-मण्डलस्य वरिष्ठाधिकारिभिः सह उपस्थिताः आसन्।
सम्मेलनं सम्बोधयन् विद्यालयशिक्षा-साक्षरताविभागस्य सचिवः टी.के. अनिलकुमारः विद्यालयशिक्षातः उच्चशिक्षां, कौशलविकासं, रोजगारं च प्रति विद्यार्थिनां निर्बाधप्रगतिः सुनिश्चेतुं आवश्यकतायाः उपरि बलम् अददात्। सः अवदत् यत् विद्यार्थिभ्यः एतादृशाः अवसराः प्रदातव्याः, येन ते स्वभविष्यविषये विचारपूर्वकं निर्णयान् कर्तुं शक्नुयुः तथा च आजीवनम् अध्ययनप्रक्रियया सह सम्बद्धाः तिष्ठेयुः।
सः एतदपि प्रतिपादितवान् यत् शिक्षाव्यवस्था एतादृशी भवेत्, या विद्यार्थिनः समाजे योगदानं दातुं गरिमापूर्णं जीवनं च यापयितुं समर्थान् कुर्यात्। एतदर्थं विभिन्नशिक्षाधाराणां मध्ये उत्तमः समन्वयः स्थापनीयः तथा विद्यार्थिभ्यः तेषां रुच्याः क्षमतायाश्च अनुरूपम् अग्रे वर्धितुम् अवसराः प्रदातव्याः।
शिखरसम्मेलने चतुर्षु प्रमुखविषयेषु विशेषं ध्यानं दीयते। एतेषु प्रौद्योगिकी, अङ्कीयसुरक्षा तथा कौशलम्; अभि-कल्पना, सृजनशीलता तथा नवाचारः; राष्ट्रिय-श्रेयाङ्क-रूपरेखायाः माध्यमेन विभिन्नशिक्षाव्यवस्थासु कौशलस्य मान्यता; समानावसरैः सह वृत्तिमार्गदर्शनं च अन्तर्भवन्ति।
एतेषां प्राथमिकतानाम् उद्देश्यं विद्यार्थिनः परिवर्तनशीलप्रौद्योगिक्याः रोजगारस्य च आवश्यकतानाम् अनुरूपं सज्जीकर्तुम् अस्ति। एतदतिरिक्तं विद्यार्थिनां कौशलस्य विभिन्नेषु शिक्षास्तरेषु मान्यता भवेत् तथा तेभ्यः अग्रिमाध्ययनाय रोजगाराय च उपयुक्ताः मार्गाः उपलब्धाः भवेयुः इत्यस्मिन् विषये अपि बलं दीयते।
इदं सम्मेलनं राष्ट्रियशिक्षानीतेः २०२० तस्याः परिकल्पनायाः अग्रे विस्तारस्य प्रयासः अस्ति, यस्याः अन्तर्गतं शिक्षां अधिकं व्यावहारिकं, कौशलाधारितं, रोजगारोन्मुखं च कर्तुं बलं दीयते। अस्य उद्देश्यं पारम्परिकविद्यालयशिक्षायाः व्याव-सायिककौशलस्य च मध्ये विद्यमानानाम् अवरोधानां न्यूनीकरणम् अस्ति, येन विद्यार्थी शिक्षां समाप्य कार्यक्षेत्रे प्रवेशाय सम्यक् प्रकारेण सज्जाः भवेयुः।
सम्मेलनस्य अवधौ संवादात्मकसत्रैः विशेषज्ञचर्चाभिश्च शिक्षणस्य नवीन-पद्धतीनां, मूल्याङ्कनस्य नवीनोपायानां, शिक्षायां अङ्कीय-प्रौद्योगिक्याः प्रभावि-प्रयोगस्य च विषये चर्चा क्रियते। एतदतिरिक्तं विद्यालयस्तरे कौशलशिक्षां सुदृढीकर्तुं सफलप्रतिमानानां व्याव-हारिकोपायानां च विषये अपि विचारविमर्शः क्रियते।
सीबीएसई-मण्डलेन सम्बद्धानां विद्या-लयानां शिक्षकाः शिक्षाविदश्च सम्मेलनस्य अवधौ प्रकरणाधारितान् शोधपत्रान् तथा भित्तिपत्राणि प्रस्तुतवन्तः। एतेषां माध्यमेन कौशलशिक्षाक्षेत्रे स्वीकृतानाम् उत्तम-प्रथानां, सफलप्रयोगानां, तेषां सकारात्मकपरिणामानां च आदानप्रदानं क्रियते।
सम्मेलनं प्रतिभागिभ्यः परस्परं संवादं कर्तुं, अनुभवान् विनिमातुं, भविष्ये सहयोगस्य सम्भावनाः विकसितुं च अवसरम् अपि प्रददाति। एतस्य माध्यमेन विद्यालयानां, शिक्षाविशेषज्ञानां, उद्योगजगतः च मध्ये सहयोगसम्बन्धान् सुदृढीकर्तुं प्रयासाः क्रियन्ते, येन विद्यार्थिभ्यः वृत्तिमार्गदर्शनस्य कौशलविकासस्य च उत्तमाः अवसराः प्राप्येरन्।
Hindusthan Samachar / Divya Ranjan