Enter your Email Address to subscribe to our newsletters


नवदिल्ली/हेगः, २६ अक्टोबरमासः (हि.स.)। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः सोमवासरे अवदत् यत् भारत-अमेरिकयोः प्रस्तावितस्य द्विपक्षीय-व्यापारसन्धे: अधिकांशवार्ता पूर्णा अभवत्। अधुना अस्मिन् सन्धौ अन्तिमरूपं दीयते।
नीदरलैण्डदेशस्य द्विदिवसीयस्य आधि-कारिकप्रवासस्य कृते आगतः गोयलः अत्र भारत-अमेरिकयोः व्यापारसन्धे: विषये चर्चां कुर्वन् एतद् अवदत्। भारत-नीदरलैण्डव्यापारमञ्चं सम्बोधयन् सः अवदत् यत् भारतेन विगतेषु सार्धचतुर्षु वर्षेषु नव मुक्तव्यापारसन्धि: कृताः। नीदरलैण्डदेशस्य आर्थिककार्य-जलवायु-नितिमन्त्री हेलीनहर्बर्ट इत्यनया सह आयोजितायां सभायां अर्धचालकानां, हरितहाइड्रोजनस्य, स्वच्छ ऊर्जा-परिवर्तनस्य, महत्त्वपूर्णखनिजानां तथा उन्नतविनिर्माणक्षेत्राणां सहयोगं अधिकं गभीरं कर्तुं चर्चा अभवत्।
केन्द्रीयमन्त्री अवदत् यत् एतदतिरिक्तं भारत-यूरोपीयसङ्घयोः मुक्तव्यापार-सन्धिना लाभं प्राप्य व्यापारवर्धनस्य, सुदृढापूर्तिशृङ्खला-निर्माणस्य तथा उभयदेशयोः कृते विकासस्य नवीना-वसरान् उद्घाटयितुं च चर्चा अभवत्।
भारत-अमेरिकयोः द्विपक्षीयव्यापारसन्धि: प्रथमचरणस्य रूपरेखायाः अन्तिमरूपं फेब्रुवरीमासे निर्धारितमिति घोषणा कृता आसीत्। तथापि अमेरिकादेशे शुल्क-सम्बद्धपरिस्थितौ परिवर्तनस्य कारणात् सन्धिविषये अग्रे अपि वार्ताः करणीयाः अभवन्।
Hindusthan Samachar / Divya Ranjan