Enter your Email Address to subscribe to our newsletters

काठमाण्डू, २६ अक्टोबरमासः (हि.स.)। नेपालदेशे अद्य आरभ्य कार्तिकस्नानं दीपदानं विशेषतुलसीपूजा च आयोज्यते। प्रतिवर्षम् आश्विनशुक्लपूर्णिमायाः आरभ्यमाणा एषा परम्परा कार्तिकशुक्ल-पूर्णिमापर्यन्तं प्रचलति।
धार्मिकविश्वासानुसारम् अस्मिन् अवधौ पूजापाठेन, पवित्रस्नानेन, दीपप्रज्वालनेन दानेन च आध्यात्मिकपुण्यस्य प्राप्तिः भवति तथा जीवनात् नकारात्मकतायाः दूरीकरणं भवति। पूर्णिमा दिव्यप्रकाशस्य, पवित्रतायाः समृद्धेश्च प्रतीकरूपेण मन्यते। अत एव कार्तिकमासे धार्मिकानुष्ठानानां विशेषं महत्त्वम् अस्ति।
धार्मिकमान्यतानुसारम् आश्विनशुक्ल-पूर्णिमातः कार्तिकशुक्लपूर्णिमापर्यन्तं तुलसीविशेषपूजया, कार्तिकस्नानेन आकाशदीपप्रज्वालनेन च सौभाग्यं समृद्धिः मानसम्मानं च प्राप्यते। भगवन्तं विष्णुम् उद्दिश्य क्रियमाणायाम् अस्यां परम्परायां दीपाः प्रज्वाल्यन्ते। अस्मिन् अवधौ विशेषतः गृहेषु तुलसीपूजया मनोकामनाः पूर्णाः भवन्तीति विश्वासः अस्ति।
नेपालपञ्चाङ्गनिर्णायकविकाससमितेः अध्यक्षः धर्मशास्त्रविद्वान् च प्रोफेसरः डॉ. रामचन्द्रगौतमः अवदत् यत् आश्विनशुक्ल-पूर्णिमातः कार्तिकस्नानस्य आरम्भस्य परम्परा अस्ति। धार्मिकमान्यतानुसारम् अस्मिन् काले स्नानेन मनसः दुर्विचारान् दूरीकर्तुं साहाय्यं भवति।
अस्यैवावसरस्य उपलक्ष्ये अद्य स्वयम्भूचैत्ये महादीपदानमपि क्रियते। कार्तिकस्नान-स्यावसरे देशस्य सर्वासु पवित्रनदीषु प्रातःकालादेव जनसमूहः दृश्यते। जनाः स्वपरिवारजनैः सह नदीतीरं प्राप्य स्नानं कुर्वन्ति, दीपदानं च आचरन्ति।
Hindusthan Samachar / Divya Ranjan