देशस्य नूतनं ‘क्रीडाकेन्द्रं’ भवितुं प्रवर्तमान: मध्यप्रदेश: शीर्षस्थेषु त्रिषु राज्येषु स्थानं प्राप्तम्
भोपालम्, २६ अक्टोबरमासः (हि.स.)। कदाचित् देशस्य क्रीडाक्षेत्रे षोडशे अथवा सप्तदशे स्थाने स्थितं मध्यप्रदेशम् अधुना शीर्षस्थेषु त्रिषु राज्येषु स्थानं प्राप्तवान्। विगतेषु द्विवर्षेषु क्रीडामूलभूतसंरचनायाः विस्तारस्य, आधुनिकप्रशिक्षणसुविधानां तथा क्
मुख्यमंत्री डॉ. मोहन यादव और मंत्री विश्वास कैलाश सारंग के फाइल फोटो


भोपालम्, २६ अक्टोबरमासः (हि.स.)। कदाचित् देशस्य क्रीडाक्षेत्रे षोडशे अथवा सप्तदशे स्थाने स्थितं मध्यप्रदेशम् अधुना शीर्षस्थेषु त्रिषु राज्येषु स्थानं प्राप्तवान्। विगतेषु द्विवर्षेषु क्रीडामूलभूतसंरचनायाः विस्तारस्य, आधुनिकप्रशिक्षणसुविधानां तथा क्रीडकानाम् उत्कृष्टप्रदर्शनस्य च बलेन प्रदेशः क्रीडाक्षेत्रे स्वकीयं स्थानं सुदृढं कृतवान्। राज्यसर्वकारस्य विविध-योजनानां क्रीडकानां परिश्रमस्य च फलस्वरूपं मध्यप्रदेशः देशस्य नूतनं ‘क्रीडाकेन्द्रम्’ इति रूपेण उद्भवति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टिकोणेन, मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वेन तथा क्रीडासहकारितामन्त्रिणः विश्वास-कैलाशसारङ्गस्य मार्गदर्शनेन प्रदेशे क्रीडासुविधानां विस्ताराय नूतनप्रतिभानां प्रोत्साहनाय च विशेषं ध्यानं दीयते। सम्प्रति प्रदेशे अष्टादशसु क्रीडासु एकादश उत्कृष्टाः क्रीडा-प्रशिक्षणसंस्थाः सञ्चा-लिताः सन्ति, यत्र क्रीडकेभ्यः विश्वस्तरीयाः प्रशिक्षणसुविधाः प्रदीयन्ते। एतदतिरिक्तं ‘मुख्यमन्त्री क्रीडापरिसरयोजनायाः’ अन्तर्गतं सर्वेषु २३० विधानसभाक्षेत्रेषु आधुनिकक्रीडा-परिसराणां निर्माणं क्रियते।

प्रदेशे क्रीडाप्रतिभानाम् अन्वेषणाय तासां च विकासाय ‘खेलो एमपी यूथ गेम्स’, ‘पार्थयोजना’, ‘खेलो बढो अभियान’, प्रतिभान्वेषणकार्यक्रमः तथा ग्रीष्म-कालीनप्रशिक्षणशिबिराणि इत्यादयः कार्यक्रमाः आयोज्यन्ते। एताभिः योजनाभिः ग्रामीणनगरीयक्षेत्रयोः युवानः क्रीडाभिः सह सम्बद्धाः क्रियन्ते। तेभ्यः उत्तमप्रशिक्षणस्य प्रतियोगितासु भागग्रहणस्य च अवसराः अपि प्रदीयन्ते।

अन्ताराष्ट्रियप्रतियोगितासु क्रीडकाणाम् उत्कृष्टं प्रदर्शनम्

मध्यप्रदेशस्य क्रीडकाः राष्ट्रियस्तरेण सह अन्ताराष्ट्रियप्रतियोगितास्वपि स्व-प्रतिभायाः प्रदर्शनं कृतवन्तः। एशिया-क्रीडासु मध्यप्रदेशराज्यस्य निशानेबाजी-प्रशिक्षणसंस्थायाः क्रीडिका नीरू ढांढा महिलानां ट्रैप-व्यक्तिगतस्पर्धायां तथा ट्रैप-मिश्रितदलस्पर्धायां स्वर्णपदके, महिलानां ट्रैप-दलस्पर्धायां च रजतपदके विजयं प्राप्तवती। एवं सा समग्रतया त्रीणि पदकानि प्राप्तवती। एतदतिरिक्तं मनीषा कीर, ऐश्वर्यप्रतापसिंहः, आशी चौकसे, विवेकसागरः, इशिका चौधरी, क्रान्ति गौड, जय मीणा तथा हर्षितातोमर इत्यादयः क्रीडकाः अपि विविधासु प्रतियोगितासु पदकानि विजित्य प्रदेशस्य गौरवं वर्धितवन्तः।

स्कॉटलैण्डस्य ग्लास्गोनगरे आयोजितासु राष्ट्रमण्डलक्रीडासु—२०२६ मध्यप्रदेशस्य जूडोक्रीडिका यामिनी मौर्या तथा भारोत्तोलकः अजयबाबू च रजतपदके प्राप्तवन्तौ। अस्याः उपलब्धेः उपलक्ष्ये राज्यसर्वकारेण उभाभ्यां क्रीडकाभ्यां २५-२५ लक्षरूप्यकाणां पुरस्कारराशिं तथा सर्वकारीयां सेवां प्रदातुं घोषणा कृता। अपरतः जापानस्य आइची-नागोयानगरे आयोजितासु एशियापैरा-क्रीडासु—२०२६ पैरा-जूडोक्रीडकः कपिलपरमारः पुरुषाणां जे-१, ७० किलोग्रामवर्गे कांस्यपदकं विजित्य प्रदेशस्य गौरवं वर्धितवान्।

सर्वेषु विधानसभाक्षेत्रेषु क्रीडापरिसराणां विस्तारः

क्रीडासुविधानां स्थानीयस्तरपर्यन्तं विस्ताराय राज्यसर्वकारः आधुनिकमूल-भूतसंरचनायाः विकासे बलं ददाति। केन्द्रसर्वकारस्य ‘नवीनखेलो इण्डिया-योजनायाः’ अन्तर्गतं २०२६-२७ तमवर्षात् २०३०-३१ तमवर्षपर्यन्तं ३६,४४१ कोटिरूप्यकाणां स्वीकृतपरियोजनया प्रदेशे क्रीडासुविधानां विस्तारस्य सम्भावनाः वर्धिताः सन्ति। योजनायाः अन्तर्गतं उदयमानानां खेलो इण्डिया-क्रीडकाणां, खेलो इण्डियापोषक-विद्यालयानां तथा जनपदस्तरे स्थापितानां ५२ खेलो इण्डियाकेन्द्राणां सुदृढीकरणाय कार्यं क्रियते।

राष्ट्रीयशिक्षानीतेः—२०२० अनुरूपं शिक्षया सह क्रीडानां संयोजनद्वारा विद्यार्थिनां शारीरिकसमग्रविकासौ प्रोत्साह्येते। अपरतः भोपालस्य नाथू बरखेडा इत्यत्र प्रायः एकसहस्रकोटिरूप्यकाणां व्ययेन अन्ताराष्ट्रियक्रीडापरिसरस्य निर्माणं क्रियते। अस्याः परियोजनायाः पूर्णतया भोपालं प्रमुखम् अन्ताराष्ट्रियक्रीडा-योजनाकेन्द्रं रूपेण विकसितुं साहाय्यं भविष्यति इति अपेक्ष्यते।

उत्कृष्टक्रीडकेभ्यः सर्वकारीयसेवायाः अवसराः

प्रदेशसर्वकारः क्रीडाप्रतिभानां उज्ज्वल-भविष्याय रोजगारावसराणां च उपलब्धये अपि पदक्षेपान् स्वीकरोति। अस्य अन्तर्गतं आरक्षकविभागे उत्कृष्ट-क्रीडकानां प्रत्यक्षनियुक्तिप्रक्रिया पुनः प्रारब्धा। क्रीडाकोटायां दश उपनिरीक्षक-पदानि तथा पञ्चाशत् आरक्षकपदानि आरक्षितानि सन्ति। अस्य प्रयत्नस्य उद्देश्यम् अस्ति—क्रीडकेभ्यः स्वराज्ये रोजगारस्य अवसरान् प्रदाय तान् क्रीडागतिविधीनां निरन्तरतायै प्रोत्साहयितुम्।

एतदतिरिक्तं ‘क्रीडिष्यति मध्यप्रदेशः, वर्धिष्यते मध्यप्रदेशः’ इत्यस्य भावनया आयोजितेषु खेलो एमपी यूथ गेम्स इति युवा-क्रीडासु विकासखण्डस्तरात् राज्यस्तरपर्यन्तं प्रायः एकलक्षं युवानः भागं गृह्णन्ति। एतासु प्रतियोगितासु चयनितेभ्यः प्रतिभाशालिभ्यः क्रीडकेभ्यः क्रीडाप्रशिक्षणसंस्थासु निःशुल्कप्रशि-क्षणस्य उच्चशिक्षायाश्च सुविधाः प्रदीयन्ते।

क्रीडानां प्रोत्साहनं सर्वकारस्य प्राथमिकता : मुख्यमन्त्री

मुख्यमन्त्री डॉ. मोहनयादवस्य कथन-मस्ति, “मध्यप्रदेशे पारम्परिकानाम् आधुनिकानां च क्रीडानां समृद्धा परम्परा अस्ति। क्रीडाः केवलं प्रतिस्पर्धायाः माध्यमं न, अपितु युवानां उज्ज्वलभविष्यस्य देशस्य विकासस्य च आधारः अपि सन्ति। यदा कश्चित् क्रीडकः क्रीडाङ्गणे स्वेदं मुञ्चति, तदा तत्र केवलं क्रीडकः एव न, अपितु देशस्य स्वर्णिमभविष्यमपि आकारं गृह्णाति। प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे देशे सर्वत्र क्रीडाणां क्रीडकाणां च विकासाय निरन्तरं प्रयासाः क्रियन्ते।”

प्रदेशस्य क्रीडासहकारितामन्त्री विश्वास-कैलाशसारङ्गः अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे प्रदेशे क्रीडानां, क्रीडकानां तथा क्रीडाङ्गणानां विकासाय प्राथमिकता दीयते। सर्वकारस्य उद्देश्यम् अस्ति युवानः क्रीडासु प्रवर्तयितुं, तेषां प्रतिभां परिष्कर्तुं तथा आधुनिक-क्रीडासुविधाः उपलब्धाः कर्तुम्। सर्वेषु विधानसभाक्षेत्रेषु क्रीडापरिसराणां निर्माणेन ग्रामीण-नगरीयक्षेत्रयोः प्रतिभा-शालिभ्यः युवभ्यः अग्रे गन्तुं अधिकाः अवसराः प्राप्स्यन्ते।

क्रीडामूलभूतसंरचनायाः विस्तारस्य, आधुनिकप्रशिक्षणव्यवस्थायाः, प्रतिभान्वेषणकार्यक्रमाणां तथा क्रीडकेभ्यः रोजगारावसराणां माध्यमेन मध्यप्रदेशः क्रीडाविकासस्य व्यापकं प्रतिरूपं निर्माति। पारम्परिकानाम् आधुनिकानां च क्रीडानां समानरूपेण प्रोत्साहनेन प्रदेशस्य राष्ट्रिय-अन्ताराष्ट्रियक्रीडाक्षेत्रयोः सहभागिता अधिकं सुदृढा भविष्यति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan