मध्यप्रदेशपर्यटनमण्डलं ‘भारतस्य उत्कृष्टपर्यटनराज्यम्’ इति पुरस्कारेण सम्मानितम्
६९ तमे राष्ट्रियसम्मेलने प्रदर्शिनी-कार्यक्रमे च पुरस्कारः प्रदत्तः भोपालम्, २६ अक्टोबरमासः (हि.स.)। मध्यप्रदेशपर्यटनमण्डलं ट्रैवल एजेन्ट्स एसोसिएशन ऑफ इण्डिया इत्यस्य ६९ तमे राष्ट्रियसम्मेलने प्रदर्शिनीकार्यक्रमे च ‘उत्कृष्टतापुरस्कारः—भारतस्य उत
मप्र को ‘आउटस्टैंडिंग टूरिज्म स्टेट ऑफ इंडिया’ अवॉर्ड प्रदान करते हुए अतिथि


६९ तमे राष्ट्रियसम्मेलने प्रदर्शिनी-कार्यक्रमे च पुरस्कारः प्रदत्तः

भोपालम्, २६ अक्टोबरमासः (हि.स.)। मध्यप्रदेशपर्यटनमण्डलं ट्रैवल एजेन्ट्स एसोसिएशन ऑफ इण्डिया इत्यस्य ६९ तमे राष्ट्रियसम्मेलने प्रदर्शिनीकार्यक्रमे च ‘उत्कृष्टतापुरस्कारः—भारतस्य उत्कृष्टपर्यटनराज्यम्’ इत्यनेन सम्मानितम्। कोलकातानगरे अक्टोबर-मासस्य २५ दिनाङ्कतः २७ दिनाङ्कपर्यन्तम् आयोजिते सम्मेलने मध्यप्रदेशपर्यटनमण्डलस्य अपरप्रबन्धसञ्चालकेन डॉ. अभयबेडेकरेण अयं पुरस्कारः गृहीतः।

मध्यप्रदेशपर्यटनविभागस्य सचिवः मध्यप्रदेशपर्यटनमण्डलस्य प्रबन्ध-सञ्चालकः च डॉ. इलैयाराजा टी सोमवासरे अवदत् यत् ट्रैवल एजेन्ट्स एसोसिएशन ऑफ इण्डिया इत्यस्य ७५ तमस्य स्थापनावर्षस्य समारोहस्य ऐतिहासिकावसरे मध्यप्रदेशपर्यटन-मण्डलेन एषा उपलब्धिः प्राप्ता। अयं सम्मानः प्रदेशस्य पर्यटनविकासाय, पर्यटनस्थलानां प्रचाराय तथा समृद्धस्य सांस्कृतिकस्य ऐतिहासिकस्य प्राकृति-कस्य धरोहरस्य च प्रोत्साहनाय क्रियमाणानां प्रयासानां राष्ट्रियस्तरे मान्यतां प्रददाति।

प्रबन्धसञ्चालकः डॉ. इलैयाराजा अवदत् यत् प्रदेशस्य समृद्धा विरासत् प्राकृतिकवैविध्यं च तम् देशस्य प्रमुखेषु पर्यटनस्थलेषु अग्रणीं करोति। राष्ट्रियस्तरे प्राप्तः अयं सम्मानः पर्यटनक्षेत्रे प्रचलद्भ्यः विकासकार्येभ्यः तथा पर्यटन-उद्योगस्य सहयोगिभिः सह समन्वयाय च नवीनम् उत्साहं प्रदास्यति। मध्यप्रदेशपर्यटनमण्डलं पर्यटकेभ्यः उत्कृष्टानुभवान् प्रदातुं पर्यटनस्य नूतनसम्भावनानां च साकाररूपेण कार्यान्वयनाय निरन्तरं प्रयतते।

सः अवदत् यत् सम्मेलनकाले मध्य-प्रदेशस्य प्रतिनिधिमण्डलेन राज्यस्य विविधपर्यटनसम्पदः प्रभावपूर्णं प्रदर्शनं कृतम्। अस्मिन् प्रदेशस्य ऐतिहासिक-स्मारकाणि, समृद्धवन्यजीवाभयारण्याणि, प्रमुखानि आध्यात्मिककेन्द्राणि तथा चलचित्रपर्यटनस्य विपुलाः सम्भावनाः प्रमुखतया प्रस्तुताः। एतदतिरिक्तं प्रदेशस्य प्रमुखपर्यटनस्थलेषु सुगमगमनागमनाय विमानसेवायाः विस्तारस्य तथा पर्यटनव्यापारक्षेत्रेण सह दीर्घकालीन-सहभागितायाः विषये विशेषं बलं प्रदत्तम्।

सम्मेलने ‘मध्यप्रदेशचलचित्रपर्यटननीतिः—२०२५’ इत्यस्य अन्तर्गतं प्रदेशस्य रमणीयस्थलानि चलचित्रनिर्माणानुकूलं वातावरणं च विशेषतया प्रस्तुतम्। उज्जयिन्यां आयोज्यमानस्य सिंहस्थ-महाकुम्भस्य—२०२८ इत्यस्य परिप्रेक्ष्ये श्रद्धालुभ्यः पर्यटकेभ्यश्च उच्चस्तरीया-तिथ्यसेवानां मूलभूतसंरचनायाश्च विकासयोजनाः अपि प्रस्तुताः। विमाननक्षेत्रस्य प्रतिनिधिभिः सह सभां कृत्वा पर्यटनस्थलेषु गमनागमनव्यवस्थां अधिकं सुदृढां कर्तुं सम्भावनानां विषये विस्तृतः विचारविमर्शः अपि कृतः।

Hindusthan Samachar / Divya Ranjan