Enter your Email Address to subscribe to our newsletters

कोलकाता, २६ अक्टोबरमासः (हि.स.)। एशियाईक्रीडासु २०२६ उत्कृष्टं प्रदर्शनं कृत्वा देशस्य गौरवं वर्धितवन्तः धनुर्धरः साहिलराजेशजाधवः, कीर्तिशर्मा तथा नौकायानक्रीडकः सतनामसिंहः सोमवासरे भारतीयक्रीडाप्राधिकरणस्य कोलकाताकेन्द्रेण सम्मानिताः। अस्मिन् समारोहे क्रीडकैः सह तेषां प्रशिक्षकाः अपि सम्मानिताः। अस्मिन् अवसरे साहिलः अवदत् यत् सफलतां प्राप्तवन्तोऽपि विनम्रतया स्थातुं निरन्तरं परिश्रमं कर्तुं च अत्यन्तम् आवश्यकम्।
जापानदेशस्य आइची-नागोया-नगरे आयोजितासु एशियाईक्रीडासु साहिलः द्वे स्वर्णपदके विजित्य भारतीयधनुर्विद्यायां स्वप्रतिभां प्रदर्शितवान्। सः पुरुषाणां संयुक्तधनुर्विद्यादलस्पर्धायां तथा मिश्रितसंयुक्तधनुर्विद्यादलस्पर्धायां स्वर्णपदके प्राप्तवान्। अपरतः कीर्तिशर्मा महिलानां रिकर्वदलस्य सदस्या भूत्वा ऐतिहासिकस्वर्णपदकविजये योगदानम् अकरोत्। नौकायानस्पर्धायां सतनामसिंहः पुरुषाणां द्वयचालकनौकास्पर्धायां कांस्यपदकं प्राप्तवान्।
सम्मानसमारोहे साहिलस्य प्रशिक्षकः हरेशकुमारः, कीर्तेः प्रशिक्षकः उधमसिंहः तथा सतनामस्य प्रशिक्षकः अर्जुनपुरस्कारविजेता इन्दरपालसिंहः अपि उपस्थिताः आसन्। हरेशकुमारः साई-संस्थायाः कोलकातास्थिते राष्ट्रियश्रेष्ठताकेन्द्रे साहिलं प्रशिक्षणं ददाति। उधमसिंहः हजारीबागस्थिते साई-प्रशिक्षणकेन्द्रे कीर्तिं प्रशिक्षयति। इन्दरपालसिंहः जगतपुरस्थिते साई-केन्द्रे नौकायानक्रीडकाणां मार्गदर्शनं करोति।
साहिलः प्रशिक्षकाणां साई-संस्थायाश्च योगदानस्य प्रशंसाम् अकरोत्
साहिलजाधवः स्वसफलतायाः श्रेयः प्रशिक्षकाणां मार्गदर्शनाय साई-संस्थया प्रदत्तसहयोगाय च अददात्। सः अवदत् यत् प्रशिक्षकाणाम् उपदेशेन निरन्तराभ्यासेन च सः अस्मिन् स्थाने प्राप्तुं समर्थः अभवत्। सः विशेषतः अवदत् यत् महतीं उपलब्धिं प्राप्तवन्तोऽपि विनम्रतया स्थातुं परिश्रमं च निरन्तरं कर्तुम् आवश्यकम्।
सतनामसिंहः द्वयचालकनौकास्पर्धायां कांस्यपदकप्राप्तेः यात्रां वर्णयन् अवदत् यत् प्रारम्भे सः पुरुषाणां चतुश्चालकनौकास्पर्धायां पदकं प्राप्तुं विश्वस्तः आसीत्, किन्तु अन्तिमसमये तस्मै द्वयचालकनौकास्पर्धायां भागं ग्रहीतुं कथितम्। अस्मिन् परिवर्तने सः प्रारम्भे पूर्णतया आश्वस्तः न आसीत्, तथापि स्वस्य श्रेष्ठतमं प्रदर्शनं कर्तुं सङ्कल्पम् अकरोत्।
सतनामः अवदत् यत् अस्यां स्पर्धायां भारतदेशेन पूर्वम् एशियाईक्रीडासु कदापि पदकं न प्राप्तम् आसीत्। स्वसहक्रीडकस्य सलमानखानस्य सहायतया पदकं प्राप्य तौ एताम् मानसिकबाधाम् अपाकुरुताम्। तस्य मतेन, अनेन भविष्ये अस्यां स्पर्धायां भारतस्य कृते अधिकानि पदकानि प्राप्तुं सम्भावनाः वर्धिष्यन्ते।
साई-संस्थया क्रीडकाणां प्रशिक्षकाणां च प्रशंसा कृता
साई-राष्ट्रियश्रेष्ठताकेन्द्रस्य क्षेत्रीय-निदेशकः सिबानन्दमिश्रः क्रीडकान् तेषां प्रशिक्षकान् च अभिनन्दयन् अवदत् यत् एशियाईक्रीडासु तेषाम् उपलब्धयः देशस्य गौरवस्य विषयः सन्ति। एतेषु प्रदर्शनेषु क्रीडकानां समर्पणं, धैर्यं प्रतिस्पर्धाभावना च प्रतिबिम्बिता भवति इति सः अवदत्। साई-संस्थया क्रीडकानां तेषां सहयोगिदलानां च प्रयासानां प्रशंसा कृता तथा भविष्याय शुभकामनाः प्रदत्ताः।
साहिलस्य उपलब्धिभिः सह २०२८ तमे वर्षे लॉस एञ्जिलिस्-नगरे आयोज्यमानानाम् ओलम्पिकक्रीडानां सज्जतायामपि भारतस्य महत्त्वपूर्णा प्रगतिः अभवत्। सः मिश्रितसंयुक्तधनुर्विद्यास्पर्धायां भारताय कोटास्थानं प्राप्तवान्। समारोहे क्रीडकानाम् उपलब्धयः भारतीयक्रीडाक्षेत्रे वर्धमानायाः प्रतिस्पर्धाक्षमतायाः प्रशिक्ष-काणां योगदानस्य च उदाहरणरूपेण वर्णिताः।
Hindusthan Samachar / Divya Ranjan