उत्तरप्रदेश-भाजपा-पक्षस्य सह-प्रभारिणा प्रदीपवर्मणा बलिया-जनपदे कृता सङ्घटनात्मिका गोष्ठी, धरातलीय-सत्यता परीक्षिता
बलिया, २६ अक्टूबरमासः हि.स.)। भारतीयजनतापक्षस्य प्रदेश-सह-प्रभारी राज्यसभासदस्यः प्रदीपवर्मा सोमवासरे बलिया-नगरे जनपदकार्यालये पक्षस्य पदाधिकारिभिः सह उपवेशनं कृत्वा सङ्घटनात्मक-प्रवृत्तीनां समीक्षां विहितवान्, आगमिनां निर्वाचनानां व्यूहरचनां चाधिक
सह प्रभारी प्रदीप वर्मा


बलिया, २६ अक्टूबरमासः हि.स.)। भारतीयजनतापक्षस्य प्रदेश-सह-प्रभारी राज्यसभासदस्यः प्रदीपवर्मा सोमवासरे बलिया-नगरे जनपदकार्यालये पक्षस्य पदाधिकारिभिः सह उपवेशनं कृत्वा सङ्घटनात्मक-प्रवृत्तीनां समीक्षां विहितवान्, आगमिनां निर्वाचनानां व्यूहरचनां चाधिकृत्य चर्चां कृतवान्। अस्मिन् समये जनपदस्य वरिष्ठनेतृभिः, मण्डलाधिकारिभिः, मण्डलप्रमुखैश्च सह पृथक्-पृथक् उपवेशनानि आयोजितानि।

​उपवेशने सङ्घटनं ‘बूथ’-स्तरं यावत् सुदृढं कर्तुं, कार्यकर्त्याणां सक्रियतां वर्धयितुं, परस्परं समन्वयस्य संस्थापनाय, आगमिषु निर्वाचनेषु पक्षस्य सिद्धताः प्रभावतीः विधातुं च विचार-विमर्शः जातः। प्रदेश-सह-प्रभारी अधिकारिभ्यः सङ्घटनस्य धरातलस्थितेः सूचनां गृहीतवान्, निर्वाचन-रणनीतिं चाधिकृत्य विचारान् विनिमयितवान्। एतेन सहैव सामाजिक-माध्यमानां (सोशल मीडिया) सूचना-प्रौद्योगिकी-प्रकोष्ठस्य (आईटी सेल) भूमिकां, पक्षस्य नीतीः, केन्द्र-प्रदेश-सर्वकारयोः जनकल्याणकारिणीः योजनाः जनसामान्यं यावत् प्रापयितुं, सङ्घटनात्मक-कार्याणि च तीव्रतरं कर्तुं सदृशेषु विषयेष्वपि विमर्शः अभवत्।

​उपवेशने २०२२ तथा २०२४ तमयोः वर्षयोः निर्वाचनेषु पक्षाभिवृद्धये कार्यं कृतवतां पदाधिकारिणां कार्यकर्त्याणां च योगदानं भाविनीः राजनीतिक-चुनौतीश्च (आह्वानानि च) मनसि निधाय सङ्घटनस्य सिद्धतासु अपि मन्थनं कृतम्। भाजपा-प्रदेश-सह-प्रभारिणः प्रदीपवर्मणः बलिया-प्रवासः आगमि-निर्वाचनानां दृष्ट्या सङ्घटनात्मक-दृढीकरणाय, कार्यकर्तृणां मध्ये समन्वयाय, निर्वाचन-सन्नद्धतां च प्रखरां विधातुं महत्त्वपूर्णः मन्यते।

​अस्यां गोष्ठ्यां प्रदेशसर्वकारस्य मन्त्री दयाशङ्करसिंहः, दानिश आजाद अन्सारी, भूतपूर्वमन्त्री उपेन्द्रतिवारी, आनन्दस्वरूपशुक्लः, अरजीतसिंहः, प्रेमचन्दमिश्रः, भाजपा-जनपदाध्यक्षः सञ्जयमिश्रश्च सहिताः जनपदस्य सर्वे पदाधिकारिणः मण्डलाध्यक्षाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani