श्रीराम-निषादराजस्य मैत्र्याः सामाजिक-समरसतायाश्च केन्द्रं भविष्यति शृङ्गवेरपुरधाम - स्वामी चिदानन्दसरस्वती
परमार्थनिकेतनस्य प्रयासेन धाम्नः पुनरुत्थानाय सांस्कृतिक-दायस्य (विरासतः) संवर्धनाय च सङ्कल्पः प्रयागराजः, २६ अक्टूबरमासः (हि.स.)। शृङ्गवेरपुरधाम्नः पुनरुत्थानं केवलम् एकस्य तीर्थस्थलस्य पुनर्निर्माणं नास्ति, अपि तु भगवतः श्रीरामस्य निषादराजस्य च
श्रृंगवेरपुर में आयोजित कार्यक्रम का छाया चित्र


श्रृंगवेरपुर में आयोजित कार्यक्रम का छाया चित्र


परमार्थनिकेतनस्य प्रयासेन धाम्नः पुनरुत्थानाय सांस्कृतिक-दायस्य (विरासतः) संवर्धनाय च सङ्कल्पः

प्रयागराजः, २६ अक्टूबरमासः (हि.स.)। शृङ्गवेरपुरधाम्नः पुनरुत्थानं केवलम् एकस्य तीर्थस्थलस्य पुनर्निर्माणं नास्ति, अपि तु भगवतः श्रीरामस्य निषादराजस्य च मैत्र्यां निगूढस्य प्रेम्णः, समानतायाः, सेवायाः, सामाजिक-समरसतायाश्च सन्देशं प्रतिजनं प्रापयितुं प्रयासः वर्तते। अस्य पावनधाम्नः ऐतिहासिकीम् आध्यात्मिकीं च परम्परां संरक्ष्य एतत् सांस्कृतिक-चेतनायाः प्रमुखकेन्द्ररूपेण विकासयितुम् आवश्यकता वर्तते। एतानि वचनानि परमार्थनिकेतनस्य पीठाधीश्वरेण स्वामिना चिदानन्दसरस्वती-महोदयेन सोमवासरे शृङ्गवेरपुरधाम्नः भ्रमणकाले उक्तानि।

​स्वामी चिदानन्दसरस्वती शृङ्गवेरपुरधाम प्राप्य अत्र स्थितेषु शृङ्गिऋषि-माताशान्तादेवी-शीतलामाता-मन्दिरेषु पूजार्चनम् अकरोत्। सः धाम्नः अवलोकनं कृत्वा गङ्गामातुः तटे दिव्यां गङ्गारार्तिक्यां विश्वकल्याणाय, जनकल्याणाय, मानवतायाः सुखसमृद्धये च प्रार्थनां कृतवान्। अस्मिन् अवसरे सः धाम्नः ऐतिहासिक्यै, धार्मिक्यै, सांस्कृतिक्यै च महत्तायै नूतनाम् अभिज्ञां प्रदातुं बलं दत्तवान्।

​श्रीरामस्य निषादराजस्य च मैत्री ददाति समानतायाः सन्देशम्

​स्वामी चिदानन्दसरस्वती अवदत् यत् शृङ्गवेरपुरं सा पावनभूमिः अस्ति, यत्र वनवासकाले भगवतः श्रीरामस्य निषादराजस्य च मेलनम् अभवत्। तयोः मैत्री भारतीयसंस्कृतौ प्रेम्णः, विश्वासस्य, निष्ठायाः, आत्मीयतायाश्च अनुपमम् उदाहरणम् अस्ति। एषः प्रसङ्गः शिक्षयति यत् सत्या महत्ता पदे, प्रतिष्ठायां, सामाजिक-स्थितौ वा न भवति, अपि तु जनस्य हृदयस्य पवित्रतायां तस्य समर्पणे च वर्तते।

​सः अकथयत् यत् शृङ्गवेरपुरधाम्नः परम्परा आगमिष्यन्तीनां पीढीनां कृते भारतीयसंस्कृत्या मानवीयमूल्यैश्च सह संयोजनाय महत्त्वपूर्णं माध्यमम् अस्ति। अत्रत्यानां परम्पराणां धार्मिकस्थलानां च संरक्षणं समाजे सद्भावं समरसतां च सुदृढं विधातुं सहायकं भविष्यति।

​परमार्थनिकेतनः करोति धाम्नः पुनरुत्थानस्य प्रयासम्

​परमार्थनिकेतनस्य पक्षतः शृङ्गवेरपुरधाम्नः पुनर्निर्माणाय सांस्कृतिक-वैभवस्य पुनः प्रतिष्ठापनाय च प्रयासः क्रियते। अस्य उद्देश्यं धाम्नः ऐतिहासिकीम् आध्यात्मिकीं च अभिज्ञां सुदृढां विधातुं तथा च इदं प्रमुख-धार्मिक-सांस्कृतिक-केन्द्ररूपेण विकासयितुं वर्तते।

​स्वामी चिदानन्दसरस्वती प्रयागराजे ‘परमार्थ त्रिवेणी पुष्प’ इत्यस्य माध्यमेन आध्यात्मिक-चेतनायाः सांस्कृतिक-परम्पराणां च प्रवर्धनप्रयासानाम् उल्लेखं कुर्वन् अवदत् यत् एवमेव शृङ्गवेरपुरधाम्नः दायस्यापि व्यापिकाम् अभिज्ञां कारयितुं शक्यते। एतादृशैः प्रयासैः श्रद्धायाः, परम्परायाः, सांस्कृतिक-स्मृतीनां च संरक्षणेन सह विकासाय अपि गतिः लप्स्यते।

​शृङ्गिऋषिणा माताशान्तया चापि सम्बद्धा अस्ति धाम्नः अभिज्ञा

​गङ्गातटे स्थितं शृङ्गवेरपुरधाम रामायणकालीन-धार्मिक-सांस्कृतिक-महत्त्वस्य प्रमुखं स्थलं वर्तते। धार्मिकमान्यतानुसारं वनगमनकाले भगवान् श्रीरामः, माता सीता, लक्ष्मणश्च अत्र प्राप्तवन्तः आसन्। निषादराजेन तेषाम् आत्मीयं स्वागतं कृतम् आसीत्। अत्र स्थिते निषादराज-उद्याने भगवतः श्रीरामस्य निषादराजस्य च विशाला प्रतिमा तयोः मैत्र्याः स्मृतिं जीवन्तीं करोति।

​अस्य धाम्नः अभिज्ञा शृङ्गिऋषिणा माताशान्तादेव्या च सम्बद्धाभिः परम्पराभिः अपि वर्तते। धार्मिकमान्यतानुसारं शृङ्गिऋषिणा राज्ञः दशरथस्य पुत्रकामेष्टि-यज्ञे महत्त्वपूर्णा भूमिका निर्व्यूढा आसीत्। एषः प्रसङ्गः भगवता श्रीरामेण सहितानां चतुर्णां राजकुमाराणां जन्मना सह सम्बद्धः अस्ति।

​स्वामी चिदानन्दसरस्वती शृङ्गवेरपुरधाम आध्यात्मिक-सांस्कृतिक-चेतनायाः प्रमुखकेन्द्ररूपेण विकासयितुं सङ्कल्पनाम् अग्रे नेतुं बलं प्रादात्, येन भगवतः श्रीरामस्य निषादराजस्य च मैत्र्याः तथा च सनातनसंस्कृतेः सन्देशः देश-विदेशान् यावत् प्रसरेत्।

Hindusthan Samachar / Dheeraj Maithani