(संशोधितम्) भाजपायुवमोर्चायाः उपवेशने एसआईआरविषये विपक्षस्य आरोपाणां प्रत्युत्तरदानाय रणनीतिः निर्मातुं शक्यते।
(अवधेयम्- हेमंत जोशिनः स्थाने हेमांग जोशी कृतः) नव दिल्ली, 27 अक्टूबरमासः (हि.स.)। मतदातृसूच्याः विशेषगहनपुनरीक्षणं प्रति विपक्षस्य सत्तापक्षस्य च मध्ये प्रचलितायाः राजनीतिकचर्चायाः मध्ये भारतीयजनतायुवमोर्चा इत्येतद्दलं अक्टूबरमासस्य २९ दिनाङ्
हेमांग जोशी (फाइल फोट)


(अवधेयम्- हेमंत जोशिनः स्थाने हेमांग जोशी कृतः)

नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।

मतदातृसूच्याः विशेषगहनपुनरीक्षणं प्रति विपक्षस्य सत्तापक्षस्य च मध्ये प्रचलितायाः राजनीतिकचर्चायाः मध्ये भारतीयजनतायुवमोर्चा इत्येतद्दलं अक्टूबरमासस्य २९ दिनाङ्के गुरुवासरे स्वकीयायाः राष्ट्रियकार्यकारिण्याः उपवेशनम् आयोजयितुं गच्छति। नवीनकार्यकारिण्याः गठनानन्तरम् इदं प्रथमम् उपवेशनं भविष्यति। इदं दिल्लीनगरे स्थिते भाजपायाः विस्तारकार्यालये आयोजयिष्यते।

उपवेशने एसआईआरविषये विपक्षस्य आरोपाणां प्रत्युत्तरप्रदानम्, आगामीविधानसभानिर्वाचनानां कृते युवकार्यकर्तॄणां भूमिकायाः निर्धारणम्, सङ्गठनस्य अधिकसक्रियकरणम् इत्यादयः विषयाः चर्चायाः सम्भावितविषयाः सन्ति। दलस्य सूत्राणामनुसारम् उपवेशने भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः, राष्ट्रियमहासचिवः हरीशद्विवेदी तथा भाजयुमो इत्यस्य राष्ट्रियाध्यक्षः डॉ. हेमाङ्गजोशी च सहभागितां करिष्यन्ति।

नवीनकार्यदलस्य सङ्गठनात्मकप्राथमिकतानां निर्धारणस्य आगामीराजनीतिककार्यक्रमाणां रणनीतेः निर्माणस्य च दृष्ट्या इदम् उपवेशनं महत्त्वपूर्णं मन्यते।

उपवेशनस्य प्रमुखेषु सम्भावितकार्यसूचीविषयेषु एसआईआरविषये विपक्षस्य आरोपाणां प्रत्युत्तरप्रदानाय भाजयुमोद्वारा जनसम्पर्काभियानस्य सञ्चालनम् अपि अन्तर्भवति। सूत्राणामनुसारं भाजयुमोकार्यकर्तारः जनानां मध्ये गत्वा भाजपायाः पक्षं प्रस्तुतं कर्तुं शक्नुवन्ति तथा एसआईआरसम्बद्धविषयेषु जनजागरणाभियानं च सञ्चालयितुं शक्नुवन्ति। एसआईआरविषये विपक्षीदलानां आपत्तीनां मध्ये भाजयुमो अस्मिन् विषये स्वकीयां रणनीतिं निर्मातुं शक्नोति। तथापि अभियानस्य स्वरूपं, कार्यक्रमाः, तेषां कार्यान्वयनप्रक्रिया च उपवेशने सम्पन्नायाः चर्चायाः अनन्तरमेव स्पष्टा भविष्यति।

उपवेशनस्य द्वितीयः प्रमुखः सम्भावितकार्यसूचीविषयः आगामीविधानसभानिर्वाचनानि यासु राज्येषु भविष्यन्ति, तत्र सङ्गठनस्य भूमिकायाः निर्धारणम् अस्ति। उपवेशने सङ्गठनस्य आन्तरिककार्यप्रणाल्याः समीक्षायाः तथा युवमोर्चं अधिकं सक्रियं गतिशीलं च कर्तुं उपायानां विषये अपि चर्चा भवितुं सम्भावना अस्ति।

राजनीतिकदलेषु युवमतदातॄणां विषयाः, रोजगारः, शिक्षा, कौशलविकासः, अङ्कीयमाध्यमेषु संवादश्च महत्त्वपूर्णविषयाः सन्ति। अतः भाजयुमो इत्यस्य आगामीरणनीत्यां युववर्गेण सह सम्पर्कवर्धनस्य सङ्गठनात्मकक्रियाकलापानां प्रभावकारितावर्धनस्य च विषयेषु अपि ध्यानं दातुं शक्यते।

--------------

हिन्दुस्थान समाचार / Dheeraj Maithani