सिंहस्थाय दीर्घकालिकविकासे प्रदेशसर्वकारस्य विशेषध्यानम् - मुख्यमन्त्री डॉ. यादवः
महर्षिवाल्मीकिजयन्त्याः अवसरे उज्जयिनीनगरे ५३९ कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनम् भोपालम्, २६ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् राज्यसर्वकारः सिंहस्थस्य २०२८ तमवर्षस्य भव्यायोजनायै दीर्घकालिकविकासे विश
उज्जैन में विकास कार्यों का भूमिपूजन करते हुए मुख्यमंत्री


- महर्षिवाल्मीकिजयन्त्याः अवसरे उज्जयिनीनगरे ५३९ कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनम्

भोपालम्, २६ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् राज्यसर्वकारः सिंहस्थस्य २०२८ तमवर्षस्य भव्यायोजनायै दीर्घकालिकविकासे विशेषं बलं ददाति। उज्जयिनीनगरस्य प्रत्येकस्मिन् काले युगे च विशेषं महत्त्वं वर्तते। अत्र आगच्छतां तीर्थयात्रिणां सुविधायै विकासकार्याणां क्रमः निरन्तरं प्रचलति।

मुख्यमन्त्री डॉ. यादवः सोमवासरे महर्षिवाल्मीकिजयन्त्याः अवसरे उज्जयिनीनगरे विकासकार्याणां भूमि-पूजनकार्यक्रमं सम्बोधयति स्म। अस्मिन् अवसरे तेन ५३९ कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनं कृतम्। एतेषु उज्जयिन्याः अमृतद्वारं पाञ्चजन्यद्वारं च अपि अन्तर्भवतः। मुख्यमन्त्री डॉ. यादवः अवदत् यत् पाञ्चजन्यशङ्खः भगवान् श्रीकृष्णस्य शङ्खः अस्ति। सान्दीपिन्याश्रमस्य मङ्गलनाथस्य च अनन्तरम् अद्य सिद्धवटे अपि निर्माणकार्यस्य भूमिपूजनं कृतम्। अनेन श्रद्धालूनां सुविधायै आपणानां च व्यवस्थाः क्रियन्ते।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः सर्वेषां वर्गाणां कल्याणाय कार्यं करोति। नगरस्य विकासाय आपणानि दूरीक्रियमाणानि सन्ति, तेन प्रभावितेभ्यः जनेभ्यः वैकल्पिकस्थानं प्रदास्यते। एवमेव यदि कस्यचित् गृहं ध्वस्तं जातं तर्हि तस्मै शासकीययोजनानाम् अन्तर्गतं आवासः उपलब्धः कारयिष्यते। कृषककल्याणवर्षे राज्यसर्वकारेण ग्रामीणक्षेत्रेषु पुरातनभूमिनां सम्पत्तीनां च निःशुल्कपञ्जीकरणं कारयितुं निर्णयः कृतः। स्वामित्वयोजनायाः अन्तर्गतं जनाः स्वसम्पत्तेः स्थाय्यधिकारं प्राप्स्यन्ति। राज्यसर्वकारः सर्वाणि कार्याणि पूर्णपारदर्शितया कर्तुं प्रतिबद्धः अस्ति। प्रत्येकं शुक्रवासरे जनविश्वासाभियानस्य अन्तर्गतं सर्वकारीयाधिकारिणः क्षेत्रेषु गत्वा लाभार्थिभ्यः योजनानां लाभं प्रददति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् उज्जयिन्यां स्थितम् वाल्मीक्याश्रमः देशस्य सर्वेषां श्रद्धालूनाम् आस्थायाः केन्द्रम् अस्ति। प्रशासनसम्बद्धाः अधिकारिणः उज्जयिन्याः समीपस्थानां ग्रामीणक्षेत्राणां गृहवाससुविधाः विकसितुं सम्भावनानाम् अध्ययनं कुर्वन्तु, येन समाजः सर्वकारश्च भव्यस्य दिव्यस्य च सिंहस्थस्य आयोजनाय मिलित्वा कार्यं कर्तुं शक्नुयाताम्। सिंहस्थे कस्यापि जनस्य कष्टं न भवेत्। सर्वकारः पर्यटननिगमस्य प्रशासनस्य च माध्यमेन जनान् रोजगारावसरेभ्यः संयोजयितुं प्रयासान् कुर्वन् अस्ति।

मुख्यमन्त्रिणः डॉ. यादवस्य प्रमुखाः घोषणाः

सर्वसुविधायुक्ता नूतना धर्मशाला निर्मीयते।

धारणभित्तिः (रिटेनिंग वॉल) अन्यानि च विकासकार्याणि पूर्णानि करिष्यन्ते।

वाल्मीकिधाम्नः समीपस्थस्य आरक्षक-स्थानकस्य नाम वाल्मीकिधाम-आरक्षकस्थानकम् इति करिष्यते।

कार्यक्रमे उज्जयिनीजनपदस्य प्रभारी-मन्त्री गौतमटेटवालः अवदत् यत् सिंहस्थस्य २०२८ तमवर्षस्य भव्या-योजनायै उज्जयिनीनगरे त्रिंशन्मासेभ्यः पूर्वमेव सज्जता आरब्धा अस्ति। अत्रतः चतुर्षु दिक्षु शतं किलोमीटरपर्यन्तं मार्गाः निर्मीयन्ते। तीर्थस्थलानि नूतनस्वरूपेण विकसितानि क्रियन्ते।

पूर्वकेन्द्रीयमन्त्री डॉ. सत्यनारायणजटियाः अवदत् यत् सिंहस्थस्य २०२८ तमवर्षस्य सज्जतायै उज्जयिनीनगरे प्रचलित-विकासकार्याणां प्रवाहः मातुः बगलामुख्याः मन्दिरपर्यन्तमपि विस्तृतः अस्ति। महर्षिवाल्मीकिः अस्माकं सप्तर्षिषु अन्यतमः आसीत्।

राज्यसभासदस्यः बालयोगी उमेशनाथ-महाराजः अवदत् यत् देशे सर्वत्र महर्षिवाल्मीकिजयन्ती हर्षोल्लासेन आचर्यते। मुख्यमन्त्रिणः डॉ. यादवस्य नेतृत्वे प्रदेशे सामाजिकसमरसतायाः वातावरणं वर्तते। प्रभुश्रीरामस्य प्रदर्शिते मार्गे अग्रे गच्छन् मुख्यमन्त्री डॉ. यादवः सर्वान् वर्गान् सह नीत्वा चलति। उज्जयिनीनगरे सिंहस्थस्य २०२८ तमवर्षस्य भव्यदिव्यायोजनायै सर्वैः मिलित्वा कार्यं करणीयम्। शरद्पूर्णिमायां अमृतवर्षा भवति। सिंहस्थे सन्तानां ज्ञानस्य अमृतवर्षा भविष्यति।

उज्जयिनीविकासप्राधिकरणस्य अध्यक्षः रविसोलङ्की अवदत् यत् मुख्यमन्त्री डॉ. यादवः महर्षिवाल्मीकिजयन्त्याः अवसरे उज्जयिनीनगराय विकासस्य नूतनमुपहारं प्रदत्तवान्। सिंहस्थस्य २०२८ तमवर्षस्य भव्यायोजनायै उज्जयिनीनगरे पञ्च-विंशतिसहस्रकोटिरूप्यकाणां व्ययेन विकासकार्याणि प्रचलन्ति। अस्मिन् प्रकल्पे उज्जयिनीविकासप्राधिकरणस्य महत्त्वपूर्णा भूमिका अस्ति। उज्जयिनीनगरे धार्मिकाः सांस्कृतिकाः प्राचीनाः च धरोहराः संरक्ष्य संवर्ध्यन्ते। अद्य उज्जयिनी-विकासप्राधिकरणस्य ५३९ कोटि-रूप्यकाणां नवीनविकासकार्याणां भूमि-पूजनं सम्पन्नम्। प्राधिकरणं स्वक्षेत्रान्त-र्गतानि सर्वाणि कार्याणि समये पूर्णानि कर्तुं संकल्पबद्धम् अस्ति।

कार्यक्रमे नगरनिगमस्य सभापतिः कलावतीयादवः, सिंहस्थमेला-प्राधिकरणस्य अध्यक्षः जगदीशअग्रवालः, मध्यप्रदेशगृहनिर्माणमण्डलस्य अध्यक्षेण ओमजैनेन सह अनेके जनप्रतिनिधयः स्थानीयजनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan