भारतीय-ओलम्पिक-सङ्घेन डकार-युव-ओलम्पिक-क्रीडाभ्यः घोषितं भारतीय-दलम्
ग्रीष्मकालीन-युव-ओलम्पिकस्य एकादशसु क्रीडासु अवतरिष्यन्ति सप्तदश भारतीयाः क्रीडकाः नवदेहली, २६ अक्टूबरमासः (हि.स.)। भारतीय-ओलम्पिक-सङ्घेन (आईओए) सोमवासरे सेनेगल-देशे समायोज्यमानेषु ‘डकार २०२६’ ग्रीष्मकालीन-युव-ओलम्पिक-क्रीडासु देशस्य प्रतिनिधित
भारतीय ओलंपिक संघ लोगो


- ग्रीष्मकालीन-युव-ओलम्पिकस्य एकादशसु क्रीडासु अवतरिष्यन्ति सप्तदश भारतीयाः क्रीडकाः

नवदेहली, २६ अक्टूबरमासः (हि.स.)। भारतीय-ओलम्पिक-सङ्घेन (आईओए) सोमवासरे सेनेगल-देशे समायोज्यमानेषु ‘डकार २०२६’ ग्रीष्मकालीन-युव-ओलम्पिक-क्रीडासु देशस्य प्रतिनिधित्वं कर्तुं भारतीय-दलस्य घोषणा कृता। भारतस्य पक्षतः एकादशसु (११) क्रीडासु सप्तदश (१७) क्रीडकाः भागं ग्रहीष्यन्ति। युव-क्रीडकानां कृते इदम् अन्ताराष्ट्रिय-स्तरे स्वप्रतिभायाः प्रदर्शनस्य, विश्वस्य विविध-क्रीडकेभ्यः शिक्षार्जनस्य, स्वकीय-क्रीडा-जीवने चाग्रे सरणस्य एकः महत्त्वपूर्णः अवसरः भविष्यति।

​प्रथमतया आफ्रिकी-महाद्वीपे युव-ओलम्पिक-क्रीडानाम् आयोजनम् ३१ अक्टोबर्-तः १३ नवम्बर्-दिनाङ्कं यावत् विधास्यते। अस्यां प्रतियोगितायां २०७ प्रतिनिधि-मण्डलानां प्रायः २,७०० युव-क्रीडकानां पञ्चविंशतिषु (२५) क्रीडासु भागग्रहणस्य सम्भावना वर्तते। युव-ओलम्पिक-क्रीडासु आयोजन-समये सप्तदश-वर्ष-पर्यन्त-वयस्काः (१७ वर्ष-वयस्काः) क्रीडकाः भागं वहन्ति। स्पर्धया सह क्रीडकेभ्यः शिक्षार्जनस्य विविधाः संस्कृतीः अवगमनस्य चाप्यवसरः लभ्यते।

​भारतीय-ओलम्पिक-सङ्घस्य कृते इदम् आयोजनं विश्वस्य राष्ट्रिय-ओलम्पिक-समितिभिः सह सम्पर्क-विस्तारस्य, प्रतिभानाम् अभिज्ञानस्य, क्रीडकानां विकासस्य, तथा च युव-क्रीडाभ्यः शीर्ष-स्तरं यावत् प्राप्तेः मार्गेषु विचाराणाम् आदानप्रदानस्य अपि अवसरः भविष्यति। एताभिः चर्चाभिः भारतस्य क्रीडा-योजनाभ्यः दिशा-प्रदाने साहाय्यं भवितुं शक्नोति। भारतस्य दृष्टिः ‘अहमदाबाद २०३०’ राष्ट्रमण्डल-क्रीडासु तथा च ‘ब्रिस्बेन् २०३२’ ओलम्पिक-क्रीडास्वपि वर्तते। एतेन सहैव अग्रिम-पीढ्याः क्रीडकानां कृते अधिक-सुदृढानां चिरस्थायिनां चावसराणां निर्माणाय बलं दीयते।

​आफ्रिकी-देशैः सह क्रीडा-सहयोग-सहमतेः सज्जीकरणम्

डकार-क्रीडाणां समये भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षायाः डॉ. पी.टी. उषा-महोदयायाः नामीबिया-मॉरीशस्-सहितानाम् अनेकेषाम् आफ्रिकी-देशानां राष्ट्रिय-ओलम्पिक-समितिभिः सह क्रीडा-सहयोग-तथा-आदानप्रदान-सम्बद्धेषु सहमति-पत्रेषु (एमओयू) हस्ताक्षर-करणस्य अपि आशा वर्तते।

​एताभिः सहमतिभिः सम्बद्ध-ओलम्पिक-सङ्घटनानां मध्ये सहयोगस्य संरचना सज्जा भविष्यति। अस्यान्तर्गतं क्रीडकानां प्रशिक्षकाणां चादानप्रदानस्य, प्राविधिक-नैपुण्यस्य अंशभाजनस्य (साझाकरणस्य), प्रशिक्षण-प्रक्रियासु सहयोगस्य, परस्पर-हितस्य चान्येषु क्षेत्रेषु कार्यकरणस्य सम्भावनाः अन्वेषिष्यन्ते। एताभ्यः सहभागिताभ्यः लब्धस्य अनुभवस्य आधारेण भारतीय-ओलम्पिक-सङ्घः ताभिः अन्याभिः राष्ट्रिय-ओलम्पिक-समितिभिरपि सह एतादृश-सहमतीनां सम्भावनाः अन्वेष्टुं शक्नोति, याः भारतेन सह क्रीडा-सम्बन्धान् सुदृढान् कर्तुम् इच्छन्ति।

​भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षा डॉ. पी.टी. उषा अवदत्, “डकार २०२६ अस्माकं युव-क्रीडकानां कृते एकं महत्त्वपूर्णं सोपानम् अस्ति। ते भारतीय-क्रीडानां भविष्यं सन्ति, एतेषु केचन क्रीडकाः ब्रिस्बेन् २०३२ तथा तदनन्तरं भविष्यमाणासु ओलम्पिक-क्रीडासु भारतस्य प्रतिनिधित्वं कर्तारः जेतारः (चैम्पियन्) भवितुं शक्नुवन्ति। अहं समग्राय भारतीय-दलाय साफल्यस्य शुभाशयान् समर्पयामि, मयि च दृढः विश्वासः अस्ति यत् ते देशं गौरवान्वितं विधास्यन्ति।”

​तया ‘डकार २०२६’ इत्यस्य आयोजन-समितये सेनेगल-देशस्य ओलम्पिक-समितये चापि शुभाशयाः दत्ताः। सा अकथयत् यत् आफ्रिकी-महाद्वीपे प्रथमस्य ओलम्पिक-आयोजनस्य आतिथ्य-स्वीकरणम् ओलम्पिक-आन्दोलनस्य कृते ऐतिहासिकः क्षणः वर्तते। भारतम् इमं महत्त्वपूर्णम् अवसरं सेनेगल-देशेन सह तथा च व्यापकेन ओलम्पिक-समुदायेन सह समाभाजितुम् (साझा कर्तुम्) उत्सुकम् अस्ति।

​सार्थक-आर्यस्य दृष्टिः २०३० तथा २०३२ इत्यनयोः उपरि

डकार-नगरं गन्तुं सज्जीभवत्सु क्रीडकेषु भारतस्य उदयमानः ‘टेबल्-टेनिस’-क्रीडकः सार्थक-आर्यः अपि सम्मिलितः अस्ति। सः स्वक्रीडा-जीवनस्य अग्रिमानि महत्त्वपूर्णानि सोपानानि अधिकृत्य सोत्साहः वर्तते।

​सार्थक-आर्यः अकथयत्, “युव-ओलम्पिक-क्रीडा मम क्रीडा-यात्रायाम् अग्रेसरणाय एकं महत्त्वपूर्णं पदं भविष्यति। मम स्वप्नः २०३० तमे वर्षे अहमदाबादे भविष्यमाणासु राष्ट्रमण्डल-क्रीडासु, तदनन्तरं च २०३२ तमे वर्षे ब्रिस्बेन्-ओलम्पिक-क्रीडासु भारतस्य प्रतिनिधित्वं करणम् अस्ति। इतः परं, यदि भारतं २०३६ तमे वर्षे ओलम्पिक-क्रीडानाम् आतिथ्यस्य अवसरं प्राप्नोति, तर्हि स्वदेशे क्रीडनं, भारतस्य कृते च ओलम्पिक-पदकस्य विजयाशा मम कृते अत्यन्तं विशिष्टा भविष्यति।”

​भारतीय-ओलम्पिक-सङ्घेन सेनेगल-देशे भारतस्य प्रतिनिधित्वं कर्तृभ्यः सर्वेभ्यः क्रीडकेभ्यः, प्रशिक्षकेभ्यः, सहायक-कर्मचारिभ्यश्च क्रीडाभ्यः शुभाशयाः वितीर्णाः।

---------------

Hindusthan Samachar / Divya Ranjan