विकसितभारत-बिल्डथॉन-प्रतियोगितायै गिनीज्-विश्व-अभिलेखः प्राप्तः, शिक्षामन्त्री श्वः विजेतॄन् सम्मानयिष्यति
नवदिल्ली, २७ अक्टोबरमासः (हि.स.)। देशे विद्यालयीयशिक्षाक्षेत्रे नवाचारस्य विद्यार्थिनां च सृजनात्मकप्रतिभायाः वैश्विकमान्यता प्राप्ता अस्ति। विकसितभारत-बिल्डथॉन-२०२५ इत्यस्य नाम ‘बृहत्तमा नवाचारसमाधान-प्रतियोगिता’ इति रूपेण आधिकारिकतया गिनीज्-विश्व
प्रह्लाद जोशी (फाइल फोटो)


नवदिल्ली, २७ अक्टोबरमासः (हि.स.)। देशे विद्यालयीयशिक्षाक्षेत्रे नवाचारस्य विद्यार्थिनां च सृजनात्मकप्रतिभायाः वैश्विकमान्यता प्राप्ता अस्ति। विकसितभारत-बिल्डथॉन-२०२५ इत्यस्य नाम ‘बृहत्तमा नवाचारसमाधान-प्रतियोगिता’ इति रूपेण आधिकारिकतया गिनीज्-विश्व-अभिलेखे अङ्कितम् अस्ति। अस्यां प्रतियोगितायां देशस्य विभिन्नभागेभ्यः २,८७,९६७ परियोजनाः प्रस्तुताः। अस्याः उपलब्धेः उपलक्ष्ये केन्द्रीयशिक्षामन्त्रालयः बुधवासरे, २८ अक्टोबरमासे, नवदिल्ली इत्यत्र प्रतियोगितायाः समापनसमारोहं पुरस्कार-वितरणसमारोहं च आयोजयिष्यति।

समारोहे केन्द्रीयशिक्षामन्त्री प्रह्लादजोशी राष्ट्रियस्तरे विजेतॄन् विद्यार्थिनः नवाचारकर्तॄंश्च सम्मानयिष्यति। अस्मिन् अवसरे राष्ट्रियस्तरे विजेतॄणां दश दलानां नवाचारकर्तॄणां च अभिनवसमाधानानि प्रतिकृतयश्च प्रदर्शयिष्यन्ते। तत्र गिनीज्-विश्व-अभिलेखस्य आधिकारिकं प्रमाणपत्रम् अपि प्रदर्शयिष्यते।

विकसितभारत-बिल्डथॉन-प्रतियोगितायाः उद्देश्यम् विद्यालयीयविद्यार्थिषु वैज्ञानिक-जिज्ञासायाः, सृजनात्मकचिन्तनस्य, समस्यासमाधानक्षमतायाः, उद्यम-शीलतायाश्च प्रोत्साहनम् अस्ति। अस्याः योजनायाः अन्तर्गतं विद्यार्थिनः केवलं पुस्तकज्ञानपर्यन्तं सीमिताः न भवन्तु, अपितु वास्तविकसमस्यानां समाधानानि अन्वेष्टुं स्वविचारान् उपयोगिनि परियोजनासु परिणमयितुं च प्रेरिताः।

प्रतियोगितायां विचारप्रस्तुतिकरणस्य प्रतिकृतिनिर्माणस्य च उभयोः वर्गयोः देशस्य विभिन्नभागेभ्यः २,८७,९६७ परियोजनाः प्राप्ताः। एतावत्यः परियोजनाः प्रस्तुताः इत्यनेन विद्यालयस्तरे नवाचारस्य प्रति विद्यार्थिनाम् उत्साहः स्पष्टः अभवत्। गिनीज्-विश्व-अभिलेखे अङ्कितेन अस्याः उपलब्धेः भारतीयविद्यार्थिनां सृजनात्मक-क्षमतायाः अन्ताराष्ट्रियमान्यता प्राप्ता।

विकसितभारत-बिल्डथॉन-प्रतियोगिता चतुर्षु मूलभूतेषु स्तम्भेषु केन्द्रिता अस्ति। एते स्तम्भाः आत्मनिर्भरभारतः, स्वदेशी, स्थानीयोत्पादानां प्रोत्साहनम् तथा समृद्धभारतः इति सन्ति। एतेषां विषयाणां माध्यमेन विद्यार्थिनः देशस्य आवश्यकतानुसारं नवीनविचारान् विकसितुं, स्थानीयसमस्यानां समाधानानि अन्वेष्टुं, स्वदेशीयानां उत्पादानां प्रौद्योगिकीनां च प्रोत्साहनाय प्रेरिताः।

अस्याः योजनायाः व्यापकः उद्देशः विद्यार्थिनः कक्षायां शिक्षमाणेभ्यः छात्रेभ्यः अग्रे नीत्वा समस्यासमाधानकर्तॄन्, भाविनः उद्यमिनः, नवाचारकर्तॄंश्च निर्मातुम् अस्ति। तेन सह तेषु एतादृशी क्षमता विकसितुं प्रयत्नः क्रियते, येन ते स्वविचारान् भविष्ये उपयोगिनां प्रौद्योगिकीनाम्, उत्पादानाम्, सेवानां च रूपेण परिणमयितुं शक्नुयुः।

विकसितभारत-बिल्डथॉन-प्रतियोगितायाः आयोजनं शिक्षामन्त्रालयस्य विद्यालयीय-शिक्षा-साक्षरताविभागेन नीति-आयोगस्य अटल-नवाचार-मिशनस्य अखिल-भारतीय-प्राविधिकशिक्षापरिषदः च सहयोगेन कृतम्। एषा योजना देशे विद्यालयस्तरे नवाचारस्य उद्यमशील-तायाश्च वर्धमानं परिवेशं सुदृढं कर्तुं महत्त्वपूर्णं पदम् अस्ति।

प्रतियोगितायाः माध्यमेन विद्यार्थिभ्यः स्वविचारान् प्रस्तुतुं, प्रतिकृतीः निर्मातुं, व्यावहारिकसमाधानानि विकसितुं च अवसरः प्राप्तः। अस्याः उद्देश्यम् एतादृशान् युवजनान् निर्मातुम् अस्ति, ये भविष्ये देशस्य वैज्ञानिकप्रौद्योगिकीय-आर्थिक-प्रगतेः योगदानं कर्तुं शक्नुयुः।

बुधवासरे समारोहे शिक्षामन्त्रालयस्य विद्यालयीयशिक्षा-साक्षरताविभागः ‘उल्लास–नवभारत-साक्षरता-कार्यक्रमस्य’ अन्तर्गतं शिक्षकप्रशिक्षण-संस्थाभ्यः निर्देशान् अपि निर्गमयिष्यति। एतेषां निर्देशानाम् उद्देश्यम् उक्तसंस्थासु कार्यक्रमस्य कार्यान्वयनाय उचितां दिशां प्रदातुम् अस्ति।

अपि च शिक्षामन्त्रालयस्य विद्यालयीय-शिक्षा-साक्षरताविभागस्य उच्चशिक्षा-विभागस्य च पक्षतः विशेषाभियानस्य ६.० इत्यस्य अन्तर्गतं क्रियमाणानि कार्याणि अपि प्रस्तुतानि भविष्यन्ति। एतेषु विद्युत्-इलेक्ट्रॉनिक-अवशिष्टपदार्थानां विषये जागरूकतावर्धनस्य तेषां सङ्ग्रहस्य च प्रयासाः प्रमुखतया प्रदर्शयिष्यन्ते। अस्य उद्देश्यम् पर्यावरणं प्रति उत्तरदायित्वस्य, विद्युत्-इलेक्ट्रॉनिक-अवशिष्टानां समुचितप्रबन्धनस्य च महत्त्वं प्रति-पादयितुम् अस्ति।

समारोहे शिक्षाराज्यमन्त्री जयन्तचौधरी अपि भागं ग्रहीतुं शक्नोति। विद्यालयीय-शिक्षा-साक्षरताविभागस्य सचिवः टी.के. अनिलकुमारः, अपरसचिवः धीरजसाहुः, अखिलभारतीय-प्राविधिक-शिक्षापरिषदः अध्यक्षः प्रो. टी.जी. सीतारामः, शिक्षा-मन्त्रालयस्य वरिष्ठाधिकारिणश्च अस्मिन् समारोहे उपस्थिताः भविष्यन्ति।

कार्यक्रमे विभिन्नराज्यानां केन्द्रशासित-प्रदेशानां च शिक्षाविभागानां प्रतिनिधयः, स्वायत्तसंस्थानां प्रमुखाः, सहयोगि-संस्थानानां प्रतिनिधयश्च भागं ग्रहीष्यन्ति।

विकसितभारत-बिल्डथॉन-प्रतियोगितायाः उपलब्धिः विद्यालयीयविद्यार्थिषु नवाचार-संस्कृतेः विकासस्य, भविष्यस्य आव्हानानां सामना कर्तुं तेषां सज्जीकरणस्य च प्रयासान् रेखाङ्कयति। प्रतियोगितायाः माध्यमेन विद्यार्थिनः स्वविचारान् व्यावहारिकसमाधानेषु परिणमयितुं, उद्यमशीलतायाः दिशि अग्रे गन्तुं च प्रोत्साहिताः भवन्ति।

गिनीज्-विश्व-अभिलेखे स्थानप्राप्तिः राष्ट्रियस्तरे विजेतॄणां दश दलानां सम्माननं च अस्याः योजनायाः वैश्विक-परिचयं वर्धयिष्यति। एषः कार्यक्रमः देशे विद्यालयीयशिक्षायाः, वैज्ञानिकदृष्टि-कोणस्य, आधारस्तरे नवाचारस्य च प्रोत्साहनस्य दिशि महत्त्वपूर्णं सोपानं सिद्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan