Enter your Email Address to subscribe to our newsletters

कानपुरम्, २८ अक्टोबर (हि.स.)। भारतीयभाषाणां साहित्यपरम्पराणां च प्रोत्साहनाय आईआईटी-कानपुरे अक्टोबरमासस्य २९ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं साहित्य-महोत्सवः ‘अक्षरः’ आयोजयिष्यते। त्रिदिवसीये अस्मिन् महोत्सवे प्रसिद्धकवीनां, अभिनेतॄणां, सङ्गीतकाराणां कलाकाराणां च प्रस्तुतिभिः सह साहित्यं, भाषा, प्रौद्योगिकी च सम्बद्धेषु विषयेषु चर्चाः अपि भविष्यन्ति। महोत्सवस्य आयोजकैः निर्गतायां विज्ञप्तौ एषा सूचना प्रदत्ता।
भारतीयप्रौद्योगिकीसंस्थाने कानपुरे ‘अक्षर’-महोत्सवस्य पञ्चमं संस्करणम् आयोजयिष्यते। हिन्दीभाषायाः अन्यासां भारतीयभाषाणां च प्रोत्साहनाय स्थापितेन शिवानीकेन्द्रेण राजभाषाप्रकोष्ठेन च अस्य महोत्सवस्य आयोजनं क्रियते। भारतीयभाषाणां संवर्धनं देशस्य विविधाः सांस्कृतिकपरम्पराः च जनैः सह सम्बद्धाः करणम् अस्य महोत्सवस्य उद्देश्यम् अस्ति।
२०२२ तमे वर्षे आरब्धस्य ‘अक्षर’-महोत्सवस्य पूर्वेषु चतुर्षु संस्करणेषु ४०० अधिकाः कलाकाराः भागं गृहीतवन्तः। तेषु कवयः, लेखकाः, अभिनेतारः, सङ्गीत-काराश्च अन्तर्भुक्ताः आसन्। पूर्वेषु आयोजनेषु डॉ. पुष्पेशपन्तः, डॉ. मृणालपाण्डे, आर. बाल्की, पद्मश्री डॉ. सोमाघोषः, वसीमबरेलवी, मेघनामलिकः, मोहम्मदवकीलः इत्यादयः प्रसिद्धाः व्यक्तयः भागं गृहीतवन्तः। महोत्सवस्य अन्तर्गतं पुस्तकप्रदर्शन्याः आयोजनमपि भविष्यति, यस्यां शास्त्रीयसाहित्यस्य समकालीनसाहित्यस्य च पुस्तकानि प्रदर्शयिष्यन्ते।
निराला इत्यस्य साहित्यिकयात्रया भविष्यति शुभारम्भः
महोत्सवस्य प्रथमदिने, अक्टोबरमासस्य २९ दिनाङ्के, कविः नाटककारश्च व्योमेशशुक्लः सूर्यकान्तत्रिपाठिनः ‘निराल’-स्य साहित्यिकयोगदानम् आधृत्य ‘निरालस्य विलक्षणाः वार्ताः’ इति शीर्षकेण प्रस्तुतीं दास्यति। बालानां प्रौढानां च कृते मुक्तमञ्चे स्वप्रतिभाप्रदर्शनस्य सत्राणि अपि भविष्यन्ति। सायंकाले पद्मश्री कालूरामबामनियामहोदयः तस्य च दलं कबीरसङ्गीतं प्रस्तोष्यति। ततः निजामी-बन्धवः कव्वालीं प्रस्तोष्यन्ति।
अक्टोबरमासस्य २९ तथा ३० दिनाङ्कयोः कार्यक्रमाः आईआईटी-कानपुरस्य आउटरीच्-सभागारे अपराह्णे ३ वादनात् रात्रौ ९ वादनपर्यन्तं भविष्यन्ति।
अभिनयस्य, सङ्गीतस्य, रङ्गमञ्चस्य च प्रस्तुतयः
अक्टोबरमासस्य ३० दिनाङ्के ‘चरित्रम्—अभिनेतुः अन्तर्जगत्’ इति विषये परिचर्चा भविष्यति। अस्यां परिचर्चायाम् अभिनेतारः अतुलश्रीवास्तवः, दर्शनजरिवालः, सुचित्रापिल्लै, डिम्पीमिश्रः च भागं ग्रहीष्यन्ति। रेडियोमिर्ची-संस्थायाः आर.जे. काजलः सत्रस्य सञ्चालनं करिष्यति।
गीतकारः समीर अञ्जानः विविधभारत्याः कलाकारस्य यूनुसखानस्य सह स्वसङ्गीतस्य गीतलेखनस्य च यात्राविषये संवादं करिष्यति। अपि च प्रो. सङ्गीता-श्रीवास्तवस्य नेतृत्वे कथकनृत्यप्रस्तुतिः, रूपवाणी-रङ्गमञ्चसमूहस्य ‘चित्रकूट’ इति नाटकं, गजलसन्ध्या, सूफीसङ्गीत-समूहस्य रागधानी इत्यस्य प्रस्तुतय: च भविष्यन्ति।
महोत्सवस्य अन्तिमदिने, अक्टोबरमासस्य ३१ दिनाङ्के, साहित्यस्य प्रौद्योगिक्याः च सम्बन्धविषये परिचर्चाः भविष्यन्ति। तासु ‘कृत्रिमबुद्धिमत्तायाः युगे साहित्यरचना’ तथा ‘प्रौद्योगिक्याः विकासे भाषायाः योगदानम्’ इति विषयौ अन्तर्भविष्यतः। सामाजिकयथार्थस्य प्रस्तुतौ हास्यस्य भूमिकायाः विषये अपि चर्चा भविष्यति।
समापनावसरे महाकविसम्मेलनं मुशायरा च आयोजयिष्येते। अस्मिन् सुरेन्द्रशर्मा, नवाजदेवबन्दी, नीलोत्पलमृणालः, पङ्कजचतुर्वेदी, बाबुषाकोहली, शशिश्रेयाः इत्यादयः हिन्दी-उर्दूभाषयोः प्रमुखाः कवयः स्वकीयाः रचनाः प्रस्तोष्यन्ति। अन्तिम-दिवसस्य कार्यक्रमाः अपराह्णे ३:३० वादनात् मुक्तरङ्गमञ्चे भविष्यन्ति।
अनेन महोत्सवेन आईआईटी-कानपुरं विद्यार्थिभ्यः, कलाकारभ्यः, साहित्य-प्रेमिभ्यश्च भारतीयभाषाभिः, साहित्येन, कलाभिः च सह सम्बद्धतां स्थापयितुं अवसरं प्रदास्यति।
Hindusthan Samachar / Divya Ranjan