बरेलीमुरादाबादखण्डशिक्षकनिर्वाचनक्षेत्रात् भाजपादलस्य प्रत्याशी डॉ. हरिसिंहढिल्लो विजयी अभवत्।
मुरादाबादम्, 28 अक्टूबरमासः (हि. स.)। उत्तरप्रदेशविधानपरिषदः बरेलीमुरादाबादखण्डशिक्षकनिर्वाचनक्षेत्रस्य निर्वाचने भारतीयजनतापक्षस्य प्रत्याशी डॉ. हरिसिंहढिल्लो समाजवादीपक्षस्य प्रत्याशिनं बिजनौरजनपदनिवासिनं हाजी दानिश अख्तरम् १७ सहस्र ६७६ मतैः पर
एमएलसी चुनाव में जीत के बाद विक्ट्री का साइन बनाते भाजपा प्रत्याशी डॉक्टर हरि सिंह ढिल्लो।


मुरादाबादम्, 28 अक्टूबरमासः (हि. स.)।

उत्तरप्रदेशविधानपरिषदः बरेलीमुरादाबादखण्डशिक्षकनिर्वाचनक्षेत्रस्य निर्वाचने भारतीयजनतापक्षस्य प्रत्याशी डॉ. हरिसिंहढिल्लो समाजवादीपक्षस्य प्रत्याशिनं बिजनौरजनपदनिवासिनं हाजी दानिश अख्तरम् १७ सहस्र ६७६ मतैः पराजितवान्। डॉ. हरिसिंहढिल्लो २१ सहस्र ६७२ मतानि प्राप्तवान्, हाजी दानिश अख्तरः ३ सहस्र ९९६ मतानि प्राप्तवान्। तृतीयस्थाने डॉ. सुनीतगिरी आसीत्। तेन २ सहस्र १४५ मतानि प्राप्तानि। चतुर्थस्थाने स्थितेन सञ्जयमिश्रेण ९८१ मतानि प्राप्तानि, पञ्चमस्थाने स्थितेन विमलेन्द्रकुमारशर्मणा केवलं ६२२ मतानि प्राप्तानि।

२०२० तमे वर्षे सम्पन्ने बरेलीमुरादाबादखण्डशिक्षकनिर्वाचनक्षेत्रस्य निर्वाचने भाजपाप्रत्याशी डॉ. हरिसिंहढिल्लो ७,९६३ मतैः विजयं प्राप्तवान् आसीत्। तस्मिन् निर्वाचने तेन समाजवादीपक्षस्य प्रत्याशी सञ्जयमिश्रः पराजितः आसीत्। २०२० तमे वर्षे डॉ. हरिसिंहढिल्लो १२ सहस्र ८२७ मतानि प्राप्तवान्, समाजवादीपक्षस्य सञ्जयमिश्रः ४ सहस्र ८६४ मतानि प्राप्तवान् आसीत्।

अस्मिन् वर्षे अक्टूबरमासस्य २३ दिनाङ्के सम्पन्ने मतदानप्रक्रियायां ७३.६९ प्रतिशतं मतदानम् अभवत्, अर्थात् ३५ सहस्र १४९ मतदातारः स्वमताधिकारस्य प्रयोगं कृतवन्तः। मङ्गलवासरे बरेलीस्थे सञ्जयगान्धिसामुदायिकभवने प्रातः अष्टवादने विधानपरिषदः सदस्यनिर्वाचनस्य मतगणना प्रारब्धा। परिणामः रात्रौ द्विवादने घोषितः।

सर्वप्रथमं मतपेटिकाभ्यः मतपत्राणि निष्कास्य पञ्चाशत्पञ्चाशत् मतपत्राणां समूहाः निर्मिताः। एतत्कार्यं प्रातः अष्टवादनात् अपराह्णे प्रायः त्रिवादनपर्यन्तं प्रचलितम्। ततः अपराह्णे चतुर्वादने मतगणना प्रारब्धा।

निर्वाचननिर्वाचनाधिकारी शम्भुकुमारः अवदत् यत् बरेलीमुरादाबादखण्डशिक्षकविधानपरिषद्निर्वाचने भाजपाप्रत्याशी हरिसिंहढिल्लो २१ सहस्र ६७२ मतानि, समाजवादीपक्षस्य हाजी दानिशः ३ सहस्र ९९६ मतानि, डॉ. सुनीतगिरी २ सहस्र १४३ मतानि, डॉ. राजेन्द्रगङ्गवारः १ सहस्र ५७३ मतानि, सञ्जयकुमारमिश्रः ९८१ मतानि, विमलेन्द्रशर्मा ६०१ मतानि, डॉ. राजीवकुमारः ४८१ मतानि, रेणुमिश्रा १२६ मतानि, रमेशचन्द्रः १०५ मतानि, नरेशकुमारशर्मा ११३ मतानि, नाजरिजवी ५९ मतानि, राजकुमारसिंहः ४४ मतानि, नेत्रपालः ३१ मतानि, बहारआलमः २१ मतानि, विद्युत्कुमारः १२ मतानि, हरेंद्रसिंहः ११ मतानि, रोहितअल्ताफः ९ मतानि च प्राप्तवन्तः। आहत्य३,१८१ मतपत्राणि निरस्तानि।

Hindusthan Samachar / Dheeraj Maithani