Enter your Email Address to subscribe to our newsletters

शिमला, 28 अक्टूबरमासः (हि.स.)।
भाजपादलेन डॉ. वाईएस परमार औद्यानिकी एवं वानिकीविश्वविद्यालयस्य नौणी इत्यस्य प्रशासनिकनिर्णयानां कार्यवाहककुलपतेः कार्यप्रणाल्याश्च निष्पक्षपरीक्षणस्य आग्रहः कृतः। भाजपादलस्य प्रदेशप्रवक्ता तथा सोलनसङ्गठनात्मकजनपदस्य प्रभारी सन्दीपनी भारद्वाजः प्रबन्धनमण्डलस्य उपवेशनानां कार्यवृत्तस्य, शिक्षकाणां स्थानान्तरणस्य, लम्बितानां विधिकप्रकरणानां तथा परीक्षाप्रणाल्या सम्बद्धानाम् आरोपाणां परीक्षणस्य आग्रहं कृतवान्।
भारद्वाजः बुधवासरे उक्तवान् यत् कार्यवाहककुलपतेः विरुद्धं देहरादूने सीबीआईन्यायालये द्वे आरोपपत्रे लम्बिते स्तः तथा सम्बद्धेषु प्रकरणेषु अभियोजनस्वीकृतिः प्रदत्ता इति विषयः प्रकाशम् आगतः। एतदतिरिक्तम् उत्तराखण्डे हिमाचलप्रदेशे च पूर्वप्रशासनिककार्यकालसम्बद्धाः विभागीयजाँचाः अपि लम्बिताः सन्तीति आरोपाः सन्ति। सः उक्तवान् यत् आरोपपत्रस्य लम्बितत्वं दोषसिद्धेः समानं न भवति। एतेषां प्रकरणानां वास्तविकस्थितिः आधिकारिकाभिलेखैः स्पष्टा कर्तव्या।
सः प्रश्नम् उत्थापितवान् यत् पूर्वकुलपतेः प्रो. राजेश्वरसिंहचन्देलस्य कार्यकालः २०२६ तमस्य वर्षस्य मईमासस्य अष्टमे दिनाङ्के समाप्तः अभवत्। तदनन्तरं कार्यवाहककुलपतये अतिरिक्तकार्यभारं समर्पयन् लम्बितप्रकरणानां विषये किम् परीक्षणं कृतम् आसीत्।
भारद्वाजः प्रबन्धनमण्डलस्य ११९ तमात् १२३ तमपर्यन्तानाम् उपवेशनानां कार्यवृत्तस्य विषये प्रश्नान् उत्थाप्य उक्तवान् यत् २०२६ तमस्य वर्षस्य अगस्तमासस्य द्वादशे दिनाङ्के सम्पन्नस्य १२३ तमस्य उपवेशनस्य कार्यवृत्ते कथितपरिवर्तनानां तथा सर्वकारीयाधिकारिणाम् आपत्तीनां परीक्षणं भवितव्यम्। तेन मूलाभिलेखानां संरक्षणस्य विवादास्पदनिर्णयानां च वैधानिकसमीक्षायाः आग्रहः कृतः।
सः उक्तवान् यत् कुलसचिवस्य सिद्धार्थाचार्यस्य अधिकारान् प्रत्याहर्तुं अक्टूबरमासस्य पञ्चमे दिनाङ्के निर्गतं आदेशं प्रदेशसर्वकारेण अक्टूबरमासस्य षष्ठे दिनाङ्के निरस्तं कृतम् आसीत्। सर्वकारेण स्पष्टं कृतम् आसीत् यत् कुलसचिवस्य वैधानिकाधिकाराः अन्यस्मै अधिकारिणे समर्पयितुं न शक्यन्ते।
भारद्वाजः विश्वविद्यालये प्रायः १८० स्थानान्तरणानां, कर्मचारिषु दबावस्य तथा शैक्षणिकक्रियाकलापेषु राजनीतिकहस्तक्षेपस्य आरोपाणां परीक्षणस्य आग्रहं कृतवान्। तेन थुनागमहाविद्यालये शिक्षकाणाम् उपलब्धतायाः कृषिविज्ञानकेन्द्रेषु च रिक्तपदानां विवरणं सार्वजनिकं कर्तुम् उक्तम्।
सः परीक्षामूल्याङ्कनं राजनीतिकाधारेण प्रभावितं कर्तुम् आरोपितस्य विषयस्य अपि परीक्षणस्य आग्रहं कृतवान्। भारद्वाजः उक्तवान् यत् सर्वकारः सर्वेषाम् आरोपाणां समयबद्धं परीक्षणं कारयेत् तथा दोषः प्रमाणितः भवति चेत् विध्यनुसारं कार्यवाहींकुर्यात्।
---------------
Hindusthan Samachar / Dheeraj Maithani