Enter your Email Address to subscribe to our newsletters

रायपुरम् 28 अक्टूबरमासः (हि.स.)।
छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे सूरजपुरस्य बलरामपुररामानुजगञ्जजनपदयोः प्रवासे भविष्यति। अस्मिन् प्रवासे सः विविधानां विकासकार्याणाम् उद्घाटनं शिलान्यासं च करिष्यति। बलरामपुरजनपदस्य जशवन्तपुरे स्वर्गीयलरंगसायस्य प्रतिमायाः अनावरणम् अपि करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायः प्रातः ११ वादने मुख्यमन्त्रिनिवासात् प्रस्थास्यति। सः मध्याह्ने १२:२० वादने सूरजपुरजनपदस्य प्रेमनगरस्थितं मध्यविद्यालयस्य क्रीडाङ्गणं प्राप्स्यति। अत्र विकासकार्याणाम् उद्घाटनं शिलान्यासं च कृत्वा जनसभां सम्बोधयिष्यति। जनसभायाः कार्यक्रमः मध्याह्ने १२:२० वादनतः १:२० वादनपर्यन्तं निर्धारितः अस्ति।
तदनन्तरं मुख्यमन्त्री मध्याह्ने २:४० वादने बलरामपुररामानुजगञ्जजनपदस्य जशवन्तपुरं प्राप्स्यति। अत्र सः स्वर्गीयलरंगसायस्य प्रतिमायाः अनावरणं करिष्यति तथा विविधविकासकार्याणाम् उद्घाटनं शिलान्यासं च करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायः सायं ४:३० वादने जशपुरजनपदस्य बगीचास्थितं स्वनिवासं प्राप्स्यति।
Hindusthan Samachar / Dheeraj Maithani