इतिहासस्य पृष्ठेषु २९ अक्टोबर् : अद्य विश्वाघातदिवसः, समये लक्षणानां परिचयेन चिकित्सया च रक्षितुं शक्यते जीवनम्
विश्वे प्रतिवर्षम् अक्टोबरमासस्य २९ दिनाङ्के विश्वाघातदिवसः आचर्यते। अस्य उद्देश्यं जनान् मस्तिष्काघातस्य विषये जागरूकान् कर्तुं समये चिकित्सायाः महत्त्वं च अवबोधयितुम् अस्ति। मस्तिष्काघातः विश्वे मृत्योः शारीरिकविकलाङ्गतायाश्च प्रमुखकारणेषु अन्यतम
सांकेतिक।


विश्वे प्रतिवर्षम् अक्टोबरमासस्य २९ दिनाङ्के विश्वाघातदिवसः आचर्यते। अस्य उद्देश्यं जनान् मस्तिष्काघातस्य विषये जागरूकान् कर्तुं समये चिकित्सायाः महत्त्वं च अवबोधयितुम् अस्ति। मस्तिष्काघातः विश्वे मृत्योः शारीरिकविकलाङ्गतायाश्च प्रमुखकारणेषु अन्यतमः अस्ति।

विश्वाघातदिवसस्य प्रारम्भः २००४ तमे वर्षे कनाडादेशस्य वैंकूवरनगरे आयोजितस्य विश्वाघातमहाधिवेशनस्य समये अभवत्। २००६ तमे वर्षे अस्मै आधिकारिकमान्यता प्राप्ता। अस्मिन्नेव वर्षे विश्वाघातमहासङ्घस्य अन्तरराष्ट्रीयाघातसमितेश्च विलयेन विश्वाघातसङ्गठनस्य गठनम् अभवत्।

यदा मस्तिष्कस्य कस्यचित् भागस्य रक्तापूर्तिः अवरुद्धा भवति अथवा रक्तस्रावः भवति, तदा मस्तिष्काघातः भवति। अनेन मस्तिष्ककोशिकानां क्षतिः भवितुम् अर्हति। मुखस्य एकपार्श्वस्य वक्रता, हस्तपादयोः सहसा दुर्बलता, वक्तुं वा अवगन्तुं वा कठिनता, दृष्टौ सन्तुलननिर्धारणे च कठिनता अस्य प्रमुखाणि लक्षणानि सन्ति।

विशेषज्ञानाम् अनुसारेण एतानि लक्षणानि दृश्यन्ते चेत् तत्क्षणमेव चिकित्सासाहाय्यं स्वीकरणीयम्। चिकित्सायां विलम्बः गम्भीरपरिणामानां कारणं भवितुम् अर्हति। उच्चरक्तचापः, मधुमेहः, धूमपानम् अस्वास्थ्यकरजीवनशैली च मस्तिष्काघातस्य जोखिमं वर्धयन्ति।

विश्वाघातदिवसस्य सन्देशः अस्ति यत् जागरूकतया, स्वस्थजीवनशैल्या समयोचितचिकित्सया च मस्तिष्काघातस्य जोखिमं तस्य गम्भीरप्रभावांश्च न्यूनीकर्तुं शक्यते।

महत्त्वपूर्णाः ऐतिहासिकघटनाः

१७०९ तमे वर्षे आङ्ग्लदेशेन नीदरलैण्डदेशेन च फ्रान्सदेशस्य विरोधे सन्धौ हस्ताक्षराणि कृतानि।

१७९४ तमे वर्षे फ्रान्सदेशस्य सेनया दक्षिणपूर्वनीदरलैण्डदेशस्य वेनलोप्रदेशः अधिकृतः।

१८५१ तमे वर्षे बङ्गाले ब्रिटिश इण्डियन एसोसिएशन इति संस्थायाः स्थापना अभवत्।

१८५९ तमे वर्षे स्पेनदेशेन आफ्रिकाखण्डस्य मोरक्कोदेशस्य विरुद्धं युद्धस्य घोषणा कृता।

१८६४ तमे वर्षे यूनानदेशेन नूतनं संविधानम् अङ्गीकृतम्।

१९१३ तमे वर्षे मध्य-अमेरिकायाः एल्-साल्वाडोरदेशे जलप्लावनेन सहस्रशः जनाः मृताः।

१९२० तमे वर्षे पूर्वराष्ट्रपतेः जाकिरहुसैनस्य प्रयासैः जामिया मिलिया इस्लामिया संस्थायाः स्थापना अभवत्।

१९२३ तमे वर्षे ऑटोमनसाम्राज्यस्य समाप्तेः घोषणया सह तुर्कीदेशः गणराज्यम् अभवत्।

१९२४ तमे वर्षे ब्रिटेनदेशे संसदीयनिर्वाचने लेबरपार्टी इति दलस्य पराजयः अभवत्।

१९२९ तमे वर्षे अमेरिकादेशस्य शेयरविपण्ये प्रायः एककोटिः षोडशलक्षं च अंशपत्राणां विक्रयणं जातम्। अतः अयं दिवसः ‘ब्लैक ट्यूजडे’ इति नाम्ना प्रसिद्धः अभवत्।

१९४२ तमे वर्षे नाजिभिः बेलारूसदेशस्य पिनस्कनगरे षोडशसहस्राणि यहूदिजनाः हताः।

१९४५ तमे वर्षे विश्वे प्रथमं बॉलपॉइण्ट् लेखनीविक्रयणार्थं विपण्याम् आनीता।

१९४७ तमे वर्षे बेल्जियम्, लक्जमबर्ग्, नीदरलैण्ड् च देशाः मिलित्वा बेनेलक्ससङ्घस्य निर्माणम् अकुर्वन्।

१९५६ तमे वर्षे स्वेजनहरप्रदेशम् अधिकर्तुं इजरायलदेशस्य सेना मिस्रदेशस्य सिनायप्रान्ते आक्रमणम् अकरोत्।

१९५८ तमे वर्षे अमेरिकादेशेन नेवाडाप्रदेशे परमाणुपरीक्षणं कृतम्।

१९७५ तमे वर्षे स्पेनदेशे जनरल् फ्रान्को इत्यस्य पञ्चत्रिंशद्वर्षीयशासनस्य समाप्तिः अभवत्। युवराजः जुआन् कार्लोस् अस्थायिरूपेण सत्ताम् अगृह्णात्।

१९९० तमे वर्षे आफ्रिकाखण्डस्य अल्जीरियादेशे भूकम्पेन त्रिंशत् जनाः मृताः।

१९९४ तमे वर्षे न्यूयॉर्कनगरे अमेरिकीयभारतीयराष्ट्रीयसङ्ग्रहालयस्य उद्घाटनम् अभवत्।

१९९५ तमे वर्षे जनमतसङ्ग्रहे कनाडादेशस्य क्यूबेकप्रान्तस्य जनैः कनाडादेशेन सह स्थातुं निर्णयः कृतः।

१९९७ तमे वर्षे पाकिस्तानदेशेन अन्तरराष्ट्रीयरासायनिकास्त्रसन्धेः अनुमोदनं कृतम्।

१९९९ तमे वर्षे ओडिशाप्रान्ते चक्रवातेन सहस्रशः जनाः मृताः।

२००० तमे वर्षे आइसलैण्डदेशस्य राष्ट्रपतिः ओलाफुर् रेग्नर् ग्रिम्सन् सप्तदिवसीयायां राजकीययात्रायां भारतम् आगतवान्।

२००१ तमे वर्षे पाकिस्तानदेशे कट्टरपन्थिभिः कबायलीजनैः पाकिस्तानेन अधिकृतस्य कश्मीरस्य चिलासनगरस्य विमानपट्टिका, कारागारः, पेट्रोलविक्रयकेन्द्राणि च अधिकृतानि।

२००४ तमे वर्षे त्रिनिदाद्-टोबैगोदेशस्य राष्ट्रपतिः मैक्सवेल् रिचर्ड्स् नवदिल्लीनगरे भारतीयस्य राष्ट्रपतेः ए. पी. जे. अब्दुलकलामस्य च सह वार्ताम् अकरोत्।

२००५ तमे वर्षे ‘आयल् फॉर फूड् प्रोग्राम्’ इति विषयसम्बद्धायां बोल्कर् प्रतिवेदने भारतस्य विदेशमन्त्री नटवरसिंहः आरोपाणाम् अधीनः अभवत्।

२००५ तमे वर्षे दीपावल्याः द्विदिनपूर्वं दिल्लीनगरस्य व्यस्तक्षेत्रेषु श्रृङ्खलाबद्धेषु बमविस्फोटेषु द्विषष्टिः जनाः मृताः।

२००८ तमे वर्षे असमप्रदेशे बमविस्फोटेषु एकोनसप्ततिः जनाः मृताः, त्रिशताधिकाः पञ्चाशत् जनाश्च आहताः।

२०१२ तमे वर्षे अमेरिकादेशस्य पूर्वतटे सैण्डी चक्रवातेन द्व्यशीत्यधिकद्विशतं जनाः मृताः।

२०१२ तमे वर्षे भारतादिभिः एशियादेशैः सह सम्बन्धान् सुदृढान् कर्तुं ऑस्ट्रेलियादेशस्य विद्यालयेषु हिन्दीभाषायाः अन्यासां प्रमुखाणाम् एशियाभाषाणां च शिक्षणस्य योजना निर्धारिता।

२०१२ तमे वर्षे भारतीयः प्रमुखः क्रीडकः पङ्कज आडवाणी इत्यनेन इंग्लैण्डदेशस्य वर्तमानविजेता स्थानीयप्रबलप्रतिद्वन्द्वी च माइक रसेल् पराजितः। अनेन सः सप्तमं विश्वबिलियर्ड्स् प्रतियोगिताविजेतृपदं प्राप्तवान्।

२०१५ तमे वर्षे चीनदेशेन एकसन्ततिनीतिं समाप्तुं घोषणा कृता।

जन्म

१९६४ तमे वर्षे देवुसिंह चौहानस्य जन्म अभवत्। सः भारतीयजनतापार्टी इति राजनैतिकदलस्य नेता अस्ति।

१९८५ तमे वर्षे भारतीयमुष्टियुद्धक्रीडकस्य विजेन्द्रकुमारसिंहस्य जन्म अभवत्।

निधनम्

१९११ तमे वर्षे अमेरिकादेशस्य सम्पादकः प्रकाशकश्च जोसेफ पुलित्जरः दिवङ्गतः।

१९५९ तमे वर्षे प्रथमलोकसभायाः सदस्यः सैयदमोहम्मद अहमद काजमी दिवङ्गतः।

१९७८ तमे वर्षे भारतीयः रोगविज्ञानी वी. आर. खानोलकरः दिवङ्गतः।

१९८८ तमे वर्षे समाजसुधारिका, स्वतन्त्रतासङ्ग्रामसेनानी, भारतीयहस्तकलाक्षेत्रे नवजागरणस्य प्रवर्तिका गान्धीवादी महिला कमलादेवी चट्टोपाध्याय दिवङ्गता।

२०२० तमे वर्षे छऊनृत्यस्य अन्तरराष्ट्रीयपरिचयं वर्धितवान् नर्तकः श्यामाचरण पतिः दिवङ्गतः।

२०२० तमे वर्षे गुजरातरा

ज्यस्य दशमः पूर्वमुख्यमन्त्री केशुभाई पटेलः दिवङ्गतः।

महत्त्वपूर्णः अवसरः

विश्वाघातदिवसः।

Hindusthan Samachar / Dheeraj Maithani